________________ प्रमाणप्र० का० 13 ] प्रतिबिम्बवादः 453 अधिष्ठानानृजुत्वाच नात्मा सूर्य प्रपद्यते / पारम्पर्पितं सन्तमवाग्वृत्त्या नु बुध्यते // ऊर्ध्ववृत्तितदेकत्वात् अवागिव च मन्यते / अधस्तादेव तेनार्कः सान्तरालः प्रतीयते // एवं प्राग्नतया वृत्त्या प्रत्यग्वृत्तिसमर्पितम् / बुध्यमानो मुखं भ्रान्तः प्रत्यगित्यवगच्छति // " [मी० श्लो शब्दनि० श्लो० 186-190 / ] इति / किञ्च, यदि प्रतिबिम्बमर्थान्तरं बिम्बादुत्पन्नं तदा कथं बिम्बे चलति नियमेन 5 तदपि चलेत् , तिष्ठति च तिष्ठेत् ? नहि दण्डे चलति तिष्ठति च ततोऽर्थान्तरभूतो घटः नियमेन चलति तिष्ठति चेति प्रतीतम् / प्रतीयते च बिम्बस्य चलाचलत्वे नियमेन प्रतिबिम्बस्य चलाचलत्वम् , अतो न तंत् ततोऽर्थान्तरम् / 6 यदि च तत्ततोऽर्थान्तर स्यात् तदा दर्पणादौ बिम्बापाये कुतो नोपलभ्यते ? विनष्टत्वाञ्चेत् ; न; निमित्तकारणापाये कार्यस्य अपायाऽप्रतीतेः / न खलु दण्डादेनिमित्तकारणस्यापाये घटादेः कार्यस्य 10 विनाशः स्वप्नेऽपि प्रतीयते / अस्तु वा तैदपाये तद्विनाशः; तथापि प्रतिबिम्बविनाशे पृथक् तदवयवोपलम्भप्रसङ्गः घटविनाशे कपालोपलम्भवत् , न चैवमस्ति / ततो न मुखं गृह्यते न जलपात्रेष्विव अधःसान्तरालं तत्कस्य हेतोः ? अत्रापि सान्तरालमेव प्रत्यग्वत्त्या प्रकाशित प्राग्वृत्त्यै समर्पितं तथैव ग्रहीतव्यम् ; उच्यते-वस्तुस्वभावस्यापर्यनुयोज्यत्वाददोषः / तैजसेषु हि दर्पणादिषु तद्गतमेव मुखं गृह्यते जले तु सान्तरालमिति किमत्रपृच्छयते इति।"-मी० इलो० न्यायर० पृ०७७६-७७। "ये हि जलपात्रे जलं सूर्यञ्च पश्यन्ति तेषामप्सूर्यदर्शिनामेकमेव चक्षुरूर्ध्वमधश्च द्विधा भागशः प्रवर्तते। तत्रो_भागप्रकाशितमादित्यमात्मा पुरुषो न गृह्णाति / कुतः ? अधिष्ठानानृजुस्थत्वात्-चक्षुरिन्द्रियाधिष्ठानस्यार्जवेन तदानवस्थितत्वात् / पारम्पर्येण तु सौरेण तेजसा वृत्तेरर्पितमादित्यमवाग्वृत्त्या कार•णभूतया बुध्यते। तथाहि-किल सौरं तेजस्तेजस्विनं वृत्तेरर्पयति वृत्तिश्चक्षुषश्चक्षुरात्मन इत्येतत् पारम्पर्यार्पणं सूर्यस्य तेजस्विन इति / आदित्यमूर्ध्ववृत्तिम् उपरिस्थञ्च तमादित्यमवागिव अधःस्थितमिव मन्यते / क: ? आत्मा / न पुनरधस्तादन्य एवादित्यः / कुतः ? तदेकत्वात् तस्यादित्यस्य अभिन्नत्वात् / चक्षुष इत्यपरे / तस्मादनन्तरोदितेनैव चक्षुषो वृत्तिवशेन सान्तरालोऽधस्तात्कृपादिष सूर्यो दृश्यते जलादिपात्रभेदाच्च / अन्यथा कथमभेदेन ग्रहणं स्यात् ? प्रथमं किल चक्षुरश्मयो मुखमादाय निर्गच्छन्ति यावदादर्शादिदेशम्, सा प्राङनता वृत्तिरुच्यते। ते च तत्रादर्शादौ प्रतिहता निवर्तमानाः स्वमुखमेव यथावस्थितमागच्छन्ति / सा च प्रत्यग्वृत्तिः / तत्र प्राङनता वृत्तिर्मुखं प्रत्यग्वृत्तेरर्पयति, प्रत्यग्वृत्तिश्चात्मनः, तत आत्मा प्रत्यग्वृत्तिसमर्पितमवगच्छन् मुखं भ्रान्त्या प्रत्यङमुखं यास्यामीति मन्यते / चक्षुवृत्तेर्वैचित्र्यमेव भान्तिबीजमिति भावः / " -तत्त्वसं० 50 पृ० 615 / (15) 'चक्षुर्द्वधा' -मी० श्लो०। (16) 'तत्रोशुिप्र'-तत्त्वसं० / (1) 'अधिष्ठानानृजुस्थत्वान्नात्मा' -मी० श्लो०, तत्त्वसं० (2) 'वृत्त्याऽवबु'-तत्त्वसं० / 'वृत्त्या तु बु' -मी० श्लो०। (3) 'ऊर्ध्ववृत्तेस्तदे' मी० श्लो०, 'ऊर्ध्ववृत्तितदे'-तत्त्वसं० / ऊर्ध्वत्तिरश्मीनामधोवृत्तिभिः रश्मिभिः सममेकत्वात् -आ० टि०। (4) 'प्राग्भतया' -मी० श्लो। (5) 'भान्त्या' -भो० श्लो०, तत्त्वसं० / 'भान्ते:'-प्रमेयक०। (6) उद्धृता इमे -तत्वसं० पृ. 614 / प्रमेयक० पृ० 408 / (7) प्रतिबिम्बमपि। (8) दण्डात् / (9) प्रतिबिम्बम् / (10) बिम्बात् / (11) प्रतिबिम्बम् / (12) निमित्तकारणस्य बिम्बस्याभावे / (13) कार्यभूतस्य प्रतिबिम्बस्यापायः / (14) प्रतिबिम्बावयव / (15) न खलु प्रतिबिम्बनाशे पश्चात्त्रुटिता अवयवाः समुपलभ्यन्ते / 1 प्राग्गतया श्र०। 2 तदा तत्कथं आ० / एतदन्तर्गत: पाठो नास्ति आ० /