________________ प्रमाणप्र० का० 11 ] तर्कप्रामाण्यवादः 426 हि व्याप्तिरुल्लिख्यते / अनुसन्धानञ्च सकृदेकेन सहितस्यै ग्रहणे अनु पश्चाद् अॅपरेण सहितस्यैव ग्रहणम् / एतच्च भूयोदर्शनाऽदर्शनैरेव उत्पद्यते / अन्वयव्यतिरेको च प्रयोजकसन्देहव्युदासार्थों युक्तावेव / अनेकसहचारिदर्शने हि प्रयोजके सन्देहः-'किं धूमत्वप्रयुक्तोऽयं नियमः, किं वा ताणत्वश्यामत्वादिप्रयुक्तः ?' इति / तत्र तार्णत्वादयः सम्बन्धिनो व्यभिचारिणः, श्यामत्वादयस्तु धूमापेक्षाः, इति धूमस्य अग्निसम्बन्धित्वे / धूमत्वमेव प्रयोजकम् / तस्मिन् सति न कदाचिदग्नित्वं व्यभिचरतीति भूयोदृष्टान्वयव्यतिरेकवतो विस्फारिताक्षस्य अनुपरतेन्द्रियव्यापारस्य अपरोक्षाकारतया उपजायमानत्वात् विशिष्टदण्ड्यादिप्रत्ययवत् प्रत्यक्षमेवेदं व्याप्तिज्ञानमिति / अत्र प्रतिविधीयते। यत्तावदुक्तम्-प्रत्यक्षेणैव अविनाभावः प्रतीयते' इत्यादि। तत्प्रतिविधानपुरस्सरं पर तेत्र किम् ऐन्द्रियम् , मानसं वा प्रत्यक्षं तद्हणे प्रवर्तेत ? न तावद् 10 किम् पार व्याप्तिग्रहणार्थं तर्क- ऐन्द्रियम् ; त द्धि येनार्थेन प्रतिनियतदेशकालादिना इन्द्रियं सम्बध्यते स्यैव प्रथक् प्रामाण्य- तमेव अवभासयति न तु व्याप्तिम् , तस्याः सकलदेशकालकलासमर्थनम्- परिगताक्षेपेण अवस्थितत्वात् / सौ हि गृह्यमाणा त्रैलोक्योदरवतिनाम् अतीतानागतवर्तमानाऽशेषार्थानामुपसंहारेण गृह्यते / यतो व्यापनं व्याप्तिः, सर्वासां व्याप्यव्यक्तीनां व्यापकव्यक्तीनाश्च व्याप्यरूपतया व्यापकरूपतया च क्रोडी- 16 करणम् / न च तत्रै इन्द्रियस्य सम्बन्धो ग्रहणसामार्थ्यं वा संभवति; वर्तमाने नियत एवार्थे तत्संभवात् / न च विश्वोदरवर्त्तिन्यो व्यक्तयः सर्वाः तेन सम्बद्धा वर्तमाना वा, तत्कथं प्रत्यक्षतस्तत्र व्याप्तिप्रतिपत्तिः ? किञ्च, प्रत्यक्षमात्रम् , भूयोदर्शनसहायम् , अन्वयव्यतिरेकसहकृतं वा प्रत्यक्षं व्याप्तिग्रहणे प्रभवेत् ? न तावत् प्रत्यक्षमात्रम् ; भूभवनवर्द्धितोत्थितमात्रस्य प्रथमाऽग्निधू- 20 मव्यक्तिदर्शनेऽपि व्याप्तिप्रतिपत्तिप्रसङ्गात् / यदप्युक्तम्-प्रथमप्रत्यक्षेपि अग्निसम्बन्धित्वेनैव धूमस्य प्रतिभासनात् तद्गतो नियमोऽपि प्रतिभासते' इत्यादि; तदप्यसमीक्षिताभिधानम् ; यतः पुरोदृश्यमाने नियताग्नि (1) महानसाग्निना-आ० टि० / (2) धूमस्य / (3) चत्वराग्निना / (4) अनुसन्धानम् / (5) अन्वय-आ० टि।(६) व्यतिरेक-आ०टि०। (7) तृणनिर्मितकटादिष्वपि भावात् / (8) 10428 पं०३ / (9) तुलना-"तत्र किमन्द्रियं मानसं वा प्रत्यक्षं व्याप्तिग्रहणे प्रवर्तते।"-स्या० 2050510 / (10) तुलना-"नतावत्प्रत्यक्षम् ; सन्निहितदेशवर्तमानकालवस्तुविषयनियमात् / येन हि प्रमाणेन सर्वदेशेषु च धूमादीनामग्न्यादिसम्बन्धोऽवगम्यते, तेन तेषां सम्बन्धनियमोऽवगम्यते / न च प्रत्यक्षं तत्र समर्थम् ।"-प्रक० पं० पृ० 68 / अष्टसह० पृ० 43 / प्रमेयक० पृ० 346 / स्या० र० पृ० 510 / चित्स०प० 238 / (11) सर्वोपसंहारेण / (12) व्याप्तिः / (13) सर्वव्याप्यव्यापकव्यक्तिष / (14) सम्बन्ध-ग्रहणसामर्थ्ययोः संभवात् / (15) इन्द्रियेण / (16) विश्ववर्तिषु व्याप्यव्यापकव्यक्तिषु / (17) भूमिगृह-आ० टि० / (18) पृ० 428 पं० 3 / ( 19 ) समक्षीभूते महानसादौ / 1 विशिष्टंद-आ०।