SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्र० का० 12 ] प्रतिज्ञाप्रयोगसमर्थनम् 437 एतेन हेतूपन्यासापेक्षस्य प्रयोजनप्रसाधकत्वात्' इत्यपि प्रत्याख्यातम् ; नियमाभावात्। क्वचिद् हेतुप्रयोगमन्तरेणापि केवलस्यैव पक्षप्रयोगस्य प्रतिपाद्यस्य प्रतिपत्तिविशेषलक्षणप्रयोजनप्रसाधकत्वप्रतीतेः / किञ्च, हेतुगोचरस्य पक्षस्यानिर्देशे हेतोरनैकान्तिकत्वादिदोषानुषङ्गः, तमन्तरेण तत्र वास्तवगुणदोषविवेकस्य कर्तुमशक्यत्वात् / यथैव हि लक्ष्यनिर्देशं विना धानु- 6 ष्कस्य इषु प्रतिक्षिपतो गुणोऽपि दोषतया दोषोऽपि गुणतया तत्प्रेक्षकजनानां व्यामोहात् प्रतिभाति, तन्निर्देशे तु तद्गुणो लक्ष्यवेधप्रावीण्यलक्षणः तद्विपरीतत्वलक्षणश्च दोषः तेषां यथावत् प्रतिभाति, एवं पक्षाऽनिर्देशे व्यामोहात् सम्यग्हेतावपि 'किमयं हेतुः साध्ये एव वर्तते तदभावे वा' इत्याशङ्काकलङ्कितत्वादनैकान्तिकः, 'विपक्ष एव वर्तिष्यते' इति विपरीताशङ्काऽनिवृत्तेः विरुद्धो वा स्यात् / पक्षनिर्देशे तु लक्ष्यनिर्देशे धानुष्कवत् 10 यथावत्तद्गुणदोषयोः प्रतिपत्त्युपपत्तेः न कश्चिद् दोषः। __ यदप्यभिहितम्- 'केवलस्यैव पक्षस्य साध्यप्रतिपादनसामर्थ्य हेतूपन्यासो व्यर्थः' इति; तदप्यभिधानमात्रम् ; एकाकिनः कारणस्य कार्यकारित्वाप्रतीतेः / न खलु बीजादेः केवलस्यैव अङ्कुरादिकार्यकरणे सामर्थ्यं दृष्टम् / नाप्येकस्य तंत्र सामर्थ्य अन्येषां वैयय॑म् / कथश्चैवं हेतोः केवलस्यैव साध्यसिद्धौ सामर्थ्य तत्समर्थनस्य उपनयादेश्च वैय- 15 य॑न्न स्यात्? पक्षस्य अर्थसिद्धौ हेत्वपेक्षणान्न तत्सिद्धिनिबन्धनत्वम् ; इत्यप्यसुन्दरम् ; भवत्कल्पिताऽविकल्पकाध्यक्षस्याप्यर्थसिद्धिनिबन्धनत्वाभावप्रसङ्गात् तत्सिद्धौ तस्य विकल्पापेक्षणात् / अथ 'तत्प्रेतिपन्नमेवार्थं विकल्पो व्यवस्थापयति' इत्युच्यते; तर्हि - (1) तुलना-"तत्प्रयोगोऽत्र कर्तव्यो हेतोर्गोचरदीपकः // अन्यथा वाद्यभिप्रेतहेतुगोचरमोहिनः / प्रत्याय्यस्य भवेद्धेतुविरुद्धारेकितो यथा // धानुष्कगुणसंप्रेक्षिजनस्य परिविध्यतः / धानुष्कस्य विना लक्ष्यनिर्देशेन गुणेतरौ // ततश्च सम्यगहेतावपि विपक्षे एवायं वर्तते इति व्यामोहाद् विरुद्धदूषणमभिदधीत, पक्षोपन्यासात्तु निर्णीतहेतुगोचरस्य नैष दोषः स्यादित्यभिप्रायः * यथा लक्ष्यनिर्देशं विना धानुष्कस्येषु प्रक्षिपतो यौ गुणदोषौ तौ तद्दशिजनस्य विपर्यस्तावपि प्रतिभात:-गुणोपि दोषतया, दोषोऽपि वा गुणतया, तथा पक्षनिर्देशं विना हेतुमुपन्यस्यतो वादिनो यौ स्वभिप्रेतसाध्यसाधनसमर्थत्वासमर्थत्वलक्षणौ गुणदोषौ तौ प्राश्निकप्रतिवाद्यादीनां विपरीतावपि प्रतिभात इति भावार्थः ।"-न्यायाव० श्लो० 14.16, टी० पृ० 48-49 / (2) लक्ष्यनिर्देशे / (3) धानुष्कस्य कौशल्यम् / (4) प्रेक्षकजनानाम् / (5) वादिनः स्वाभिप्रेतसाध्यसाधनसमर्थत्वासमर्थत्वलक्षयोः गुणदोषयोः। (6) पृ० 436 पं०११ (7) बीजस्य हेतोर्वा / (8) अङ्करोत्पादने साध्यप्रतिपादने वा / (9) क्षितिसलिलादीनाम् पक्षप्रयोगादीनां वा। (10) तुलना-"तत्र च यदूषणमुक्तम्-तर्हि हेतोरेव तत्र साम ोपपत्तेः किं पक्षवचनेनेति; तदयुक्तम् / एवं हि हेतोः समर्थनापेक्षस्य साध्यसिद्धिनिबन्धनत्वोपपत्तेः तद्वचनमपि न स्यात् / " -स्या० 2010 550 / न्यायाव० टी० पू० 47 / (11) साध्यसिद्धि / (12) सौगत / (13) अर्थसिद्धौ (14) अविकल्पकाध्यक्षस्य / (15) निर्विकल्पप्रतिपन्न / 1 इत्यत्रापि श्र०। 2 केवलस्यास्यैव ब०। 3 यथावदगण-आ० / 4-कार्यकारणे आ० / 5-निबन्धनम् ब०। /
SR No.004327
Book TitleNyayakumudchandra Part 2
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1941
Total Pages634
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy