________________ प्रमाणप्र० का०१२ ] अविनाभावविचारः 446 नम् क्तिमात्रम् ; यतो विपक्षे बाधकं प्रमाणं क्रमयोगपद्यानुपलम्भलक्षणमनुमानम् / अनुमानश्च सिद्धव्याप्तिकमेव स्वसाध्यसिद्धये प्रभवति नान्यथाऽतिप्रसङ्गात् / व्याप्तिश्च तत्रीप्यनुमानान्तरेण प्रतीयते, प्रथमानुमानेन वा ? अनुमानान्तरेण चेत् ; अनवस्था। प्रथमानुमानेन चेद्; अन्योन्याश्रयः / अतोऽनुमानमिच्छता भवता व्याप्तिग्राही तर्कः प्रमाणान्तरं प्रतिपत्तव्यः, प्रत्यक्षानुमानाभ्यां तद्हणानुपपत्तेः इति / ____एतदेवाह-'नहि' इत्यादि / तत् साध्यम् आत्मा यस्य तस्य भावः तादात्म्यम् , _ तस्मात् साध्याद् आत्मलाभः तदुत्पत्तिः, पुनरनयोः इतरेतरयोगविवृतिव्याख - लक्षणो द्वन्द्वः / ननु स्वन्तत्वात् तदुत्पत्तिशब्दस्य पूर्वनिपातः प्राप्नोति; तन्न; अस्य लक्षणेस्य लक्षणहेत्वोः क्रियायाः" [ जैनेन्द्रव्या० 2 / 2 / 104 ] इत्यनेन अनैकान्तिकत्वात् / ते तादात्म्यतदुत्पत्ती नहि नैव ज्ञातुं शक्यते। कथमित्याह-'विना' 10 इत्यादि / साध्याभावप्रकारेण अन्यथा या अनुपपत्तिः अघटना साधनस्य तस्याः सम्बन्धी ग्राहकत्वेन तर्कः तेन विना। तदेवं वृक्षत्वशिंशपात्वादौ तादात्म्यादेः सद्भावेऽपि अविनाभावबलेनैव शिंशपात्वादेरेव वृक्षादिकं प्रति गमकत्वम् न वृक्षवादेः शिंशपादिकं प्रति इति प्रतिपाद्य, इदानीं तदभावेऽपि तद्बलेनैव गमकत्वं प्रतिपादयन्नाह-'ताभ्याम्' इत्यादि। ताभ्यां तादात्म्यतदुत्पत्तिभ्यां विनैव एकलक्षणस्य अविनाभावस्य सिद्धिः निष्पत्तिः 15 निर्णीतिर्वा / एतदेव समर्थयमानः प्राह-'नहि' इत्यादि। 'हिर्यस्मात् न वृक्षादिः आदिशब्देन रसादिपरिग्रहः। छायादेः अत्रापि आदिशब्देन रूपादिस्वीकारः, स्वभावः वृक्षादिछायाद्योः देशादिविभेदात् , कार्य वा सहभावात् इत्यभिप्रायः / / न च आस्वाद्यमानात् रसात् वृक्षाच्च सामग्री अनुमीयते ततो रूपस्य छायायाश्चा__ (1) अनुमीयतेऽनेनेति अनुमानं हेतुः / (2) नित्यमर्थक्रियाशून्यं क्रमयोगपद्यानुपलम्भात् इत्यत्र। (3) व्याप्तिग्रहणानुपपत्तेः / (4) 'सु' इति संज्ञा जैनेन्द्रव्याकरणे पाणिनिव्याकरणस्य 'घि' संज्ञायाः स्थाने प्रयुज्यते। "द्वन्द्वे सुः / " 1 / 3 / 97 / द्वन्द्वे से स्वन्तं पूर्वं प्रयोक्तव्यम् ।"-जैनेन्द्रव्या। (5) 'द्वन्द्वे सुः' इति व्याकरणसूत्रस्य / (6) अत्र हि हेतुशब्दः स्वन्तस्तथापि नास्य पूर्वनिपातः / (7) तादात्म्यतदुत्पत्त्यभावेऽपि / (8) अविनाभावबलेनैव / (9) वृक्षादि छायादेर्न स्वभावः देशादिभेदात्, न च कार्य सहभावात् -आ० टि०। (10) “एकसामध्यधीनस्य रूपादेः रसतो गतिः / हेतधनिमानेन धूमेन्धनविकारवत् / / या च रसतो मधुरादिकात् रूपादेः, आदिशब्दात् गन्धस्य स्पर्शस्य च एकसामग्र्याधीनस्य रसादिना सह एकसामग्र्यायत्तस्य गतिः, सा कथमित्याह हेतुधर्मानमानेन रसकारणस्य धर्मो रसादिसहचररूपजनकत्वं तदनुमानेन रसाद् रूपादिगतिः। न हि कार्यं रस: कारणमन्तरेण, कारणञ्चास्य रससहकारिरूपजनकं पुञ्जात् पुजोत्पत्तेः / अतस्तस्मिन्ननुमितेऽनुमितमेव रूपम् धमेन्धनविकारवत् / धूमाद् हेतुधर्मानुमानेन इन्धनविकारस्य अङ्गारादेवूमसहचरस्यैव वानुमानम् ।"-प्रमाणवा० मनोरथ० 3 / 8 / “तेनायमर्थो रसात् सकाशात् तद्धेतो रससमानकालभाविरूपजनकत्वन्निश्चीयते, एवं हि तस्य रससमानकालभाविरूपजनकत्वं निश्चीयते। यदि समानकालभाविनो रूपस्यापि निश्चयः स्यात तेनातीतैककालानामेकैव गतिः कार्यलिङ्गजा।"-प्रमाणवा० स्ववृ०टी०३८ हेतुबि०टी०पू०५४ A.| ____ 1-लक्षणमनुमानञ्च सि-ब०। 2 च्यन्तत्वात् श्र०, स्वल्पान्तरत्वात ब०। 3-मित्याद्याह ब०। 4 वृक्षादेः ब० / / हि य-ब०। 6 देशादिभे-श्र०, ब०। 7 सामाग्यानु-ब०, सामग्यानु-श्र०।