________________ 448 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० न च अगृहीतोऽसौ अनुमानाङ्गम् / तदानीं ग्रहणे तु हेतुप्रतिपत्तिसमय एक साध्यप्रतिपत्तेर्जातत्वात् किमनुमानेन ? तादात्म्यतदुत्पत्तिभ्याम् अविनाभावप्रतिनियमे च कथं कृत्तिकोदय-शकटोदययोः चन्द्रोदय-समुद्रवृद्ध्योश्च गम्यगमकभावस्तत्र तादात्म्यतदुत्पत्त्योरभावात् / यदप्युक्तम्-‘अविनाभावस्य प्रत्यक्षानुपलम्भपश्चकेन प्रतिपत्तेः' इत्यादि; तदप्यसाम्प्रतम् ; प्रत्यक्षस्य अविकल्पकतया अनुपलम्भस्यापि अर्थान्तरोपलम्भस्वभावस्य तर्थांभूततया शतशोऽपि प्रवृत्तस्य व्याप्तिग्रहणे सामर्थ्यासंभवात् / नहि निर्विकल्पकम् 'इदमस्मिन् सत्येव भवति अतोऽन्यथा न भवत्येव' इत्येतावतो व्यापारान कर्त समर्थ सन्निहितविषयबलोत्पत्तेरविचारकत्वाच इत्युक्तमनन्तरमेव / नापि तंत्प्रभवो 10 विकल्पः; तस्य भवती प्रामाण्यानभ्युपगमात् / "व्यावृत्त्योलिङ्गालिङ्गित्वं प्रतिबन्धस्तु वस्तुनोः / विकल्पैर्ग्रहणं तस्य को ब्रूयात् सौगतात् परः // " [ न्यायमं० पृ० 117] .. यदपि-स्वभावहेतोर्विपक्षे बाधकप्रमाणेन व्याप्तिः प्रतीयते' इत्यायुक्तम् ; तदप्यु (1) अविनाभावः / (2) अनुमानप्रयोगकाले तु कार्यकारणयोः अविनाभावग्रहणे स्वीक्रियमाणे / (3) तुलना-“एवं सर्वत्र देशकालाविनाभूतमितरस्य लिङ्गम्, शास्त्रे कार्यादिग्रहणं निदर्शनार्थ कतं नावधारणार्थम्। कस्मात् ? व्यतिरेकदर्शनात् / तद्यथा अध्वर्युरोंश्रावयन् व्यवहितस्य होत्लिङ्गम, चन्द्रोदयः समुद्रवृद्धेः कुमुदविकाशस्य च, शरदि जलप्रसादोऽगस्त्योदयस्थेति / एवमादि तत्सर्वमस्येदमिति वचनात् सिद्धम् ।”-प्रश० भा० पृ० 562 / न्यायमं० पृ० 117 / “न च तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धाभ्युपगमे रूपदर्शनात् स्पर्शानुमानम्, उदयादस्तमयप्रतिपत्तिः, कृत्तिकोदयाच्च रोहिण्यनुमानं न स्यात् तादात्म्यतदुत्पत्त्यभावात् / " -प्रश० व्यो० पृ० 571 / “अपि च रसादन्यद्रूपं रससमानकालमनुमिमतेऽनुमातारः, न चानयोरस्ति कार्यकारणभावस्तादात्म्यं वा / ..."अपि चाद्यतनस्य सवितुरुदयस्य ह्यस्तनेन सवितुरुदयेन चन्द्रोदयस्य च समानकालस्य समुद्रवृद्ध्या मध्यनक्षत्रदृष्टया चाष्टमास्तमयोदयस्य न कार्यकारणभावस्तादात्म्यं वा, अथ च दृष्टो गम्यगमकभावः / " -न्यायवा० ता० पृ० 161-163 / प्रक० प० पू०६७ / प्रश० क० पृ० 209 / तत्त्वार्थश्लो० पृ० 199 / सन्मति० टी० 50 593 / स्या० 2010 536 / (4) कृत्तिकोदयादिहेतौ। (5) 50 444 पं० 16 / (6) अविकल्पतया-आ० टि०। (7) साध्याभावे / (8) पृ०४२७ पं०२। (9) निर्विकल्पकजन्यो विकल्पः / (10) सौगतेन / (11) तुलना-"अपि च-व्यावृत्त्योलिङ्गलि. ङ्गित्वं प्रतिबन्धश्च वस्तुनोः / विकल्पैर्ग्रहणं तस्य कथं सङ्गच्छतामिदम् // " -न्यायमं० पृ० 117 / "यो हि तादात्म्यतदुत्पत्तिस्वभावः प्रतिबन्ध इष्यते स किं वस्तुधर्मो विकल्पारोपिताकारधर्मो वा ? तत्र नायमारोपितधर्मो भवितुमर्हति, वस्तु वस्तुना जन्यते वस्तु च वस्तुस्वभावं भवेत् तस्माद्वस्तुधर्मः प्रतिबन्धः / विकल्पैश्च वस्तु न स्पृश्यते तत्प्रतिबन्धश्च निश्चीयत इति चित्रम् / इदञ्च स्वभाषितम् वस्तुनोः प्रतिबन्धस्तादात्म्यादि गम्यगमकत्वञ्च विकल्पारोपितयोरपोहयोः / तदेवमन्यत्र प्रतिबन्धः अन्यत्र तद्ग्रहणोपायः अन्यत्र प्रतीतिः अन्यत्र प्रवृत्तिप्राप्ती इति सर्व कैतवम् / / " -ज्यायमं० पृ०३४ / (12) प्रतिबन्धस्य अविनाभावरूपस्य। (13) पृ० 445 पं० 11 / 1-पत्तेति-श्र०। 2-वृद्धयोर्वा ग-ब०।