________________ प्रतिबिम्बं कि किन नटे प्रमाणप्र० का० 13 ] प्रतिबिम्बवादः 451 चन्द्रादिः स्वभावः कार्य वा, अथ च अत: तत्र अव्यभिचारिणी प्रतिपत्तिः प्रतीयते इति। ननु जलादौ न प्रतिबिम्ब नाम वस्त्वन्तरं संभवति, तत्संभवे बिम्बसन्निधानात् जलादौ न आदित्यादेः प्रागपि तत्रै तर्दुपलम्भप्रसङ्गात् / अथ बिम्बसन्निधान एव तदुत्पद्यते स्वदे- अतो न प्रागपि तत्प्रसङ्गः ; ननु तत्सन्निधाने गुणरूपम् , द्रव्यरूपं वा शस्थ एव आदित्यादिः तत्र प्रतिभासते इति प्रति तदुत्पद्येत ? न तावद् गुणरूपम् ; द्रव्यत्वेन प्रतिभासमानत्वात् / अथ / बिम्बाभाववादिनः कुमा- द्रव्यरूपम् ; तत्कि निरवयवद्रव्यरूपम् , सावयवद्रव्यरूपं वा ? रिलभट्टस्य पूर्वपक्षः- तत्राद्यः पक्षोऽनुपपन्नः; त अवयवप्रतिभासनात् / नापि सावयवम् ; जलादिस्पर्शात् पृथक् तेत्स्पर्टीपलम्भासम्भवात् / स्पर्शवन्तश्च परमाणवः स्पर्शवद्रव्यस्यारम्भका भवन्ति, तत्र चास्य किं जलादिपरमाणव एव आरम्भकाः, अन्ये वा ? न तावदन्ये; स्पर्शवदवयविदेशे तेषां तदारम्भ- 10 कत्वासंभवात् / अथ जलादिपरमाणव एव तदारम्भकाः; तन्न; जलमयत्वेन अस्याऽप्रतिभासनात् / जलरूपवैलक्षण्यप्रतीतेश्च, शुक्लं हि रूपं जलस्य, न च मुखादिप्रतिबिम्बे तैदैस्ति / न च बिम्बरूपमेव तदारम्भकमित्यभिधातव्यम् ; निमित्तकारणगतस्य पृथग्देशावस्थितस्य रूपस्य कार्यद्रव्यरूपानारम्भकत्वात् / द्वयोश्च सावयवयोः समानाकाशदेशत्वानुपपत्तिः / आश्रयद्रव्यस्य च आदर्शादेः परिमाणगौरवयोरुत्कर्षः स्यात् , नचैतदस्ति / 15 अतो न प्रतिबिम्ब किञ्चिद् वस्त्वन्तरं युक्तम् / ननु यदि तन्नास्ति कथं जलादौ सूर्यादिप्रतिबिम्बप्रतिभासः ? इत्यप्ययुक्तम् ; तत्र तत्प्रतिभासाऽसंभवात्, स्वदेशस्थस्यैव आदित्यादेः तत्र प्रतिभासनात् / __अत्रैके प्रतिबिम्बोदयवादिनः पर्यनुयुञ्जते-यदि स्वप्रदेशस्थ एव सविता उपलभ्यते न प्रतिबिम्बानि, कस्मात्तर्हि नोपरि एव दृश्यते ? नहि अन्यत्रस्थः अन्यत्र द्रष्टुं 20 (1) जलचन्द्रादेः। (2) चन्द्रादौ। (3) जले –आ० टि० (4) प्रतिबिम्बोपलम्भ / (5) प्रतिबिम्बम / (6) बिम्बसन्निधाने। (7) प्रतिबिम्बे -आ० टि०। (8) हस्तपादादीनाम -आ० टि०। (9) यदि सावयवं प्रतिबिम्बमान्तरभूतं जले समुत्पन्नं तदा तस्य स्पर्शादिभिः पृथग्भूतैर्भवितव्यम्, न चैतत्संभवति, जलीयस्पर्शाद्यात्मकत्वात् प्रतिबिम्बस्पर्शादीनाम् / (10) प्रतिबिम्बस्य / (11) उत्पादकाः (12) अन्येषाम् –आ० टि०। (13) शुक्लं रूपम् / (14) कार्यद्रव्यरूपारम्भकं हि समवायिकारणगतं रूपं भवति / (15) अथ निमित्तकारणं तत्रागत्य निष्पादयतीत्याह -आ० टि। निमित्तसमवायिकारणयोः / “सहकत्र द्वयासत्त्वान्न वस्तु प्रतिबिम्बकम् / तत्कथं कार्यता तस्य युक्ता चेत्पारमार्थिकी / / अवस्तुत्वे हेतुः सहकत्र द्वयासत्त्वादिति / यत्रैव प्रदेशे आदर्शरूपं दृश्यते प्रतिबिम्बकञ्च तत्रैव / न चैकत्र प्रदेशे रूपद्वयस्यास्ति सहभावः सप्रतिघत्वात्, अतः सहकत्र द्वयोः रूपयोः सत्त्वं न प्राप्नोति / तस्माद् भ्रान्तिरियम् / अतो नास्त्येव किञ्चिद्वस्तुभूतं प्रतिबिम्बक नाम।" -तत्त्वसं० 50 पृ० 418, 697 / (16) प्रतिबिम्बम् / (17) जलादौ। (18) सूर्यादिप्रतिबिम्ब / (19) जलादौ (20) जैनादयः / (21) नभोदेशस्थः / (22) जलादौ / 1 जलादेर्न ब० / 2 नावयवम् श्र० / 8 स्पर्शद्रव्य-श्र० / 4 –स्थितस्य कार्य-ब० / 5-पारम्भक-श्र०। 6 वा ब०। 7-त्यावेः प्रति-ब०, श्र०। 8 अत्र केचित् प्र- श्र०।