________________ 440 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० तथाविधं तत्पुत्रत्वादौ तदाभासेऽपि गतत्वात् पश्चरूपत्वादिवत् / अथ अन्यथानुपत्तिनियमवत्त्रैरूप्यं तल्लक्षणं न त्रैरूप्यमात्रम् , तथाविधश्च तत् तदाभासे नास्तीति; तदप्यसङ्गतम् ; एवं सति त्रैरूप्यकल्पनाऽनर्थक्यप्रसङ्गात् तन्नियमादेवास्य गमकत्वोपपत्तेः / न खलु केतिकोदयात् शकटोदयाद्यनुमाने पक्षधर्मता संभवति / अथ 'काला5 काशादिः भविष्यच्छकटोदयादिमान कृतिकोदयादिमत्त्वात् पूर्वोपलब्धकालादिवत्' इती त्थमंत्र पक्षधर्मताऽभिधीयते; तर्हि न कश्चिदपक्षधर्मको हेतुः स्यात् , काककाादेरपि प्रासादधावल्ये साध्ये जगतो धर्मित्वेन पक्षधर्मत्वस्य कल्पयितुं सुशकत्वात् ; तथाहिजगत् प्रासादधावल्ययोगि काककायॆयोगित्वात् / तथा महोदध्याधाराऽग्नियोगि तत् . महानसधूमयोगित्वात् पूर्वोपलब्धजगत्वदिति / लोकविरोधः अन्यत्राप्यविशिष्टः / तन्न 10 पक्षधर्मत्वं हेतोर्गमकत्वाङ्गम् / नापि सपक्षे सत्वम् ; 'अनित्यः शब्दः श्रावणत्वात् , सर्व क्षणिक सत्त्वात्' (1) विपक्षासाधारणम् / (2) तुलना-"न च सपक्षे सत्त्वं पक्षधर्मत्वं विपक्षे चासत्त्वमात्रं. साधनलक्षणम्, स श्यामः तत्पुत्रत्वात् इतरतत्पुत्रवदित्यत्र साधनाभासे तत्सद्भावसिद्धेः / सपक्षे हीतरत्र तत्पुत्रे तत्पुत्रत्वस्य साधनस्य श्यामत्वव्याप्तस्य सत्त्वं प्रसिद्धम्, विवादाध्यासिते च तत्पुत्रे पक्षीकृते तत्पुत्रत्वस्य सद्भावात् पक्षधर्मत्वम्, विपक्षे वाऽश्यामे क्वचिदन्यपुत्रे तत्पुत्रत्वस्याभावात् विपक्षेऽसत्त्वमात्रं च / न च तावता साध्यसाधनत्वं साधनस्य ।"-प्रमाणप० पृ०७० / सन्मति० टी० पृ० 590 / स्या० र० पृ० 518 / प्रमेयर० 3.15 / प्रमाणमी० पृ० 40 / न्यायदी० पृ० 26 / (3) अवि. नाभावनियमवत्त्ररूप्यम् / (4) अन्यथानुपपत्तिनियमादेव। (5) तुलना-"न हि शकटे धर्मिणि . उदेष्यत्तायां साध्यायां कृतिकाया उदयोऽस्ति तस्य कृतिकाधर्मत्वात् ततो न पक्षधर्मत्वम् ।"प्रमाणप० पृ०७१। प्रमेयक० पृ०३५४। स्या० 20 पू० 519 / प्रमेयर० 3.15 / प्रमाणमी० पृ० 40 / “नन्वेवमपि 'श्व उदेष्यति सविता अद्यतनादित्योदयात्, जाता समुद्रवृद्धिः शशाङ्कोदयदर्शनात्' इत्यादिप्रयोगेषु हेतोः पक्षधर्मत्वाभावेऽपि गमकत्वोपलब्धेनं पक्षधर्मत्वं तल्लक्षणम् / " -सन्मति० टी० पृ० 591 / (6) "तथा न चन्द्रोदयात् समुद्रवृद्धयनुमानं चन्द्रोदयात् ( पूर्व पश्चादपि) तदनुमानप्रसङ्गात् / चन्द्रोदयकाल एव तदनुमानं तदैव व्याप्तेर्गृहीतत्वादिति चेत्, यद्येवं तत्कालसम्बन्धित्वमेव साध्यसाधनयोः, तदा च स एव कालो. धर्मी तत्रैव च साध्यानुमानं चन्द्रोदयश्च तत्सम्बन्धीति कथमपक्षधर्मत्वम् ?"-प्रमाणवा० स्वव० टी०१।३। (7) कृतिकोदयादौ। (8) तुलना-"कालादिमिकल्पनायामतिप्रसङ्गः।"-प्रमाणसं० पृ० 104 / “यदि पुनराकाशं कालो वा धर्मी तस्योदेष्यच्छकटवत्त्वं साध्यं कृतिकोदयसाधनं पक्षधर्म एवेति मतम् / तदा धरित्रीमणि महोदघ्याधाराग्निमत्त्वं साध्यं महानसधूमवत्त्वं साधनं पक्षधर्मोऽस्तु तथा च महानसधूमो महोदधौ अग्नि गमयेदिति न कश्चिदपक्षधर्मो हेतुः स्यात् ।"-प्रमाणप० पृ०७१। तत्त्वार्थश्लो० पृ. 200 / सन्मति० टी० पृ० 591 / स्या० र० पृ० 519 / जैनतर्कभा० पृ० 12 / “कृतिकोदयपूरादेः कालादिपरिकल्पनात् / यदि स्यात्पक्षधर्मत्वं चाक्षुषत्वं न किंचनौ (किं घ्वनौ )"-जैनतर्कवा० वृ० पृ० 140 / न्यायाव० टी० पृ० 35 / (9) जगत् / (10) "तुलना-निःशेषं सात्मकं जीवच्छरीरं परिणामिना। पुंसा प्राणादिमत्त्वस्य त्वन्यथानुपपत्तितः // सपक्षसत्त्वशून्यस्य हेतोरस्य समर्थनात् / नूनं निश्चीयते सदभिर्नान्वयो हेतुलक्षणम् // क्षणिकत्वेन न व्याप्तं सत्त्वमेवं प्रसिद्धयति / सन्दिग्धव्यतिरेकाच्च ततोऽ 1-नर्थक्यमितिप्रस-श्र० /