________________ लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० हि केवलः साध्यमर्थं प्रतिपादयेत् , हेतूपन्याससमन्वितो वा ? यदि केवलः; हेतूपन्यासो व्यर्थः, प्रतिज्ञाप्रयोगमात्रादेव तत्प्रतिपत्तेः सातत्वात् / अथ हेतूपन्याससमन्वितः; तर्हि हेतोरेव तंत्र सामोपपत्तेः किं तत्प्रयोगेणेति ? अत्रोच्यते-पक्षस्य साध्यसिद्धिप्रतिबन्धित्वादप्रयोगः; प्रक्रमात् तत्संसिद्धेः, 53 प्रयोजनाऽप्रसाधकत्वात् , हेतूपन्यासापेक्षस्य तत्प्रसाधकत्वाद्वा ? न तावत् तत्सिद्धि प्रतिबन्धित्वात् ; वादिना सम्यक् साधनात् स्वपक्षसिद्धिलक्षणे कार्ये क्रियमाणे तद्विपक्षाप्रसाधकत्वत: तत्प्रयोगस्य तत्प्रतिबन्धकत्वानुपपत्तेः / यत् यस्मिन् कार्ये क्रियमाणे तद्विपक्षाप्रसाधकम् न तत्तस्य प्रतिबन्धकम् यथा धूमे काष्ठादिकम् , सम्यक् साधनतः स्वपक्षसिद्धिलक्षणे कार्ये क्रियमाणे तद्विपक्षाप्रसाधकश्च प्रतिज्ञाप्रयोग इति / 10 प्रक्रमात्तत्सिद्धिश्च प्रतिज्ञावत् हेत्वादावप्यविशिष्टा, तेतस्तस्याप्यप्रयोगप्रसङ्गः। नहि शब्दस्य अनित्यत्वप्रतिज्ञाने कृतकत्वादिहेतुः घटादिदृष्टान्तश्च प्रक्रमान्ने सिद्धथति / तथाविधस्याप्यस्याभिधाने पक्षण कोऽपराधः कृतः येनास्य तथाविधस्याभिधानं नेष्यते ? ___ प्रयोजनाप्रसाधकत्वश्च असिद्धम् प्रतिपाद्यप्रतिपत्तिविशेषस्य तत्प्रसाध्यप्रयोजनस्य सद्भावात् / प्रतिपाद्यो हि कश्चिन् मन्दमतिः कश्चित्तीब्रमतिः / तत्र यो मन्दमति: न 15 तस्य प्रकृतार्थप्रतिपत्तिविशेषः प्रतिज्ञाप्रयोगमन्तरेणोपपद्यते, नापि नैयायिकादेः पञ्चावयवप्रयोगे प्रतिपन्नसङ्कतस्यामन्दमतेरपि / तदप्रयोगे ते निग्रहस्थानाभिधानात् / "हीनमन्यतमेनापि न्यूनम्" [ न्यायसू० 5 / 2 / 12 ] इति वचनात् / तीव्रमतेस्तु तत्प्रयोगमन्तरेणापि हेतुप्रयोगमात्रात् प्रकृतार्थप्रतिपत्तिप्रतीतेस्तस्य वैयर्थे हेतुप्रयोगस्यापि वैयर्थ्य स्यात्, "निश्चिताऽविप्रतारकपुरुषवचनाद् 'अग्निरत्र' इत्यादिप्रतिज्ञाप्रयोगमात्ररूपादेव 20 कस्यचित् प्रकृतार्थप्रतिपत्तिदर्शनात् / कथमनिर्देश्यस्य लक्षणमुक्तम् ? न साधनवाक्यावयवत्वादस्य लक्षणमुक्तमपि तु असाध्यं केचित् साध्यं साध्यं चासाध्यं प्रतिपन्नाः, तत्साध्यासाध्यविप्रतिपत्तिनिराकरणार्थं पक्षलक्षणमुक्तम् ।"-न्यायबि० टी० पृ० 77-79 / 'असाधनाङ्गभूतत्वात् प्रतिज्ञाऽनुपयोगिनी।"-तत्त्वसं० पृ० 418 // (1) साध्यार्थप्रतिपत्तेः / (2) साध्यार्थप्रतिपत्तौ। (3) तुलना-"तस्यावचनं साध्यसिद्धिप्रतिबन्धकत्वात्,प्रयोजनाभावाद्वा ?"-प्रमेयक० पू० 373 / "कथन्न पुनरस्याः साधनाङ्गत्वं किं सर्वथैव कथास्वनुपयोगात्, अथोपयुक्तस्याप्यन्यथैव परिग्रहात् ?"-प्रश० किर० पृ० 335 / (4) प्रकरणात् / (5) पक्षप्रयोगसंसिद्धेः। (6) प्रयोजन / (7) स्वपक्षविरुद्धासाधकत्वात् / (8) साध्यसिद्धि / (2) यतः हेत्वादीनामपि प्रकरणादेव सिद्धिस्ततः / (10) प्रकरणात् सिद्धस्यापि (11) तुलना-"तत्प्रयोगे प्रतिपाद्यप्रतिपत्तिविशेषस्य प्रयोजनस्य सद्भावात्।"-प्रमेयक० पृ० 373 / स्या० र० पृ० 550 / (12) प्रतिज्ञाया अप्रयोगे। (13) नैयायिकेन। (१४)प्रतिज्ञाप्रयोग / (15) प्रतिज्ञाप्रयोगस्य (16) तूलना"अविप्रतारकतानिश्चितपुरुषवचनमात्रादपि 'अग्निरत्र' इत्यादिरूपात् क्वचित् प्रमेयोऽर्थः सिद्धयतीति हेतोरप्यसाधनताप्रसङ्गात् तद्विरहेणापि साध्यसिद्धेः।"-ज्यायाव० टी०५०४७। (17) तीव्रमतेःश्रद्धालोः। 1 सामर्थ्य प्र-श्र०। 2 संज्ञानत्वात ब०। 3 पक्षमात्रसिद्धः श्र०। 4-न्न प्रसि-ब। 5 नियामकादेः ब०।