________________ लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० नुमानम् अनुमितानुमानात् ; इत्यप्यसत् ; तथा व्यवहाराभावात् / नहि आस्वाद्यमानाद् रसाद् व्यवहारी सामग्रीमनुमिनोति ; वर्तमानरूपादेरप्रतीतिप्रसङ्गात् / तथा च 'इदमाम्रफलम् एवंविधरूपम् एवंविधरसत्वात्' इत्यनुमानम् , पावकरूपदर्शनात् तत्समकालोष्णस्पर्शानुमानम् , तदैर्थिनः तत्र प्रवृत्तिश्च न प्राप्नोति / व्यवहारानुसारेण च भवेता प्रमाणचिन्ता प्रतन्यते "प्रामाण्यं व्यवहारेण" [प्रमाणवा० 2 / 5 ] इत्यभिधानात् / सामग्रीतो रूपानुमाने च कारणात् कार्यानुमानप्रसङ्गात् लिङ्गसंख्याव्याघात: स्यात्। ततः सिद्धम्अकार्यादस्वभावाच्च वृक्षादेः छायाद्यनुमानम् / तर्हि व्यभिचारोऽत्र भविष्यति इत्यत्राह'नच' इत्यादि / नच नैव वृक्षादेः छायाद्यनुमाने विसंवादो व्यभिचारोऽस्ति तत्प्राप्तिप्रतीतेः / अवार्थे दृष्टान्तान्तरमाह __ चन्द्रादेर्जलचन्द्रादिप्रतिपत्तिस्तथाऽनुमा // 13 // विवृतिः-न हि जलचन्द्रादेः चन्द्रादिः खभावः कार्य वा / चन्द्र आदिर्यस्य आदित्यादेः स तथोक्तः, तस्मात् , जलचन्द्र आदिर्यस्य कारिकावित्यो जलादित्यादेः सोऽपि तथोक्तः तस्य प्रतिपत्तिःतथा [अन्यथाऽ] नुप ___ व्याख्यानम्- त्तिप्रकारेण अनुमा अनुमानम्। जलचन्द्रादिना प्रतिपत्तिः चन्द्रादेरिति 15 वा व्याख्यातव्यम् / एतदेव व्याचष्टे 'नहि' इत्यादिना / 'नहि' नैव जलचन्द्रादेः (1) तुलना-“समानक्षणयोर्गम्यगमकभावोपलब्धेः; तथाहि-रूपक्षणात् समानकाल: स्पर्शोऽनुमीयते न पूर्वः, तत्र एकसामग्र्यधीनत्वासंभव एव / न च रूपस्पर्शयोः परस्परोत्पत्तौ कारणत्वे प्रमाणमस्ति इतरान्वयस्येतरत्रानुपलब्धेः।”-प्रश० व्यो० पृ० 571 / “लौकिकानाञ्चैतद्रसाद् रूपानुमानम् / न चैते पिशितचक्षुषः क्षणानामन्योन्यभेदमध्यवस्यन्ति / न चानध्यवस्यन्तः प्रवृत्तरूपोपादानसामर्थ्य रसहेतुमनुमातुमुत्सहन्ते ।"-न्यायवा० ता० पृ० 163 / “लोकस्येत्थमप्रतीते:, रूपमेव रसाल्लोकः प्रतिपद्यते / लौकिकी च प्रतीतिः परीक्षकरप्यनुसरणीया ।"-प्रक०५० पृ०६७। बृह० पं० पृ०९४। (2) न प्राप्नोतीत्यर्थः किन्तु इदमामफलमेवंविधसामग्रीकमिति प्राप्तिः-आ० टि०। (3) रूप-उष्णस्पर्शार्थिनः / (4) रूपादौ न प्रवृत्तिः प्राप्नोति किन्तु सामग्याम् –आ० टि० (5) सौगतेन / (6) तुलना-"तथा च रसात् कार्यात्तत्कारणं रूपमनुमातव्यं ततश्चानुमिताद्रूपात् कारणात् तत्कार्य रससमानकालं रूपमनुमातव्यं तथा च कारणात् कार्यानुमानं तादात्म्यतदुत्पत्तिभ्यामन्यदिति नाभ्यामेव प्रतिबन्धसिद्धिः।" -ज्यायवा० ता० पृ०१६२। प्रक० पं० पृ० 67 / बृह० पं० पृ०९४ / “रसादेकसामग्यनुमानेन रूपानुमानमिच्छद्भिरिष्टमेव किञ्चित्कारणं हेतुर्यत्र सामर्थ्याप्रतिबन्धकारणान्तरावैकल्ये।"-परीक्षाम० 3160 / सन्मति०टी०पू० 593 / प्रमाणनय० 3066 / प्रमाणमी० पृ०४३। (7) यदि सामग्री कारणं रूपादयस्तु कार्य तदा स्वभावलिङ्ग कार्यलिङ्गं कारणलिङ्गमिति त्रयप्रसक्ते:-आ० टि०। (8) "त्रीण्येव च लिङ्गानि / अनुपलब्धिः स्वभावकार्ये चेति।"-न्याय बि० पृ०३५। (9) कारणहेतुसमर्थनार्थम् / (10) "चन्द्र आदिर्यस्य आदित्यादेरसौ चन्द्रादिः तस्मात् कारणभूतात्, जले स्वच्छाम्भसि चन्द्रादेः चन्द्रादिप्रतिबिम्बस्य प्रतिपत्तिरवबोधोऽनुमा अनुमानमनुमन्तव्यमव्यभिचारात् / किंवत् ? तथा कार्यात्कारणप्रतिपत्तिवत् ।"-लघी० ता० पृ० 32 / तुलना-“चन्द्रादौ जलचन्द्रादि सोऽपि तत्र तथाविधः / छायादिपादपादौ च सोऽपि तत्र कदाचन ॥"-तत्त्वार्थश्लो. पृ० 201 / (11) जलप्रतिबिम्बितस्य चन्द्रादेः। (12) तादात्म्यतदुत्पत्त्यभावेऽपि-आ० टि० / 1 अनुमित्यनुमा-आ०, ब०। प्रतिपत्तिश्च ब०।