________________ 428 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० कस्यचित् परोक्षत्वात् , अपरस्य ज्ञानान्तरवेद्यत्वेन अनवस्थानात् , अन्यस्य क्षैणिकत्ववदकिञ्चित्करत्वात् / अत्र यौगा ब्रुवते - साध्यसाधनयोरविनाभावः प्रत्यक्षेणैव प्रतीयते। प्रथमप्रत्यप्रत्यक्षेणैव अविना- क्षेऽपि अग्निसम्बन्धित्वेनैव धूमस्य प्रतिभासनात् तद्गतो नियमोऽपि भावस्यावगतिरिति प्रतिभासत एव / न च तंत्राप्यन्यतोऽपि, अन्यत एव वेति संशयवियौगानां पूर्वपक्ष:- पर्ययौ स्तः; 'अग्नेरेव अयम्' इति तत्सम्बन्धित्वेनैव अस्योऽवसायात्। इत्थं प्रथमप्रत्यक्षेण व्याप्तौ प्रतिपन्नायाम् अन्वयव्यतिरेको भूयसोपलभ्यमानौ तस्यैव ज्ञानस्य दायमुत्पादयतः / भूयोदर्शनावगतान्वयव्यतिरेकसहकृतेन्द्रियप्रभवं वा प्रत्यक्षं व्याप्तिं प्रतिपद्यते। ननु यदि प्रथमप्रत्यक्षेणैव व्याप्तिः प्रतीयते तर्हि किमित्ययमनेन नियत 10 इत्येवंरूपा तदानीमेव व्याप्तिप्रतीतिर्नोत्पद्यते इति चेत् ? सामग्र्यभावात्। अनुसन्धानेन (1) मीमांसकस्य, ऐन्द्रियस्य मानसस्य - आ० टि०। (2) नैयायिकस्य / (3) सौगतमते, स्वलक्षणस्य-आ० टि०। (4) यथा हि क्षणिकांशे निर्विकल्पक सञ्जातमपि न तनिश्चिनोति अतः. क्षणिकांशे अकिञ्चित्करं निर्विकल्पकं तथैव नीलाद्यंशेऽपि / (5) “लिलिङ्गिसम्बन्धदर्शनमाद्यं प्रत्यक्षम्"-न्यायवा० पृ० 44 / (6) धूमेऽपि / (7) अयं धूमः किमग्नेर्जातः उत अन्यस्मादपि करणात् इति संशयः / (8) धूमोऽयम् अग्निव्यतिरिक्तादन्यस्मादेव कस्माच्चित् कारणाज्जात इति विपर्ययः / (9) अग्निसम्बन्धित्वेनैव / (10) धूमस्य / (11) "भूयोदर्शनगम्या च व्याप्तिः सामान्यधर्मयोः / ज्ञायते भेदहानेन क्वचिच्चापि विशेषयोः / / " -मी० श्लो० अनु० श्लो० 12 / “न ह्यन्यथानुपपत्तिः प्रत्यक्षसमधिगम्या / कार्याव्यभिचारसमधिगम्या हि सा। अव्यभिचारश्च असकृद्दर्शनपूर्वकः / -बृहती० पृ० 111 / बृह० पं० पृ०९६ / प्रक० पं० पृ०७०। न्याय० मा० पु० 72 / “भूयोदर्शनबलादग्निधूमयोर्देशादिव्यभिचारेऽप्यव्यभिचारग्रहणम्'-प्रश० व्यो० प०५७०। "तस्मादभिजातमणिभेदतत्त्ववत् भूयोदर्शनजनितसंस्कारसहितमिन्द्रियमेव धूमादीनां वह्नयादिभिः स्वाभाविकसम्बन्धग्राहीति युक्तमुत्पश्यामः / एवं मानान्तरविदितसम्बन्धिषु मानान्तराण्येव यथास्वं भूयोदर्शनसहायानि स्वाभाविकसम्बन्धग्रहणे प्रमाणान्युन्नेतव्यानि ।"-न्यायवा० ता० 10 167 / ता०प०१० 697 / “तदनेन अन्वयव्यतिरेकावेव भूयोदर्शनसहचारिणौ तद्ग्रहणोपाय इति दर्शितम् / भयोदर्शनं हि तज्ज्ञानजनितसंस्कारसहितमिन्द्रियमुच्यते / मणिभेदतत्त्वञ्चात्र स्फुटमुदाहरणम् / तथाहि-मणिययविषयस्तत्तद्वयवहारविषयो भवति धारयितुः तत्तत्फलसम्पादकश्चोन्नीयते ते सूक्ष्मविशेषाः परीक्षकेण भूयोभिरेव दर्शनैरुनीयन्ते तथात्रापि / प्रथमं हि काकतालीयव्युदासाय ततः सातत्योर्ध्वगमनविशेषनिश्चयाय ततश्चोपाधिनिरासाय।"-प्रश० किर० पृ० 295 / “सहभावदर्शनजसंस्कारसहकारिणा निरस्तप्रतिपक्षशंकेन चरमप्रत्यक्षेण धूमसामान्यस्य अग्निसामान्येन स्वभावमात्राधीनं सहभावं निश्चित्य इदमनेन नियतमिति नियम निश्चिनोति / यद्यपि प्रथमदर्शनेऽपि सहभावो गृहीतः तथापि न नियमग्रहणम् / न हि सहभावमात्रान्नियमः अपि तु निरुपाधिकसहभावात् / निरुपाधिकत्वञ्च तस्य भूयोदर्शनाभ्यासावज्ञेयमित्येतेन भूयःसहभावग्रहणबलभुवा सविकल्पकप्रत्यक्षेण सोऽध्यवसीयते ।"-प्रश० कन्द० पृ० 209 / “व्यभिचारज्ञानविरहसहकृतं सहचारदर्शनं व्याप्तिग्राहकम् / ज्ञानं निश्चयः, शंका च / सा च क्वाचिदुपाधिसन्देहात, क्वचिद्विशेषादर्शनसहितसाधारणधर्मदर्शनात् / तद्विरहश्च क्वचिद्विपक्षबाधकतर्कात् क्वचित स्वतः सिद्ध एव ।"-तत्त्वचि० अनु० पृ० 210 / 1-भासमानात ब012न तत्रा-श्र०॥ तत्रान्यतोप्यन्यत एवेति आ०, तत्राप्यन्यक्त एवेति ब०।