________________ 446 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० अनुपलब्धिः पुनः सर्वा स्वभावानुपलब्धौ अन्तर्भवति / स्वभावानुपलब्धिश्च स्वभावहेतुः, तस्य च तादात्म्यमेव प्रतिबन्धः / अतोऽस्या न पृथक् प्रतिबन्धचिन्ता इति। अत्र प्रतिविधीयते / यत्तावदुक्तम्-‘अविनाभावस्तादात्म्यतदुत्पत्तिभ्यां नियतः' .. इत्यादि; तदसमीक्षिताभिधानम् ; नैहि तादात्म्यम् अविनाभावनिय। तत्प्रतिविधानपुरस्सरं तादात्म्यतदुत्पत्त्यभा मनिमित्तम् ; तस्मिन् सति भेदाभावेन सम्बन्धाभावे अविनाभावानुपवेऽपि अविनाभाव- पत्तेः, भेदाधिष्ठानत्वात् सम्बन्धस्य / न चानंशार्थवादिनः तादात्म्यसम्भावनातः कृत्ति- भेदौ मनागपि उपपद्य (घ) ते / तादात्म्यं हि तत्स्वभावता, तेन साध्येन कोदयादिहतूनां गम- साधनस्यैक्यम् , न चैक्ये भेदः संभवति, भेदे वा नैक्यम् , अतः करवा कथं तदात्मतया शिंशपा वृक्षं गमयेत् ? तादात्म्येन च गमकत्वे 10 हेतुग्रहणवेलायामेव तदव्यतिरेकितया साध्यस्य प्रतिपन्नत्वात् नानुमानस्य साफल्यम् / न ह्यगृहीतं लिङ्गं लिङ्गिविषयां धियमाधत्ते / गृहीतौ च यदि लिङ्गप्रतीतौ न लिङ्गी प्रतिभासेत् तदा कथं तयोस्तादात्म्यम् ? प्रतिभांसे तु सिद्धमनुमानस्य वफल्यम् , प्रेति- . . ज्ञार्थैकदेशता च हेतोः। विपरीतसमारोपव्यवच्छेदार्थत्वात्तस्य साफल्यश्चेत् ; ननु तत्स्व (1) पृ० 444 पं० 10 / (2) तुलना-“तथा वृक्षत्वशिशपात्वयोर्न * तादात्म्यप्रतिबन्धः साध्यसाधनभावानुपपत्तिप्रसंगात्। तथाहि-धर्मिण्युपलब्धे तत्तादात्म्यादुभयोरप्युपलम्भे कथं साध्यसाधनभावः ।"-प्रश० व्यो० पृ० 571 / "अपि च तादात्म्ये कथं गम्यगमकभावः, न हि तदेव कर्म कर्त चेति युक्तम्, तस्य भेदाश्रयत्वात् ।"-न्यायवा० ता० पृ० 163 / “न च तादात्म्ये गम्यगमकता घटते एकस्य सकृज्ज्ञातत्वाज्ञातत्वायोगात्।"-बृह० पं० पृ० 95 / “तादात्म्ये च यदनुमानं तदपि न साधीयः, सिद्धं हि लिङ्गं साध्यं लैङ्गिकम्, न सिद्धस्य साध्यस्य च तादात्म्यमुपपद्यते / " -प्रक० पं० पृ० 67 / "न च तादात्म्ये गम्यगमकभावव्यवस्था युक्ता, तस्या भेदाश्रयत्वात्। यदि शिंशपात्वे गृह्यमाणे वृक्षमगृहीतं क्व तादात्म्यम् ? गृहीतं चेत् क्वानुमानम् ?"-प्रश० कन्द० पृ० 207 / “अपि च यदि तादात्म्यं गमकत्वांगमिष्यते तदा साध्यसाधनयोर्भेदाभावेन सम्बन्धाभावादविनाभावानुपपत्तिः" -स्या० 2010 533 / (3) सौगतस्य / (4) तुलना-"तादात्म्ये तावद् गमकत्वाने हेतुसाध्ययोरव्यतिरेके गम्यगमकभाव एव दुरुपपादः / न खल्वगृहीतं लिङ्गं लिङ्गिप्रतीतिमाधातुमर्हति / तत्र लिङ्गबुद्धौ लिङ्गं (लिङ्गी ) प्रतिभासते न वा ? अप्रतिभासे तबुद्ध्या तदग्रहणात् कथं तस्य तदात्मकत्वम् / प्रतिभासे तू लिङ्गवत् प्रत्यक्ष एव सोऽर्थः इति किमनुमानेन ? "-ज्यायमं० 10 113 / “तादाम्येन च गमकत्वे हेतूप्रतिपत्तिवेलायामेव साध्यस्यापि प्रतिपन्नत्वान्नानुमानस्य साफल्यम् ।"-स्या० 2010 353 / (5) हेतूतादात्म्येन अभिन्नत्वात् / (6) गृहीतिशब्दस्य सप्तम्येकवचनम् / लिङ्गग्रहणे सत्यपि, चशब्दस्य अप्यर्थकत्वात् / (7) लिङ्गलिङ्गिनोः / (8) लिङ्गप्रतीतौ साध्यस्य प्रतिभासे। (9) साध्यसाधनयोः वृक्षत्वशिंशपात्वयोः तादात्म्ये हि प्रतिज्ञैकदेशभूतं यत् वृक्षत्वं साध्यं तत्तादात्म्यापन्नं शिशपात्वमेव च हेतुः इति साध्यस्य असिद्धत्वात् हेतोरप्यसिद्धत्वमिति भावः / (10) तुलना-“विपरीतसमारोपव्यवच्छेदादार्थमनुमानमिति चेत्न; तत्स्वरूपग्रहणे विपरीतारोपणावसराभावात् / न हि शिरःपाण्यादिविशेषदर्शने सति स्थाणुसमारोपः प्रवर्तते, तत्र तद्भेदादुपपद्येतापि, न हि शिरःपाण्यादय एव पुरुष इति, तद्ग्रहणेऽप्यपुरुषारोप: कामं भवेत्, इह वृक्षत्वशिंशपात्वयोरभेदात् शिंशपात्वग्रहणे सति का कथा वृक्षतरसमारोपस्य ।"-न्यायमं० 10 113 / स्या० र० पृ० 535 / (11) शिशपात्वसत्त्वादेर्हेतोः -आ० टि०। (12) हेतुस्वरूपे /