________________ 452 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० पार्यते सर्वदा तथादर्शनप्रसङ्गात्। न च प्रतिबिम्बमन्तरेण कूपादिषु अधस्तात्तद्वीक्षणम् / प्राङ्मुखश्च दर्पणं पश्यन् प्रत्यङ्मुखश्च कथं स्यात् ? यदि च बहिर्निष्क्रान्तमिन्द्रियं तत्रैव बोधयेदर्थं तत एतदेवं भवेत् , शरीरे तु तद्बोधकमिति / उक्तश्च "अन्ये तु चोदयन्त्यत्र प्रतिबिम्बोदयैषिणः / स एव चेत् प्रतीयेत कस्मान्नोपरि दृश्यते ? // 5 कूपादिषु कुतोऽधस्तात् प्रतिबिम्बाद्विनेक्षणम् / प्राङ्मुखो दर्पणं पश्यन् त्याच प्रत्यङ्मुखः कथम्?॥ तत्रैव बोधयेदर्थ बहिर्यातं यदीन्द्रियम् / तत एतद्भवेदेवं शरीरे तत्तु बोधकम् // " ___ [मी० श्लो० शम्वनि० श्लो० 183-186 / ] इति"। अत्रोच्यते-जले सूर्यादिदर्शिनां द्वेधा चक्षुः सर्वदा प्रवर्त्तते, एकमूर्ध्वम् , अपरञ्च अधस्तात् / तत्र नोर्वाशप्रकाशितं सूर्यम् आत्मा प्रतिपद्यते अधिष्ठानाऽनृजु10 त्वात् , अवाग्वृत्या तु तं बुध्यते पारम्पर्पितं संन्तम् अधिष्ठान त्वात् , अवागिव च मन्यते / ऊँवृत्तितदेकत्वात् , तेन कारणेन अधस्तादेव आदित्यः सान्तरालः प्रतीयते / एवं दर्पणादौ नायनो रश्मिः प्रतिहतो व्यावृत्त्य स्वकीयमेव मुखं प्राङ्मुखरश्मे समर्पयति, ततश्च प्राग्नतया नायनरश्मिवृत्त्या मुखं बुद्ध्यमानः प्रतिपत्ता प्रत्यक् तद्रूत्तिसमर्पितं 'प्रत्यग्' इत्यवगच्छति। तदुक्तम्"प्सूर्यदर्शिनां नित्यं द्वधा चतुः प्रवर्त्तते / एकमूर्ध्वमधस्ताच तत्रोशिप्रकाशितम् // (1) जलादावेव सूर्यदर्शनं स्यात् / (2) सूर्यादि। (3) पुरुषः / (4) अर्थदेशे गत्वा / (5) स्वदेशस्थ एव आदित्यादिस्तत्र प्रतिभासत इति -आ० टि०। (6) इन्द्रियं चक्षुः / (7) व्याख्या-"जलादिषु यथैकोऽपि नानात्मा सवितेक्ष्यते-इत्यस्य हेतुव्यभिचारविषयत्वेनोक्तस्यासिद्धि मन्यमानाः प्रतिबिम्बमर्थान्तरमिच्छन्तश्चोदयन्ति। यदि स एव एवादित्यो दृश्यते न प्रतिबिम्ब तत्किमिति उपरिष्टादस्य दर्शनं न भवति? एवं हि तस्य दर्शनं भवेत् यदि देशावस्थितस्वरूपं गृह्णीयात् नान्यथा, अन्यथा हि अतिप्रसङ्गः / किञ्च, कूपादिषु च दूराधःसंविष्टस्यादिः कथं ग्रहणं भवेत् यदि तत्र प्रतिबिम्ब नोत्पन्नं स्यात् ? नहि तत्र तथार्कादिव्यविस्थितिः / अपि च प्राङमुखो दर्पणमवलोकयन् कथमिव प्रत्यङमुखो भवति ? न हि तस्य तदा पृष्ठाभिमुखं मुखमुपजातं दृश्यते / एवं मन्यते यदि बहिर्निगतमिन्द्रियमादित्यं बोधयेत्तत एतत्स्यात् उपरिस्थितमेव पश्येन्नाधस्तादिति / यावता धर्माधर्मवशीकृते शरीरे एव तदिन्द्रियं ग्राहकमिष्यते नोपरिस्थम्।"-तत्त्वसं० पं० पृ० 614 / (8) 'प्रतिबिम्बेक्षणं भवेत्'-मी० श्लो० / (9) 'स्याच्चेत्प्र' -मी० इलो०। (10) 'यदिन्द्रियं' -मी० श्लो०। (11) उद्धृता एते -तत्त्वसं० पृ०६१४ / प्रमेयक० पृ० 408 / (12) प्रतिबिम्बनिषेधिभिः -आ० टि०। (13) ऊर्ध्वाधोरश्मीनामेकत्वात् -आ० टि०। (14) व्याख्या-“एकमेव चक्षुरुत्कण्ठितलम्बमानसर्पवत् द्वेधा वर्तते अधस्तादूर्ध्वञ्च। तत्रोव॑वृत्तिप्रकाशितं देहानार्जवान्नात्मा बुद्धयत इति / कस्मातहि बुद्धयत अत आह-पारम्पर्येति / ऊर्ध्ववृत्तिरधोवृत्त्यै समर्पयति सा च आत्मन इति / कः पुनरुव॑वृत्तेरधोवृत्त्या सम्बन्धो येन समर्पयति अत आह ऊर्ध्वति / एकस्यैव हि तावंशौ तेनास्योर्ध्ववृत्तेस्तया वृत्त्या धर्मिरूपेणैक्यमिति अधोवृत्त्याऽवबुध्यमानस्तदानुगुण्यादवागिव सूर्यं मन्यत इति / ..."यत्तु प्राङमुखो दर्पणं पश्यन् कथं प्रत्यङमुखो दृश्यत इत्युक्तं तत्राहएवमिति / तत्रापि प्रत्यग्वृत्तिप्रकाशितं मुखम् अधिष्ठानानार्जवान्नात्मा प्रतिपद्यत इति, किन्तु प्रत्यग्वृत्तिः प्राग्वृत्त्यै समर्पयति तयाच समर्पितः प्राग्वृत्त्या बुध्यमानः तदानुगुण्येन प्रत्यगिति बुध्यते। नन्वत्र दर्पणस्थमेव 1 बोषयन्त्यत्र श्र०। 2 स तम् श्र०। 8-च्छतीति ब.। 4 उक्तञ्च श्र० /