________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० सम्बन्धित्वेन धूमस्तत्र प्रतिभासेत, अनियताखिलाग्निसम्बन्धित्वेन वा ? प्रथमपक्षे कथं प्रथमदर्शने व्याप्तिप्रतिपत्तिः ? प्रतिनियतव्यक्ती व्याप्तेरेवाऽसंभवात् , तस्याः सर्वाक्षेपेण पर्यवसानात् / द्वितीयपक्षे तु आस्तां प्रथमप्रत्यक्षम् , प्रत्यक्षशतैरपि न व्याप्तिः प्रत्येतुं शक्या, तेषां सम्बद्धवर्तमानार्थगोचरचारितया 'यावान् कश्चिद् धूमः स सर्वोs5 ग्नौ एव' इति सर्वाक्षेपेण अविनाभावप्रतिपत्तावसमर्थत्वात् / एतेन 'भूयोदर्शनसहायमाद्यप्रत्यक्षं व्याप्ति प्रतिपद्यते' इत्ययमपि पक्षः प्रत्युक्तः / नाप्यन्वयव्यतिरेकसहकृतं तत् तां प्रतिपत्तुं समर्थम् ; यतः तत्सहस्रकृतस्याप्यस्य यत्रैव स्वयं प्रवृत्तिः तत्रैव तत्प्रतिपत्तिर्घटते न पुनः 'यत्र यत्र धूमः तत्र तत्र अग्निः, यत्र अग्निर्नास्ति तत्र धूमोऽपि नास्ति' इति सर्वाक्षेपेण, तत्रं च व्याप्तिप्रतिपत्तेर्वैयर्थ्यम् / 10 अनुमानार्थं हिं सौ इष्यते, प्रत्यक्षेण च प्रतिपन्ने साध्यसाधनव्यक्तिविशेषे किमनुमानेन ? अन्वयव्यतिरेकसहकृतत्वश्चास्य स्वविषयातिक्रमेण अर्थान्तरे प्रवृत्तिः, स्वविषये प्रवर्तमानस्य अतिशयाधानं वा ? प्रथमपक्षे प्रत्यक्षविरोधः, स्वार्थातिक्रमेण अर्थान्तरे. प्रवृत्तिलक्षणसहकारित्वस्य कचिदप्यप्रतीतेः / न खलु प्रदीपसहकृतं चक्षु रसादौ प्रवर्त्त मानं प्रतीयते / स्वविषये प्रवर्त्तमानस्यातिशयाधानञ्च अध्यक्षस्य व्याप्तिविषयत्वे 15 सिद्धे सिद्ध्येत् / तच्चे असिद्धम् , सम्बद्धवर्तमानार्थविषयत्वात्तस्य / न च तत्सहकृत स्यापीन्द्रियजाध्यक्षस्य कश्चनोत्कर्षो जायते, येन स्वविषयातिक्रमेणाप्यर्थान् गृह्णीयात् / ___एतेन 'भूयोदर्शनावगताऽन्वयव्यतिरेकसहकृतेन्द्रियप्रभवं प्रत्यक्षं व्याप्ति प्रतिपद्यते' इति प्रत्युक्तम् / किश्च, 'इन्द्रियविषये विद्यमानत्वात् तत्प्रभवप्रत्यक्षेण व्याप्तिः प्रतीयते, खविषयत्वाद्वा? न तावद् विद्यमानत्वात् ; रसादेरपि चाक्षुषत्वानुषङ्गात्, व्याप्तिवद् धूमादौ 20 तत्सत्त्वस्याप्यविशेषात् / नापि स्वविषयत्वात् / तस्याः तद्विषयत्वानुपपत्तेः / अंनियतविषया हि व्याप्तिः, [ तां ] कथं नियतविषयमिन्द्रियप्रभवं प्रत्यक्षं प्रतिपद्येत ? (१)तुलना-"यतः पुरोदृश्यमानाग्निसम्बन्धित्वेन धूमः प्रथमप्रत्यक्ष प्रतिभासेत, सकलाग्निसम्बन्धित्वेन वा ?"-स्या० 2010 510 / (2) व्याप्तेः / (3) प्रत्यक्षाणाम्। (4) सत्येव भवति अग्न्यभावे तु कदाचिदपि न भवतीत्यध्याहार्यम् / (5) पृ० 428 पं०७। (6) प्रत्यक्षम् / (7) सहसशः अन्वयव्यतिरेकसहकृतस्यापि प्रत्यक्षस्य / (8) व्याप्ति / (9) प्रत्यक्षविषयीभते धमाग्निव्यक्तिविशेषे। (10) व्याप्तिप्रतिपत्तिः / (11) तुलना-"अन्वयव्यतिरेकसहकृतत्वं हि प्रत्यक्षस्य स्वविषयातिक्रमेण अर्थान्तरे प्रवृत्तिः, स्वविषये प्रवर्त्तमानस्य अन्वयव्यतिरेकाभ्यामतिशयाधानं वा ?"-स्या०र० पृ० 511 / (12) अध्यक्षस्य व्याप्तिविषयत्वम् / (13) अन्वयव्यतिरेकसहकृतस्य / (14) पृ० 428 पं०८। (15) तुलना-"किञ्च, इन्द्रियविषये विद्यमानत्वात् तत्प्रभवप्रत्यक्षेण व्याप्तिः प्रतीयते, स्वविषयत्वाद्वा ?"-स्या० 2010 511 / (16) इन्द्रियप्रभव / (17) यथा धूमादिषु व्याप्तिरस्ति एवमाम्रादौ रसादित्वमपि-आ० टि०। (18) व्याप्तेः / (19) प्रत्यक्षविषयत्वानपपत्तेः। (20) तुलना-"अनियतविषया हि व्याप्तिरिति कथं नियतविषयेन्द्रियप्रभवप्रत्यक्षतां प्रतिपद्येत"-स्या० 20 पृ०५११॥ 1 स्वे विषये ब० /