________________ 442 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० नापि यौगोपकल्पितं पश्चरूपत्वम् ; पक्षधर्मत्वादिरूपत्रयस्य प्रागेव प्रत्याख्यातत्वात् , ' परिकल्पितस्य साध्याऽविनाभावव्यतिरेकेणाऽपरस्य अबाधितविषयत्वादेरप्यसंभवात् , पाश्वरूप्यस्य प्रतिवि- अतस्तदेवं प्रधानं हेतोर्लक्षणमस्तु किं पञ्चरूपकल्पनया ? नहि धानम्- 'अनुष्णोऽग्निर्द्रव्यत्वात् जलवत्' इत्यादावपि अविनाभावाभावादन्यद् 5 बाधितविषयत्वं नाम प्रतीयते; बाधितविषयत्व-अविनाभावयोः विरोधात् / साध्यसद्भाव एव हेतोः धर्मिणि सद्भावः अविनाभावः, तदभावे एव च तंत्र तत्संभवो विषयबाधेति / __ किञ्च, अबाधितविषयत्वं निश्चितम् , अनिश्चितं वा हेतोर्लक्षणं स्यात् ? न... तावदनिश्चितम् ; अतिप्रसङ्गात् , अज्ञायमानस्य ज्ञापकहेत्वनङ्गत्वाच्च / नापि निश्चितम् ; तैनिश्चयनिबन्धनाऽसंभवात् / तन्निबन्धनं हि अनुपलम्भः, संवादः, अन्यद्वा किश्चित् ? 10 तत्राद्यविकल्पोऽयुक्तः; सर्वात्मसम्बन्धिनोऽनुपलम्भस्य असिद्धाऽनैकान्तिकत्वात् / (1) "तत्र परोक्षोऽर्थो लिङ्गयते गम्यतेऽनेनेति लिङ्गम् , तच्च पञ्चलक्षणम् / कानि पुनः पञ्चलक्षणानि? पक्षधर्मत्वं सपक्षधर्मत्वं विपक्षाद्वयावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वञ्चेति / सिसाधयिषितधर्मविशिष्टो धर्मी पक्षः, तद्धर्मत्वं तदाश्रितत्वमित्यर्थः। साध्यधर्मयोगेन निातं धर्म्यन्तरं सपक्षः तत्रास्तित्वम्। साध्यधर्मसंस्पर्शशून्यो धर्मी विपक्षः ततो व्यावृत्तिः / अनुमेयस्यार्थस्य प्रत्यक्षेणागमेन वाऽनपहरणमबाधितविषयत्वम् / संशयबीजभूतेनार्थेन प्रत्यनुमानतया प्रयुज्यमानेनानुपहतत्वमसत्प्रतिपक्षत्वम् / एतैः पञ्चभिर्लक्षणैरुपपन्नं लिङ्गमनुमापकं भवति ।"-न्यायमं० पृ० 170 / न्यायकलि० पृ०२ / न्यायसा० पृ०६ / “पञ्चसु वा चतुर्पु वा रूपेषु हेतोरविनाभावः परिसमाप्यते तस्मादबाधितत्वासत्प्रतिपक्षितत्वरूपद्वयसंसूचनाय निगमनमिति...."-न्यायवा० ता० पृ० 302 / “अतश्चानयोः (कालात्ययापदिष्टप्रकरणसमयोः) व्यवच्छदार्थमबाधितविषयत्वमसत्प्रतिपक्षत्वं च समानतन्त्रगतमभ्यू ह्यम् चशब्दस्यानुक्तसमु-: च्चयार्थत्वात्।” -प्रश० व्यो० पृ० 565 / (2) तुलना-" साघ्याविनाभावित्वब्यतिरेकेणापरस्य अबाधितविषयत्वादेरसंभवात्"-प्रमेयक० पृ० 357 / (3) अविनाभावित्वमेव / (4) तुलना-" अन्यथानुपपन्नत्वं रूपैः किं पञ्चभिः कृतम् / नान्यथानुपपन्नत्वं रूपैः किं पञ्चभिः कृतम् ॥"-प्रमाणप० पू० 72 / स्या० र० पृ० 527 / (5) तुलना-"बाधाया अविनाभावस्य च विरोधादति / तथाहि-सत्यप्यविनाभावे यथोक्ते बाधासम्भवं मन्यमानैरबाधितविषयत्वं रूपान्तरमच्यते, सा चेयं तत्सम्भावना न संभवति बाधाया अविनाभावेन विरोधात् सहानवस्थानलक्षणात् / तमेव विरोधं साधयन्नाह-अविनाभावो हि इत्यादि / सत्येव हि साध्यधर्मे भावो हेतोरविनाभाव उच्यते, प्रमाणबाधा तु तस्मिन्नसति / यदि हि सत्येव तस्मिंस्तदभावविषयं प्रमाणं प्रवर्तेत तदास्य भान्तत्वादप्रमाणतैव स्यादिति कुतो बाधा ? ततः स हेतुस्तल्लक्षणः साध्याविनाभावी मिणि स्यात् अत्रच साध्यधर्म: कथन्न भवेत् यतो बाधावकाशः स्यात् / तस्मादविनाभावस्य प्रमाणबाधायाश्च सहानवस्थानम्, अविनाभावेनोपस्थापितस्य च तदभावस्य परस्परपरिहारस्थितिलक्षणतया विरोधेन एकत्र धर्मिण्यसंभवादिति ।"-हेतुबि० टी० पृ० 195 B. / वादन्यायटी० पृ० 138 / न्यायमं० पृ० 448 / प्रमेयक० पृ. 357 / प्रमाणमी० प०४१। (6) साध्याभाव एव / (7) मिणि विपक्षे। (8) हेतसम्भवः / (9) तुलना"किञ्चाबाधितविषयत्वं निश्चितमनिश्चितं वा हेतोर्लक्षणं स्यात् ?"-प्रमेयक० पृ० 358 / (10) अबाधितविषयत्वनिश्चय। (11) तुलना-"तन्निबन्धनं ह्यनुपलम्भः, संवादो वा स्यात् / " -प्रमेयक० पृ० 358 / (12) तुलना-“सर्वादृष्टिश्च सन्दिग्धा स्वादृष्टिर्व्यभिचारिणी / विन्ध्याद्रिरन्धर्वादेरदृष्टावापि सत्त्वतः ॥"-तत्त्वसं० पृ० 65 / "."स्वसर्वानुपलम्भयोः / आरेका 1-वावपिविनाभावादन्यद् आ०, -दावविनाभावाभावादन्यद् श्र० /