________________ प्रमाणप्र० का 12 ] त्रैरूप्यनिरास: 441 इत्यादेः सपक्षे सत्त्वाभावेऽपि गमकत्वप्रतीतेः। विपक्षे बाधकप्रमाणबलात् अन्ताप्तिसिद्धेरस्य गमकत्वे बहिर्व्याप्तिकल्पनाऽनर्थक्यम् , अत एव सर्वत्र गमकत्वोपपत्तेः / तन्न पक्षधर्मत्वं सपक्षे सत्त्वं वा हेतोर्लक्षणम् / . विर्पक्षे पुनरसत्त्वमेव निश्चितं साध्याऽविनाभावनियमनिश्चयस्वरूपमेव, अतस्तदेव प्रधानं हेतोः लेक्षणमस्तु अलं लक्षणान्तरेण / न च संपक्षे सत्त्वाभावे हेतोरनन्व- 5 यत्वानुषङ्गः; अन्तर्व्याप्तिलक्षणस्य तथोपपत्तिरूपस्य अन्वयस्य सद्भावात् अन्यथानुपपत्तिरूपव्यतिरेकैवत् / नहि 'दृष्टान्तधर्मिण्येव अन्वयो व्यतिरेकश्च प्रतिपत्तव्य इति नियमो युक्तः; सर्वस्य क्षणिकत्वादिसाधने सत्त्वादेरहेतुत्वप्रसङ्गात् / नहि निरन्वयं क्षणिकत्वं क्वचिदपि प्रसिद्धम् , शब्द-विद्युत्-प्रदीपादावपि विप्रतिपत्तेः / यदप्युक्तम्- 'पक्षधर्मत्वादिरूपत्रयासंभवे हेतोरसिद्धत्वादिदोषानुषङ्गः' इत्यादि; 10 तदप्यसमीक्षिताभिधानम् ; अन्यथानुपपत्तिनिश्चयलक्षणत्वादेव अस्य असिद्धत्वादिदोषपरिहारसिद्धेः / स्वयमसिद्धस्य अन्यथानुपपत्तिनियमनिश्चयासंभवो विरुद्धाऽनैकान्तिकवत् / तथापि अविनाभावप्रपञ्चत्वात् पक्षधर्मत्वादेः असिद्धादि (द्धत्वादि) व्यवच्छेदार्थमभिधाने निश्चितत्वस्यापि रूपान्तरस्य अज्ञातासिद्धताव्यवच्छेदार्थम् , अबाधितविषयत्वादेश्च बाधितविषयत्वादिव्यवच्छित्तये अभिधानप्रसङ्गः / तन्न सौगतपरिकल्पितं पक्षधर्मत्वादिरूपत्रयं 15 हेतोर्लक्षणं युक्तम् / सिद्धिः क्षणक्षये ॥"-तत्त्वार्थश्लो०पू० 201-202 / "सपक्षे सत्त्वरहितस्य च श्रावणत्वादेः शब्दा• नित्यत्वे साध्ये गमकत्वप्रतीतेः।" -प्रमेयक० 10 355 / स्या०र० 10519 / (1) “पक्षीकृत एव साधनस्य साध्येन व्याप्तिरन्ताप्तिः, अन्यत्र तु बहिर्व्याप्तिः। यथा अनेकान्तात्मकं वस्तु सत्त्वस्य तथैवोपपत्तेः, अग्निमानयं देशो धूमवत्त्वात्, य एवं स एवं यथा पाकस्थानम् ।”-प्रमाणनय० 336 / (2) सत्त्वस्य श्रावणत्वस्य वा। (3) अन्तर्व्याप्तेरेव / (4) तुलना"साध्याभावे विपक्षे तु योऽसत्त्वस्यैव निश्चयः / सोऽविनाभाव एवास्तु हेतो रूपात्तथाह च॥"-तत्त्वार्थश्लो० पृ० 203 / प्रमेयक० पृ० 356 / स्या० र० पृ० 521 // (5) विपक्षासत्त्वमेव / (6) तुलना"अन्तर्व्याप्तिलक्षणस्य तथोपपत्तिरूपस्यान्वयस्य सद्भावादन्यथानुपपत्तिरूपव्यतिरेकवत्।"-प्रमेयक०० 356 / स्या० र० पृ० 520 / (7) तथा साध्ये सत्येव उपपत्तिः साधनस्य / (8) अन्यथा साध्याभावे अनुपपत्तिः अभावः सांधनस्य / (9) शब्दादीनामपि द्रव्यार्थतया नित्यत्वाभ्युपगमात् / (10) पृ० 438 पं० 12 / (11) तुलना-"हेतोरन्यथानुपपत्तिनियमनिश्चयादेव दोषत्रयपरिहारसिद्धेः, स्वयमसिद्धस्य अन्यथानुपपत्तिनियमनिश्चयासंभवात् अनैकान्तिकविपरीतार्थवत् / तस्य तथोपपत्तिनियमनिश्चयरूपत्वात् / तस्य च असिद्ध व्यभिचारिणि विरुद्धे च हेतावसंभावनीयत्वात्।"-प्रमाणप० पृ० 72 // तत्त्वार्थश्लो० पृ० 203 / प्रमेयक० पृ० 354 / स्या०र० पृ० 521 / प्रमेयर० 3 / 15 / प्रमाणमी० पृ०४०। (12) हेतो:-आ० टि.. (13) असिद्धादीनाम् अविनाभावशून्यत्वे सत्यपि / तुलना-"रूपत्रयस्य सद्भावात्तत्र तद्वचनं यदि / निश्चितत्वस्वरूपस्य चतुर्थस्य वचो न किम् // त्रिषु रूपेषु चेद्रूपं निश्चितत्वं न साधने / नाज्ञातासिद्धता हेतो रूपं स्यात्तद्विपर्ययः // " -तत्त्वार्थश्लो० पृ० 203 / प्रमाणप० पृ०७२ / स्या० र० पृ० 521 // (14) अज्ञातः सन्नसिद्धः तद्भावस्तत्ता-आ० टि०। ___ 1 लक्षणमलं ब० / 2 सपक्षसत्त्वा-ब०। 3-कत्ववत् श्र०। 4-हारप्रसि-श्र०, ब०।