________________ प्रमाणप्र० का० 12 ] अविनाभावविचारः 10 नुपलम्भपञ्चकेन प्रतिपत्तेः / तथाहि-अग्निधूमव्यतिरिक्तेषु उपलभ्यमानेष्वपि भूतलाद्यर्थेषु प्रथमम् अग्निधूमयोरनुपलम्भः एकः, अनन्तरम् अग्नेरुपलम्भः ततो धूमस्य इत्युपलम्भद्वयम् , पश्चादग्नेरनुपलम्भोऽनन्तरं धूमस्याप्यनुपलम्भः इति द्वावनुपलम्भौ, इति प्रत्यक्षानुपलम्भपञ्चकेन एकस्यामपि व्यक्तौ कार्यकारणभावावगमो भवति अग्नेः कार्य धूमः / यश्च यत्कार्यः स तेन नियतः। यदि तेन नियतो न स्यात् तर्हि / निरपेक्षत्वात् नित्यं सत्त्वमसत्त्वं वा स्यात् / यश्च नियतः स नियामकवान् , तदभावे स्वातन्त्र्यात् नित्यं सत्त्वासक्त्वयोः पुनः प्रसङ्गः स्यात् / ततश्चायमर्थः सम्पन्नः-यो यस्मादुत्पद्यमानः सकृदप्युपलब्धः स तस्मादेवं नान्यस्मात् , अहेतोस्तदुत्पत्तौ सर्वस्मात् सर्वस्योत्पत्तिः, इति प्रत्यक्षानुपलम्भपञ्चकेन स्वभावहेतुद्वयेन च कार्यहेतोः सार्वत्रिकी व्याप्तिः प्रतीयते। ___ स्वभावहेतोस्तु विपक्षे बाधकप्रमाणेन, यथा सत्त्वस्य क्षणिकत्वेन / तथाहिअर्थक्रियाकारित्वलक्षणं सत्त्वम्, अर्थक्रिया च क्रमयोगपद्याभ्यां व्याप्ता, ते चाऽक्षणिकान्निवर्त्तमाने स्वव्याप्यामर्थक्रियामादाय निवर्त्तते, सौ च सत्त्वम् / कस्मात् पुनः अक्षणिकात् क्रमयोगपद्ययोर्ध्यावृत्तिरिति चेत् ? नानारूपत्वात् / कौलतः पौर्वापर्य हि क्रमः तद्विपरीतं यौगपद्यम् , इत्थश्च ते नानारूपे, अक्षणिकत्वञ्च एकरूपता, एकरूपता- 15 नानारूपते च एकाश्रिते विरुद्धे, अत: अक्षणिकान्निवर्तमान सत्त्वं क्षणिक एव अवतिष्ठते प्रकारान्तरासंभवात् / नहि क्षणिकाऽक्षणिकव्यतिरिक्तस्तृतीयः प्रकारोऽस्ति यतस्तत्र अस्य वृत्तिराशयेत / प्तिग्रह इत्येषां सिद्धान्तः / तदुक्तम्-"धूमाधीर्वह्निविज्ञानं धूमज्ञानमधीस्तस्योः / प्रत्यक्षानुपलम्भाभ्यामिति पञ्चभिरन्वयः ॥"-जैमतकंभा० पृ० 11 / “प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः / " -हेतुबि०पृ० 53 B. / (1) उपलम्भ इति शेषः। (2) धूमोऽग्निनियतः तत्कार्यत्वात् इति। (3) अग्निना। (4) "नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् / अपेक्षातो हि भावानां कादाचित्कत्वसंभवः ॥"-प्रमाणवा० 236 / (5) धूमोऽग्निनियामकः अग्निकार्यत्वेन तन्नियतत्वात् / (6) उत्पद्यते इति शेषः / (7) आसन्नोक्त-नियतत्वनियामकत्वरूपेण-आ० टि० / पूर्वोक्तं नियतत्वनियामकत्वलक्षणं हेतुद्वयम् / (6) "सन् शब्दः कृतको वा, यश्चैवं य सर्वोऽनित्यः यथा घटादिरिति। अत्र व्याप्तिसाधनं विपर्यये बाधकप्रमाणोपदर्शनम् / यदि न सर्वं सत् कृतकं वा प्रतिक्षणविनाशि स्यादक्षणिकस्य क्रमयोगपद्याभ्यामर्थक्रियाऽयोगादर्थक्रियासामर्थ्यलक्षणमतो निवृत्तमित्यसदेव स्यात् / सर्वसामोपाख्याविरहलक्षणं हि निरुपाख्यमिति ।"-वादन्याय पृ० 7 // तत्त्वसं० पृ० 143 / हेतुवि० टी० पृ० 143 A. I क्षणभंगसि० पृ० 20 / न्यायकु० पृ०८ टि०१। (9) क्रमयोगपद्ये / (10) अर्थक्रिया। (11) "क्रमो नाम परिपाटि: कार्यान्तरासाहित्यं कैवल्यमङकुरादेः / यौगपद्यमपि तस्यापरैर्बीजादिकायँ: साहित्यं प्रकारान्तरञ्चाङकुरादेः, तदुभयावस्थाविरहेऽप्यन्यथाभवनम् ..."-हेतुबि० टी० पृ० 143 B. / (12) ' तृतीये क्षणिकाक्षणिकबहिर्भूते प्रकारान्तरे। (13) सत्त्वस्य / 1-पलम्भाऽनन्त-आ०, श्र०12-योगपद्यव्या-ब०।-कता चैक-ब०। 4 'एकरूपता नास्ति आ०, श्र०।