________________ प्रमाणप्र० का० 12 ] अविनाभावविचारः 447 रूपे प्रतिपन्ने, अप्रतिपन्ने वा विपरीतसमारोप: स्यात् ? तत्र प्रतिपन्ने कोऽवसरो विपरीतसमारोपस्य ? न हि शिरःपाण्यादिविशेषोपलम्भे स्थाणुसमारोपः समाविशति / तत्स्वरूपेऽप्रतिपन्ने तु का कथा विपरीतसमारोपस्य ? किञ्च, वृक्षत्वग्रहणे सति सामान्यग्रहणाद् विशेषाग्रहणात् स्यात् कदाचिदशिंशपात्वसमारोपः, नतु शिंशपात्वग्रहणे सति अवृक्षत्वसमारोपः। शिशपात्वं हि यस्य प्रत्यक्षं / वृक्षत्वं न तस्याऽप्रत्यक्षम् / . किञ्च, साध्यसाधनयोरव्यतिरेके यथा शिंशपात्वेन वृक्षत्वमनुमीयते, तथा वृक्षत्वेनापि किन्न शिंशपात्वं तादात्म्याऽविशेषात् ? अथ शिंशपात्वमेव वृक्षत्वे प्रतिबद्धं न वृक्षत्वं शिशपात्वे; न तर्हि तादात्म्याद् गमकत्वम् , अपितु अविनाभावादेव / तन्न तादात्म्ये अविनाभावस्य नियतत्वम् / नापि तदुत्पत्तौ; वैह्रथुत्पन्नेष्वपि धूमधर्मेषु श्यामत्वादिषु अविनाभावस्याऽनुपलब्धेः / न च सामान्ययोः कार्यकारणभावः किन्तु विशेषयोः, ययोश्चाऽनयोर्महानसादौ कार्यकारणभावोऽवगत: न तयोर्गम्यगमकभावः, ययोस्तु पर्वतस्थयोः गम्यगमकभावः न तयोः कार्यकारणभावोऽवगतः / न चानवगते तस्मिन् तयोरविनाभावो ग्रहीतुं शक्यः। 10 (1) शिंशपात्वलक्षणे हेतुस्वरूपे प्रपिपन्ने हि तदभेदाद् वृक्षत्वमपि प्रतीतमेवेति विपरीतस्य वृक्षत्वेतरत्वस्य आरोपः कथं स्यात् ? (2) "तुलना-अपि च वृक्षस्य ग्रहणे सति सामान्यधर्मग्रहणाद्विशेषानध्यवसायात् कदाचिदर्शिशपासमारोपः स्यान्न तु शिंशपात्वग्रहणे सति अवृक्षत्वसमारोपो युक्तः / प्रमातुः शिंशपात्वं हि यस्य प्रत्यक्षगोचरः। परोक्षं तस्य वृक्षत्वमिति नातीव लौकिकम् // " -न्यायमं० पृ०११४ / (3) तुलना-“तथोभयोस्तादात्म्याविशेषेऽपि शिंशपात्वेन वृक्षस्य प्रतिपत्तिवत् वृक्षत्वेन शिंशपात्वप्रतिपत्तिरपि स्यात् ।"-प्रश० व्यो० पृ० 571 / “किञ्च साधसाधनयोरव्यतिरेकाद् यथा शिंशपात्वेन वृक्षत्वमनु मीयते तथा वृक्षत्वेनापि शिंशपात्वमनुमीयेत तादात्म्याविशेषात् / ततश्च सपक्षव्याप्त्यव्याप्तिभ्यां कृतकत्वप्रयत्नानन्तरीयकत्वयोर्यो भेद उक्त स हीयेत / ननु चान्यः सम्बन्धः अन्यश्च प्रतिबन्धः, द्विष्ठः सम्बन्धः, प्रतिबन्धस्तु परायत्तत्वलक्षणः / तत्र शिंशपात्वं वृक्षत्वे प्रतिबद्धं न वृक्षत्वं शिंशपात्वे, प्रयत्नानन्तरीयकत्वमपि अनित्यत्वे नियतं न त्वनित्यत्वं तत्रेति, तथा धूमस्याग्नौ प्रतिबन्धः न त्वग्नेधूमे; सत्यमेवम् ; किन्त्वेवमुच्यमाने नियम एवाङ्गीकृतो भवेन्न तादात्म्यम् / तादात्म्ये हि यथा शिशपा शिंशपां विना न दृश्यते तथा वृक्षत्वमपि शिंशपारहितं न दृश्येत, दृश्यते च खदिरादौ शिंशपारहितं वृक्षत्वम्, विद्युदादौ च प्रयत्नानन्तरीयकत्वरहितमनित्यत्वमुपलभ्यत इति कथमभेद: ? विना साधनधर्मेण साध्यधर्माऽयमस्ति हि। दृष्टस्तद्वयतिरेकेण तदात्मा चेति कैतवम् ॥"-न्यायमं० पृ० 114 / प्रक० 50 पृ० 67 / स्या० र० पृ० 535 / (4) तुलना-“कार्यहेतुरपि न संभवति, भवतां हि क्षणयोर्वा कार्यकारणभावो भवेत्, सन्तानयोर्वा ? यदि धूमः कार्यत्वादनलमनुमापयेत् कटुमलिनगगनगामित्वादिधर्मैरपि तस्य गमको भवेत् / न च कथञ्चित्तत्कार्यत्वं कथञ्चिदतत्कार्यत्वञ्च धूमस्योपपन्नम्; सर्वात्मकस्य तदन्वयव्यतिरेकानुविधायिप्रभवत्वात् ।”-न्यायमं० पृ० 116 / स्या० र० पृ० 535 / (5) कार्यकारणभूतयोः धूमाग्न्योः / (6) कार्यकारणभावे। (7) पर्वतस्थधूमाग्न्योः / 1 प्रत्यक्ष कथं वृक्षत्वं तस्याप्रत्यक्षत्वम् श्र०, ब०12-क्षत्वेन प्रति-श्र०।-पात्वेन न तहि श्र०।