________________ प्रमाणप्र० का 0 12 ] त्रैरूप्यनिरासः "हेतोत्रिष्वपि रूपेषु निर्णयस्तेन वर्णितः / असिद्धविपरीतार्थव्यभिचारिविपेक्षतैः // " [प्रमाणवा० 3 / 14] इति / अत्रोच्यते-न पक्षधर्मत्वादिरूपत्रयं हेतोलक्षणम् , विप॑क्षेऽप्यस्य वर्तमानत्वात् , यद् विपक्षेऽपि वर्त्तते न तत् लक्षणम् यथा सत्त्वम् अग्नेः, विपक्षेऽपि हेत्वाभासलक्षणे वर्त्तते च पक्षधर्मत्वादिरूपत्रयमिति / यदेव हि विपक्षासाधारणं स्वरूपं तदेव लक्षणतया / लोके प्रसिद्धम् , यथा भासुररूपोष्णस्पर्शवत्त्वम् अग्नेः / न चेदं पक्षधर्मत्वादिरूपत्रयं सिद्धो निरस्तो हेतुः, यथा चेतनास्तरवः स्वापात् इति / पक्षीकृतेषुतरुषु पत्रसंकोचलक्षणः स्वा पः एकदेशेन सिद्धः / न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाजः, किन्तु केचिदेव / सत्त्ववचनस्य पश्चात्कृतेन एवकारेण असाधारणो धर्मो निरस्तः / यदि हि अनुमेय एव सत्त्वमिति कुर्यात् श्रावणत्वमेव हेतुः स्यात् / निश्चितग्रहणेन सन्दिग्धासिद्धः सर्वो निरस्तः। सपक्षएव सत्त्वम्, सपक्षो वक्ष्यमाणलक्षणः, तस्मिन्नेव सत्त्वं निश्चितं द्वितीयं रूपम् / इहापि सत्त्वग्रहणेन विरुद्धो निरस्त:, स हि नास्ति सपक्षे / एवकारेण साधारमानैकान्तिकः, अनित्यः शब्दः प्रमेयत्वात्, स हि न सपक्ष एव वर्तते किन्तभयत्रापि। सत्त्वग्रहणात पूर्वावधारणवचनेन सपक्षव्यापिसत्ताकस्यापि प्रयत्नानन्तरीयकस्य हेतुत्वं कथितम् / पश्चादवधारणे त्वयमर्थः स्यात्-सपक्षे सत्त्वमेव यस्य स हेतुरिति प्रयत्नानन्तरीयकं न हेतु: स्यात् / निश्चितवचनेन सन्दिग्धान्वयोऽनैकान्तिको निरस्तः, यथा सर्वज्ञः कश्चिद् वक्तृत्वात्, वक्तृत्वं हि सपक्षे सर्वज्ञे सन्दिग्धम् / असपक्षे चासत्त्वमेव निश्चितम, असपक्षो वक्ष्यमाणलक्षणः, तस्मिन् असत्त्वमेव निश्चितं तृतीयं रूपम् / तत्रासत्त्वग्रहणेन विरुद्धस्य निरासः, विरुद्धो हि विपक्षेऽस्ति / एवकारेण साधारणस्य विपक्षकदेशवृत्तेनिरासः, नित्यः शब्द: कृतकत्वात् खवत् / प्रयत्नानन्तरीयकत्वे साध्ये हि अनित्यत्वं विपक्षकदेशे विद्युदादावस्ति आकाशादौ नास्ति ततो नियमेनास्य निरासः। असत्त्ववचनात् . पर्वस्मिन्नवधारणेऽयमर्थः स्यात्-विपक्षे एव यो नास्ति स हेतुः / तथा च प्रयत्नानन्तरीयकत्वं सपक्षेऽपि सर्वत्र नास्ति ततो न हेतु: स्यात्, ततः पूर्वं न कृतम् / निश्चितग्रहणेन सन्दिग्धविपक्षव्यावृत्तिकोऽनैकान्तिको निरस्तः / " -न्यायबि०, टी० पृ० 31-33 / वादन्याय पृ० 60 / तत्त्वस० पृ० 404 / (1) 'निश्चयः'-प्रमाणवा० / (2) अभावादित्यर्थ:-आ० टि०। (3) अस्य व्याख्या"यत एवं तेन कारणेन हेतोस्त्रिष्वपि रूपेषु पक्षधर्मान्वयव्यतिरेकेषु निश्चयो वर्णितः आचार्यदिग्नागेन प्रमाणसमुच्चयादिषु 'असिद्धस्तु द्वयोरपि साधनम्' इत्यादिना / कस्य निरासेनेत्याह-असिद्धेत्यादि / आद्यादित्वात् तृतीयार्थे तसिः विपक्षण इत्यर्थः / तत्र असिद्धविपक्षेण पक्षधर्मत्वनिश्चयो वणितः / विपरीतार्थो विरुद्धः, तस्य विपक्षेण अन्वयनिश्चयः / व्यभिचार्यनैकान्तिकः, तस्य विपक्षेण व्यतिरेकनिश्चयः। -प्रमाणवा० स्ववत्तिटी० / स्या०र० पृ० 518 / "तेन-प्रतिबन्धस्यावश्याभ्युपगन्तव्यत्वेन हेतोः त्रिष्वपि . . . ."-प्रमाणवा० मनोरथ० / उद्धृतोऽयम्-तत्त्वार्थश्लो० पृ० 203 / प्रमाणप० पृ० 72 / प्रमेयक पृ० 354 / 'निश्चयस्तेन'-बृहदा० भा० वा० पृ० 1521 / स्या० र०५० 518 / (4) हेत्वाभासेऽपि / तुलना-"निश्चितं पक्षधर्मत्वं विपक्षेऽसत्त्वमेव च / सपक्ष एव जन्यत्वं तत्त्रयं हेतु ' लक्षणम् / / केचिदाहुर्न तद्युक्तं हेत्वाभासेऽपि संभवात् / असाधारणतापायाल्लक्षणत्वाविरोधतः / / असाधारणो हि स्वभावो भावलक्षणमव्यभिचारादग्नेरौष्ण्यवत्, न च त्रैरूप्यस्यासाधारणता तद्धेतौ तदाभासेऽपि तस्य समुद्भवात् ।"-तत्त्वार्थश्लो० पृ० 198 / (5) तुलना-"यदेव हि लक्ष्यासाधारणं स्वरूपं तदेव लक्षणतया लोके प्रतीतमव्यभिचारित्वात्, यथा भासुररूपोष्णस्पर्शवत्वमग्नेः ।"-स्या०र०५०५१८॥ 1 लक्षणं तथा लोके आ०, तल्लक्षणतया लोके श्र०।