________________ 438 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० पक्षप्रतिपादितमेवार्थ हेतुः प्रतिपादयति, तत्प्रतिपादितञ्च प्रमाणान्तरं समर्थयत इत्यप्युच्यतामविशेषात् / इदमेव च पक्षस्य स्वरूपम् -यद् हेत्वपेक्षस्य अर्थप्रतिपादकत्वं नाम / 'पंच्यते कोमलीक्रियते हेतुना सुकुमारप्रज्ञानां साध्यधर्मान्वितत्वेन व्यक्ततामापाद्यते ईति पक्षः' इति व्युत्पत्तेः। यदि च पक्षो नेष्यते कथं तर्हि सपक्षविपक्षव्यवस्था स्यात् तत्पूर्वकत्वात्तस्याः ? तदभावे च त्रिरूपस्य हेतोरप्यनुपपत्तेरनुमानोच्छेदः स्यात् / / किञ्च, प्रतिज्ञायाः प्रयोगानहत्वे शास्त्रादावप्यसौ न प्रयुज्येत अँविशेषात् / न चैवम्, तत्रं तत्प्रयोगदर्शनात् / नहि शास्त्रेऽनियंतकथायां वा प्रतिज्ञा नाभिधीयते 'अग्निरत्र धूमात्, वृक्षोऽयं शिंशपात्वात्' इत्याद्यभिधानानां तत्रोपलम्भात् / 'परीनुग्रह10 प्रवृत्तानां शास्त्रकाराणां प्रतिपाद्यावबोधनाधीनधियां शास्त्रादौ प्रतिज्ञाप्रयोगो युक्तिमानेव उपयोगित्वात्तस्य' इत्यभ्युपगमे वादेऽपि सोऽस्तु तत्रापि तेषां" तादृशत्वादिति / ननु लिङ्गस्य साध्याविनाभावैकलक्षणत्वमयुक्तम् , तस्य पक्षधर्मत्वादिलक्षणत्रयापक्षधर्मत्वादिरूपत्र- न्वितत्वेन एकलक्षणत्वायोगात् / तदनन्वितत्वे हेतोः असिद्धत्वादियस्य लिङ्गलक्षणत्व- दोषानुषङ्गात् / नहि पक्षधर्मत्वाभावे अस्य असिद्धत्वव्यवच्छेदः, व्युदासपुरस्सरं तस्य 15 AM सपक्षे सत्त्वाभावे च विरुद्धत्वव्युदासः, विपक्षेऽसत्त्वाभावे च अनैत्वसमर्थनम्- कान्तिकत्वनिषेधः कर्तुं शक्य इति / उक्तञ्च (1) हेतुप्रतिपादितञ्च / (2) समर्थनरूपम् / (3) तुलना-'पच्यते इति पक्षः / पच व्यक्तीकरणे / पच्यते व्यक्तीक्रियते योऽर्थः स पक्षः।"-न्यायप्र०व० पृ०१३। न्यायसारटी० पृ० 101 / (4) पक्षपूर्वकत्वात् / (5) सपक्षविपक्षव्यवस्थायाः। (6) सपक्षविपक्षव्यवस्थाया अभावे / (7) तुलना-"प्रतिज्ञानुपयोगे शास्त्रादिष्वपि नाभिधीयेत विशेषाभावात् / नहि शास्त्रे प्रतिज्ञा नाभिधीयत एव अनियतकथायां वा, 'अग्निरत्र धूमात्, वृक्षोऽयं शिशपात्वात्' इत्यादिवचनानां शास्त्रे दर्शनात्, 'विरुद्धोऽयं हेतुरसिद्धोऽयम्' इत्यादिप्रतिज्ञावचनानामनियतकथायां प्रयोगात् ।"-अष्टश०, अष्टसह०१० 83 / प्रमेयक० पृ० 373 / स्या० र०पृ० 551 / (८)प्रयोगानहत्वाविशेषात् / (9) शास्त्रादौ / (10) सुगोष्ठयाम् / (11) शास्त्रे सुगोष्ठयां वा। (12) तुलना-"परानुग्रहप्रवृत्तानां शास्त्रकाराणां प्रतिपाद्यावबोधनाधीनधियां शास्त्रादौ प्रतिज्ञाप्रयोगो युक्तिमानेव उपयोगित्वात्तस्येति चेत्, वादेऽपि सोऽस्तु, तत्रापि तेषां तादृशत्वात्, वादेऽपि विजिगीषुप्रतिपादनाय आचार्याणां प्रवृत्तेः / " -अष्टसह० पृ० 83 / प्रमेयक० पू० 373 / स्या० र० पू० 551 / (13) प्रतिज्ञाप्रयोगोऽस्तु / (14) वादेऽपि / (15) शास्त्रकाराणाम् / (16) परानुग्रहप्रवृत्तिमत्त्वात् / (17) प्रकारान्तरेण पक्षप्रयोगसमर्थनं निम्नग्रन्थेषु द्रष्टव्यम्-प्रश० व्यो० पृ० 601 / न्यायमं० पृ० 571 / न्यायवा० ता० टी० पृ० 275 / प्रश० कन्द० पृ० 235 / प्रश० किर० पृ० 335 / प्रमाणमी० पृ०५१। (18) "हेतुस्विरूपः / किं पुनस्त्रैरूप्यम् ? पक्षधर्मत्वम्, सपक्षे सत्त्वम्, विपक्षे चासत्त्वमिति / " -न्यायप्रवे० पृ० 1 / "त्रैरूप्यं पुनः लिङ्गस्यानुमेये सत्त्वमेव, अनुमेयं वक्ष्यमाणलक्षणम्, तस्मिल्लिंगस्य सत्त्वमेव निश्चितमेकं रूपम्, तत्र सत्त्ववचनेन असिद्धं चाक्षुषत्वादि निरस्तम्। एवकारेण पक्षकदेशा___ 1 इत्यप्युच्येताविशेषात् ब० 2 इदमेव पक्ष-आ, श्र०। 3 'इतिपक्षः' नास्ति ब०। 4 शास्त्रेनियआ० / / वादे सो-वादे सा-श्र० / 6 शक्यते इति ब०।