________________ प्रमाणप्रका० 11 ] तर्कप्रामाण्यवादः प्रतिपद्य स्वार्थमनुमानं विदध्यात्, परार्थं वा ? न तावत् स्वार्थम् ; सकलसाध्यसाधनव्यक्तिविशेषाणां प्रत्यक्षतः परिस्फुटतया प्रतिपन्नत्वेन अस्य अफलत्वात् / यत् प्रत्यक्षतः परिस्फुटतया प्रतिपन्नम् न तत्र अनुमानं फलवत् यथा प्रत्यक्षस्वरूपे, प्रत्यक्षतः परिस्फुटतया प्रतिपन्नाश्च योगिनो निखिलाः साध्यसाधनव्यक्तिविशेषा इति / न च तों तत्प्रतिपन्नेष्वप्येतेषु समारोपव्यवच्छेदार्थं सफलमेवानुमानमित्यभिधातव्यम्; योगिनो 5 विधूतकल्पनाजालतया समारोपस्यैवाऽसंभवात् / अथ परार्थं योगिनोऽनुमानम् ; ननु गृहीतव्याप्तिकम् , अगृहीतव्याप्तिकं वा परं परार्थानुमानेन योगी प्रतिपादयेत् ? यदि गृहीतव्याप्तिकम् ; कुतस्तेन गृहीता व्याप्तिः ? न तावत् स्वसंवेदनेन्द्रियमनोविज्ञानैः; तेषां तैदविषयत्वप्रतिपादनात् / नापि योगिप्रत्यक्षेण; अनुमानानर्थक्यानुषङ्गात् / अगृहीतव्याप्तिकस्य च प्रतिपादनानुपपत्तिः अतिप्रसङ्गात् / तन्न कुतश्चिदपि प्रत्यक्षात् साध्य- 10 साधनयोर्व्याप्तिः प्रतिपत्तुं शक्यौं / अतः सूक्तम्-'अविकल्पधिया' इत्यादि / न विद्यते विकल्पः स्वपरव्यव सायो यस्याः सा चासौ धीश्च तया परोक्षया ज्ञानान्तरानुभवनिश्चयाकारिका-विवृत्योा त्मिकया च न किञ्चित् स्वभावविषयं कार्यादिविषयं वा लिङ्गम् ख्यानम् अविनाभावः सम्प्रतीयत इति / तर्हि अनुमानात् तत्सम्प्रतीयते 15 इत्यत्राह-न अनुमानात् 'लिङ्गात् लिङ्गिनि ज्ञानम्' इत्येवं लक्षणात् तत्सम्प्रतीयते; तथाहि-प्रथमानुमानं हेतोः अविनाभावावसाये समर्थम् , अनुमानान्तरं वा ? तत्राद्यपक्षोऽनुपपन्नः; तदनुमानस्य असिद्धत्वात् / अत एव तैत्सिद्धौ अन्योन्याश्रयःसिद्धे हि हेतोरविनाभावे ततस्तदुत्पत्तिसिद्धिः, तत्सिद्धौ च हेतोरविनाभावसिद्धिरिति / नाप्यनुमानान्तरम् / यतः तदपि प्रतिपन्नाऽविनाभावात् हेतोरुत्पद्यते, तत्प्रतिपत्तिश्च 20 तत्र प्रत्यक्षतः, अनुमानाद्वा स्यात् ? तत्राद्यपक्षे दूषणमाह-'सर्वत्र' इत्यादि / सर्वत्र प्रथमानुमानवत् द्वितीयेप्यनुमाने अविशेषात् , 'न प्रत्यक्षम्' इत्यादेर्दोषस्य अभेदात् / अनुमानतोऽपि तत एव, अन्यतो वा तत्प्रतिपत्तिः स्यात् ? यदि तत एव; अन्योन्याश्रयः / (1) अनुमानस्य / (2) परिस्फुटतया। (3) योगिप्रत्यक्षज्ञातेष्वपि साध्यसाधनव्यक्तिविशेषेषु / (4) "प्रागुक्तं योगिनां तेषां तद्भावनामयम् / विधूतकल्पनाजालं स्पष्टमेवावभासते॥"प्रमाणवा० 2 / 281 / “सत्यस्वरूपविषयत्वेन विधूतकल्पनाजालम् अविकल्पकत्वाच्च स्पष्टं विशदज्ञेयाकारमेवावभासते ।"-प्रमाणवा० मनोरथ० 2 / 281 / (5) तुलना-"तहि योगी परार्थानुमानेन गृहीतव्याप्तिकमगृहीतव्याप्तिकं वा परं प्रतिपादयेत् ।”-प्रमेयक० पृ० 351 / (6) परेण प्रतिपाद्येन / (7) व्याप्त्यविषयत्व। (8) सकलसाध्यसाधनयो: स्पष्टं प्रतिभातत्वात् / (9) मीमांसकमते / (10) नैयायिकमते / (11) लिङ्गम्-अविनाभावः / (12) प्रकृतानुमानस्य व्याप्तिग्रहणात्पूर्वमलब्धस्वरूपत्वात् / (13) अनुमानसिद्धौ। (14) अनुमानोत्पत्ति। (15) अविनाभावप्रतिपत्तिश्च अनुमानान्तरे। (16) समानत्वात्। (17) सिद्धायां हि व्याप्तिप्रतिपत्तौ अनुमानोत्थानम्, सति च अनुमानात्मलाभे व्याप्तिप्रतिपत्तिरिति / ____ 1-नर्थक्यप्रसङ्गात् श्र० / 2 एतदनन्तरं ब० प्रतौ 'अविकल्पधिया' इति कारिकाऽपि लिखिता समस्ति / 3 स्वरूपव्य-श्र०। 4 'कार्यादिविषयं नास्ति ब०। 5 सिद्ध हेतो-श्र० /