________________ प्रमाणप्र का० 11 ] तर्कप्रामाण्यवादः यदप्यभिहितम्'-'अनुसन्धानेन हि व्याप्तिरुल्लिख्यते, तच्चे भूयोदर्शनादर्शनैरेव उत्पद्यते' इत्यादि; तदुपपन्नमेव; उपलम्भानुपलम्भप्रभवस्यैव ज्ञानस्य अस्माभिः व्याप्तिप्रतिपत्तौ सामर्थ्यस्य समर्थयितुमुपक्रान्तत्वात् / प्रत्यक्षरूपता तु तस्य अनुपपन्ना, विभिन्नसामग्रीविषयत्वात्। तद्धि इन्द्रियादिसामग्रीकं सम्बद्धवर्तमानार्थविषयञ्च प्रसिद्धम्, नचेदं तथा इति कथं प्रत्यक्षरूपतां प्रतिपद्येत ? ननु सामान्यस्य॑ व्याप्तिप्रतिपत्तौ प्रयोजकत्वात् , तस्य च इन्द्रियेण संम्बद्धत्वात् वर्तमानत्वाच्च कथन्न व्याप्तिज्ञानं प्रत्यक्षम् ? इत्यप्यविचारितरमणीयम्; यतः किं सामान्यस्य सामान्येन व्याप्तिः, उत तदुपलक्षितविशेषाणां तदुपलक्षितविशेषैः ? तत्र आद्यपक्षे न किञ्चिद् व्याप्तिप्रतिपत्तिप्रयोजनम् सामान्ये सिद्धसाधनतोऽनुमानवैफल्यप्रसङ्गात् / तदुपलक्षितविशेषाणां तु आनन्त्यात् कथं सम्बद्धवर्त्तमानता यतो व्याप्तिज्ञानस्य 10 प्रत्यक्षता स्यात् ? ___एतेन 'भूयोदृष्टान्वय' इत्यादि प्रत्युक्तम् ; विशिष्टदण्ड्यादिप्रत्ययस्य हि सम्बद्धवर्तमानार्थगोचरचारितया प्रत्यक्षता युक्ता, न तु व्याप्तिज्ञानस्य तद्विपर्ययात् इत्यसकृदावेदितम् / अथ अस्य अप्रत्यक्षत्वे कथम् ‘इन्द्रियापेक्षा' इत्युच्यते ? 'तत्कारणकारणत्वात्' इति ब्रूमः। व्याप्तिज्ञानस्य हि कारणं प्रत्यक्षानुपलभ्भौ तयोश्च इन्द्रियमिति / तन्न 15 इन्द्रियप्रभवं प्रत्यक्षं व्याप्तिप्रतिपत्तौ समर्थम् / - नापि मानसम् ; मैनसो बाह्येन्द्रियनिरपेक्षस्य बहिरर्थे प्रवृत्त्यभावात् / “अस्वतन्त्रं (1) पृ० 428 पं० 10 / (2) अनुसन्धानम् / (3) तर्काख्यस्य-आ० टि०। (4) जैनैः / (5) उपलभ्भानुपलम्भजस्य तर्कस्य / (6) प्रत्यक्षम् / (7) तख्यिं ज्ञानम् / (8) धूमत्वस्य अग्नित्वस्य च / (9) संयुक्तसमवायसम्बन्धसद्भावात्, चक्षुःसंयुक्ते अग्नौ धूमे च अग्नित्वस्य धूमत्वस्य च समवायात् / (10) सामान्योपलक्षित। (11) अग्निधमसामान्ययो: महानसादावेव प्रत्यक्षसिद्धत्वात् / (12) विशेषस्यैव साधनीयत्वात्-आ० टि। (13) पृ० 429 पं०६ / (14) सकलसाध्यसाधनव्यक्तिविषयतया सम्बद्धवर्तमानार्थगोचरत्वाभावात् / (15) व्याप्तिज्ञानस्य-आ० टि० / (16) "तत्र केचिदाचक्षते मानसं प्रत्यक्षं प्रतिबन्धग्राहीति / प्रत्यक्षानुपलम्भाभ्यामनलसहचरितमनग्नेश्च व्यावर्तमानं धूममुपलभ्य विभावसौ नियतो धुम इति मनसा प्रतिपद्यते / मनश्च सर्वविषयं केन वा नाभ्युपेयते असन्निहितमप्यर्थमवधारयितुं क्षमम् / भावाभावसाहचर्यमवधार्य मनसा नियमज्ञानसिद्धेरित्यलं निर्बन्धेन ।"-न्यायमं० 10 121, 123 / "तस्य ग्रहणं प्रत्यक्षानुपलम्भसहायान्मानसात् प्रत्यक्षात् / धूममग्निसहचरितमिन्द्रियेणोपलभ्यानग्नेश्च जलादेावर्तमानमनुपलम्भेन ज्ञात्वा मनसा निश्चिनोति धूमोऽग्निन्न व्यभिचरतीति ।"-न्यायकलि० 103 / (17) तुलना-"प्रत्यक्षं मानसं येषां सम्बन्धं लिंगलिंगिनोः / व्याप्त्या जानाति तेप्यर्थेऽतीन्द्रिये किमु कुर्वते / यत्राक्षाणि प्रवर्तन्ते मानसं तत्र वर्तते / नोऽन्यत्राक्षादिवैधुर्यप्रसंगात सर्वदेहिनाम् ॥"-तत्त्वार्थश्लो० पृ०१७९ / “न चातीतानागतानां व्यक्तीनां मनसा सङ्कलनमिति न्याय्यम् ; मनसो बहिरर्थे स्वातन्त्र्ये अन्धबधिराद्यभावप्रसङ्गात् ।"-प्रश० कन्द०१० 210 / “मनश्चेदहिविषये कारणान्तरनिरपेक्षं प्रवर्तेत तदा सर्वः सर्वदर्शी स्यादविशेषात् ।"-प्रक० पं० ए०६९ / बह० 50 10 95 / न्याय मा० 50 58 / प्रमेयक पृ० 351 / स्या० र० पृ० 511 / / 1 उत्पधेत आ०, 10 / 2 उपलम्भप्रभ-ब० /