________________ प्रमाणप्र० का० 12 ] पाश्चरूप्यनिरास: द्वितीयविकल्पोप्यनुपपन्नः; प्रागनुमानप्रवृत्तेः संवादस्याऽसिद्धत्वात् / तदुत्तरकालं तेत्सिद्धयभ्युपगमे त्वन्योन्याश्रयः; तथाहि-अनुमानात् प्रवृत्तौ संवादसिद्धिः; ततश्च अबाधितविषयत्वसिद्धेरनुमानप्रवृत्तिरिति / अथान्यत् किश्चित् ; तत् किं तद्विषयं प्रमाणान्तरम् , अविनाभावावगमो वा ? तत्र पँमाणान्तरात् कुतश्चिदबाधितविषयत्वावगमे हेतोरकिश्चित्करत्वं साध्यस्यापि अंत एवावगमात् / न ह्यसति साध्यसद्भावा- 5 वगमे तद्वाधाविरहो निश्चेतुं शक्यः / अथाविनाभावावगमात् तद॑वगमः; तन्न; पञ्चरूपयोगिनि हेतावविनाभावपरिसमाप्तिवादिनाम् अबाधितविषयत्वस्याऽनवगमे अविनाभावाऽवगमस्यैवाऽसंभवात् / ततोऽबाधितविषयत्वस्याऽसिद्धेः न तद्धतोर्लक्षणं युक्तम् / ___नाप्यसत्प्रतिपक्षत्वम् ; यतः प्रतिपक्षः तुल्यबलः, अतुल्यबलो वा सत्त्वेन प्रतिषिध्येत ? तुल्यबलत्वे बाध्यबाधकभावानुपपत्तिः। ययोस्तुल्यबलत्वं न तयोर्बाध्यबा- 10 धकभावः यथा राज्ञोः, तुल्यबलत्वञ्च पक्षप्रतिपक्षयोरिति / अतुल्यबलत्वं तु अनयोः किंकृतम्-पक्षधर्मत्वादिभावाभावकृतम् , अनुमानबाधाजनितं वा ? न तावत् प्रथमपक्षो युक्तः; पक्षधर्मत्वादेरुभयोरप्यविशेषात् / नहि मूर्खत्वे साध्ये तत्पुत्रत्वादेः पक्षधर्मत्वादिकं न संभवति, शास्त्रव्याख्यानलिङ्गस्यैव वा संभवति / द्वितीयपक्षोऽप्यसंभाव्यः; अनुमानबाधाया अद्याप्यसिद्धेः / नहि द्वयोः पक्षधर्मत्वाद्यविशेष एकस्य बाध्यत्वम् 15 अपरस्य च बाधकत्वं युक्तम् , अविशेषेणैव तत्प्रसङ्गात् / अन्योन्याश्रयश्च; सिद्धते ..."-न्यायवि० का०४०६ / तत्त्वार्थश्लो० 10 13 / सन्मति० टो०१०१८ / आत्मतत्त्ववि० * पृ० 94 / तर्कभा० मो० लि. पृ०२२ / न्यायली० पृ० 22 / सर्वसम्बन्धिनोऽनुपलम्भस्य सर्वज्ञत्वमन्तरेण ज्ञातुमशक्यत्वादसिद्धत्वम् , आत्मसम्बन्धिनोऽपलम्भस्तु परचेतोवृत्तिविशेषादिना व्यभिचारी। (1) अनुमानप्रवृत्त्यनन्तरम् / (2) संवादसिद्धिस्वीकारे। (3) अर्थक्रियायां सत्याम् अर्थक्रियास्थितिलक्षण: संवादः सिद्धयति / (4) तुलना-"तद्वाधाभावनिर्णीतिः सिद्धा चेत्साधनेन किम / यथैव हेतोविषयस्य बाधासद्भावनिश्चये ॥"-तत्त्वार्थश्लो० पृ० 205 / “तदाप्यकिञ्चित्करत्वं हेतोः; यथैव हि हेतोविषयस्य बाधासद्भावनिश्चये तत्साधनासमर्थत्वादकिञ्चत्करत्वं तथैव बाधाविरहनिश्चये कूतश्चित्तस्य सद्भावसिद्धेस्तत्साधनाय प्रवर्तमानस्य सिद्धसाधनादपि इति ।"-स्या०र०प० 526 / (5) प्रमाणान्तरादेव / (6) अबाधितविषयत्वावगमः-आ० टि०। (7) यौगानाम्-आ० टि० / "एतेषु पञ्चसु लक्षणेष्वविनाभावः समाप्यते"-न्यायकलि० पृ०२। (8) तुलना-"यतः प्रतिपक्षस्तल्यबलोऽतल्यबलो वा सन् स्यात् ।”-प्रमेयक० पृ० 359 / स्या० 2010 527 / "अत आह तुल्ये लक्षणे हि इत्यादि / शङ्कचमानप्रतिहेतुना तुल्यं लक्षणं दर्शनादर्शनमात्रनिमित्ताविनाभावरूपं यस्य तस्मिन, दृष्ट: प्रतियोगिनः प्रतिहेतोधिकस्य संभवः स येषामपि तत्तुल्यलक्षणानां प्रतियोगी न दश्यते * तेष्वपि शंकां प्रतिहेतुसम्भवविषयामुत्पादयति / किं कारणम् ? अदृष्टप्रतियोगिनो दृष्टप्रतियोगिनो विशेषाभावात्। न हि तस्येतरेण कश्चिद्विशेषोऽस्ति यतस्तत्संभवो न शंक्येत / अथ विशेषः प्रतिबन्धलक्षणोऽविनाभावनिश्चायको दृष्टप्रतिहेतोरदृष्टप्रतियोगिन इष्यते, यतः प्रतियोगिसंभवाशंकास्तमपैति तदा सति वा विशेषे स विशेषो हेतोर्लक्षणम्।"-हेतु बि० टी० पृ० 204 A. / (9) अमूर्योऽयं शास्त्रव्याख्यानादित्यस्यापि संभवात्-आ० टि०। (10) बाध्यत्वस्य बाधकत्वस्य वा। 1 विनिश्चेतुब० // 2-त्वानवगमे ब० // 3 पक्षयोरिति ब० /