________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० बहिर्मनः” [ ] इत्यभिधानात् / व्याप्तिश्च बहिरर्थधर्मत्वाद् बहिरर्थः, यो बहिरर्थधर्मः स बहिरर्थः यथा रूपादिः, बहिरर्थधर्मश्च व्याप्तिरिति / भवत्कल्पितस्य मनसः षट्पदार्थपरीक्षायां प्रतिषेधतोऽसत्त्वाच्च कथं तद्भवं प्रत्यक्षतां प्रतीयात् / सत्त्वे वा न अणुस्वभावस्यास्ये अशेषाः सकृत् सम्बन्धसंभवः, यदणुस्वभावं न तत् सकृदशेषाथैः सम्बध्यते यथा परमाणुः, अणुस्वभावश्च भवत्कल्पितं मन इति / अथ साक्षात् मनसोऽशेषार्थैः सम्बन्धाभावेऽपि परम्परयाऽसौं भविष्यति; तथाहि-मनसा साक्षात् संयुज्यते आत्मा तेन च संयुक्ताः सर्वेऽग्न्यादयो धूमादयश्च साध्यसाधनव्यक्तिविशेषा इति; तदप्यपेशलम् ; एवं सर्वस्य सर्वज्ञताप्रसङ्गात्, साध्यसावनव्यक्तिवत् सर्वार्थानां मनसा सम्बद्धसंबं ( सम्बन्धसम्बन्धसं ) भवात् / किञ्च, असौ सम्बन्धसम्बन्धोऽपि मनसः सद्भिरेव अर्थैः स्यात् नाऽसद्भिः; तत्कथं तत्र व्याप्तिप्रतिपत्तिः ? न चात्मनो व्यापित्वं सिद्धम् , तस्य षट्पदार्थपरीक्षायां प्रपञ्चतः प्रेतिषेधात्, तत्कथं सम्बन्धसम्बन्धगन्धोऽपि स्यात् ? अतो दृष्टान्त एव साध्यसाधनयोः भवता व्याप्तिः प्रतिपत्तव्या, तथा च अनुमानानुत्थानं साध्यधर्मिणि साध्यधर्मेण हेतोव्याप्त्यनिश्चयात् / तन्न सौगतमते योगमते वा ऐन्द्रियं मानसं वा प्रत्यक्षं व्याप्ति15 प्रतिपत्तेरङ्गमिति स्थितम् / एतेन योगिप्रत्यक्षस्यापि अविनाभावप्रतिपत्त्यङ्गत्वं प्रत्याख्यातम् ; तस्याप्यविचारकतया कारणभूतप्रतिनियतसन्निहितार्थगोचरचारितया चैतावतो व्यापारान् कर्तुमसमर्थत्वाविशेषात् / अस्तु वा ततः तत्प्रतिपत्तिः; तथापि-योगी" प्रत्यक्षतो व्याप्तिं (1) तुलना-"परतन्त्र बहिर्मनः ।"-विधिवि० पृ० 114 / लौकिकन्या० तृ० पृ० 82 / उद्धृतमिदम्-स्या० र० पृ० 511 / (2) योगपरिकल्पितस्य / (3) पृ० 269 / (4) मनोभवं ज्ञानम् / (5) मनसः / (6) सम्बन्धः / (7) आत्मव्यापकत्वप्रयुक्तसंयुक्तसंयोगवशात् अशेषधूमाग्निव्यक्तीनां मनसा सम्बन्धकल्पने / (8) परम्परासम्वन्धः, मनःसंयुक्त आत्मा तेन च संयुक्ताः सर्वेऽर्था इति / (9) तुलना-"किञ्चासौ सम्बद्ध सम्बन्धोऽपि सद्भिरेवार्थैः नासद्भिरतीतानागतः तत्कथं तत्र व्याप्तिप्रतिपत्तिः ?"- स्या० 2010 512 / (10) अतीतानागतदेशकालभावैरिति-आ० टि० / (11) आत्मनो व्यापित्वस्य / (12) पृ० 261 / (13) तुलना-"अन्ये तु व्याप्तिग्रहणकाले प्रतिपतयोगिन इवाशेषविषयं परिज्ञानमस्तीति ब्रुवते / अन्यथा हि सर्वो धमोऽग्निं विना न भवतीति व्याप्तिस्मरणं न स्यात् / विवेकेन चाप्रतिभासः समानाभिव्याहारात् यथा धान्यराशिक्षिप्ताया धान्यव्यक्तेरिति ।"-प्रश० व्यो०१० 570 / “यस्तु मन्यते प्रज्ञाकरगुप्त: योगिज्ञानं व्यप्तिज्ञानमिति ।"सिद्धिवि० टी० पृ० 105 B. (14) योगिप्रत्यक्षस्यापि / (15) यावान् कश्चिद्धूमः स सर्वोप्यग्निजन्मा अनग्निजन्मा वा न भवतीत्येतावतः (१६)तुलना-"योगिप्रत्यक्षतो व्याप्तिसिद्धिरित्यपि दुर्घटम् / सर्वत्रानुमितिज्ञानाभावात् सकलयोगिनः / / परार्थानुमितौ तस्य व्यापारोऽपि न युज्यते / अयोगिनः स्वयं व्याप्तिमजानानः जनान् प्रति // योगिनोऽपि प्रति व्यर्थं स्वस्वार्थान मिताविव / समारोपविशेषस्याभावात् सर्वत्र योगिनाम् ॥"-तत्त्वार्थ इलो० पृ० 179 / प्रमेयक० पृ० 351 / 1 तत्प्रभवं ब०। 2 सम्बन्धसंभवान् ब०। 3 सम्बद्धसम्ब-आ० / 4 सम्बद्धसम्ब-आ० / 5 वैता-ब०।