________________ 434 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० अथाऽन्यतः; तदा अनवस्था-तदुत्थापकहेतावप्यनुमानान्तरात्तत्प्रतिपत्तिप्रसङ्गात् / तन्न कुतश्चित् परस्य प्रतिबन्धसिद्धिः / मा भूत्, किं तया ? इत्यत्राह-'नहि' इत्यादि / न खलु साकल्येन लिङ्गस्य लिङ्गिना व्याप्तेरसिद्धौ क्वचिद् अनित्यत्वादौ वह्रथादौ वा साध्ये व्यवहारे परमार्थे वा किञ्चित् स्वभावलिङ्गजं कार्यादिलिङ्गजं वा अनुमानन्नाम। इदमत्र तात्पर्यम्-यथा अनुमानमन्तरेण न किञ्चित् साध्यं सिद्धयति इति तदर्थमनुमानमिष्यते तथा तल्लिङ्गलिङ्गिव्याप्तिसिद्धिमन्तरेण तदपि न सिद्धथति इति तदा सॉपि इष्यतामविशेषात् / ततः किं जातम् ? इत्याह-'तन्न' इत्यादि। यत एवं तत् तस्मात् न अप्रत्यक्षं परोक्षम् अनुमानव्यतिरिक्तं प्रमाणमस्ति किन्तु अनुमानमेव' ईत्य युक्तम् , लिङ्गप्रतिपत्तेः अविनाभावप्रतिपत्तेः तर्काख्यायाः प्रमाणान्तरत्वाद् अलिङ्गजाऽ10 विशदस्वभावतया पँमाणद्वयानन्तर्भूतत्वात् / ततः सूक्तम्-'चिन्ता प्रमाणम् अनुमानादेर्हेतुत्वात्' इति / कीदृशं तदनुमानम् ? इत्याह लिङ्गात् साध्याविनाभावाभिनिबोधैकलक्षणात् // 12 // लिङ्गिधीरनुमानं तत्फलं होनादिबुद्धयः। (1) अन्यानुमानोत्थापक / (2) व्याप्तिप्रतिपत्ति / (3) अनुमानमपि। (4 ) अनुमानसिद्धयर्था। (5) व्याप्तिसिद्धिरपि। तुलना-"तर्कसंवादसन्देहे निःशङ्कानुमतिः क्व ते ।"-तत्त्वार्थश्लो० पृ० 195 / ( 6 ) 'तन्नाप्रत्यक्षम्' इत्यादि बौद्धोक्तं वाक्यम् / (7) अनुमानप्रत्यक्षरूप / (8) व्याख्या-"अनुमानं प्रमाणं भवति / किम् ? लिङ्गिधीः लिङ्गिनः साध्यस्य धीनिमित्यर्थः / लिङ्गमविनाभावसम्बन्धोऽस्यास्तीति लिङ्गीति विग्रहात् / तस्योत्पत्तिकारणमाह लिङ्गात् साधनात्। साध्याविनाभावाभिनिबोधैकलक्षणात्, साध्येन इष्टाबाधितासिद्धरूपेण सह अविनाभावोऽन्यथान पपत्तिनियमः तस्य अभितो देशकालान्तरव्याप्त्या निबोधो निर्णयः स एकं प्रधानं लक्षणं स्वरूपं यस्य तत्तथोक्तं तस्माल्लिङ्गादुत्पद्यमाना लिङ्गिधीरनुमानमित्यर्थः / नन्वस्य तर्कफलत्वात्कथं प्रमाणत्वमित्याशंक्याहतत्फलं हानादिबुद्धयः, हानं परिहार: आदिशब्देन उपादानमपेक्षा च गृह्यते / तासां बुद्धयो विकल्पाः तस्य अनुमानस्य फलं भवन्ति, ततः फलहेतुत्वादनुमानं प्रमाणं प्रत्यक्षवदित्यभिप्रायः ।"-लघी० ता० 1031 / (9) "अनुमेयेन सम्बद्धं प्रसिद्धं च तदन्विते / तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् // " -प्रश० भा० पृ० 200 / "उदाहरणसाधात् साध्यसाधनं हेतुः / तथा वैधात् / "- न्यायसू० 111 / 34-35 / "हेतुस्त्रिरूपः"-न्यायप्र० प्र०१। “पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिर्धव सः। अविनाभावनियमात् हेत्वाभासास्ततोऽपरे ॥"-हेतबि० प्र० परिप्रमाणवा० 3 / 1 / तत्त्वसं० का० 1362 / “त्रिरूपो हेतुः ।"-सांख्यका० माठ० पृ० 12 / “साधनत्वख्यापकं लिङ्गवचनं हेतुः / " -न्यायसा० 105 / "अन्यथानुपपन्नत्वं हेतोर्लक्षणमीरितम् ।"-न्यायाव० श्लो० 22 / "साधनं प्रकृताभावेऽनुपपन्नम् "-प्रमाणसं० पृ० 102 / न्यायवि० का० 269 / तत्वार्थश्लो० पृ० 214 / परीक्षामु० 3.15 / “तथा चाभ्यधायि कुमारनन्दिभट्टारकः-अन्यथानुपपत्त्येकलक्षणं लिङ्गमभ्यते।" -प्रमाणप० पृ०७२ / "निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः ।"-प्रमाणनय० 39 / “साधनत्वाभिव्यञ्जकविभक्त्यन्तं साधनवचनं हेतुः ।"-प्रमाणमी० 211 / 12 / (10) “लिङ्गदर्शनात्संजायमानं लैङ्गिकम् ।"-प्रश० भा० पृ० 200 / “अनुमानं ज्ञातसम्बन्धस्यैकदेशदर्शनादेकदेशान्तरेऽसनिकृष्टेऽर्थे बुद्धिः ।"-शाबरभा० 1 / 1 / 5 / "प्रतिबन्धदृशः प्रतिबद्धज्ञानमनुमानम् ।"-सांख्यसू० 13100 / “अनुमानं मितेन लिंगेन अनु पश्चान्मानम् ।"-न्यायवा० पृ०२८ / "तत्र स्वार्थं त्रिरूपाल्लिङ्गाद् यदनुमेये