________________ प्रमाणप्र० का 011] तर्कप्रामाण्यवादः 427 विवृतिः-नहिं प्रत्यक्षं 'यावान् कश्चिद्भूमः कालान्तरे देशान्तरे च पावकस्यैव कार्य नार्थान्तरस्य' इति इयतो व्यापारान् कत्तुं समर्थ सन्निहितविषयबलोत्पत्तेरविचारकत्वात् / नाप्यनुमानान्तरम् ; सर्वत्राऽविशेषात् / नहि साकल्येन लिङ्गस्य लिङ्गिना व्याप्तेरसिद्धौ क्वचित किञ्चिदनुमानं नाम / "तन्ने अप्रत्यक्षम् अनुमानव्यतिरिक्तं प्रमाणम्" [ ] इत्ययुक्तम् / लिङ्गप्रतिपत्तेः प्रमाणान्तरत्वात् / / लिङ्गं हि साध्येन साधनस्य अविनाभावोऽभिधीयते, तस्मिन् सत्येव लिङ्गस्य लिङ्गत्वोपपत्तेः। तस्य प्रतिपत्तिः किं प्रत्यक्षात् , अनुमानतो वा स्यात् ? प्रत्यक्षाच्चेत् ; किम् अस्मदादिसम्बन्धिनः, योगिसम्बन्धिनो वा ? प्रथमपक्षे किं स्वसंवेदनात्, इन्द्रियजात् , मानसाद्वा ततोऽसौ प्रतीयेत ? न तावत् स्वसंवेदनात् ; तस्य स्वरूपमात्रविषयतया * बहिरर्थवानिभिज्ञत्वात् / इन्द्रियमनःप्रभवादपि प्रत्यक्षात् सविकल्पात् , 10 निर्विकल्पाद्वा अविनाभावः प्रतीयेत ? तत्राद्यविकल्पोऽनुपपन्नः; सविकल्पकप्रत्यक्षस्य सौगतैः प्रामाण्यानभ्युपगमात्। तदभ्युपगमेऽपि न तत्तत्र समर्थम् , इत्याह-'न प्रत्यक्षम इत्यादि / प्रत्यक्षं सौगतयोगकल्पितं मानसेन्द्रियलक्षणम् तन्न 'यावान् कश्चिद् धूमः कालान्तरे देशान्तरे च पावकस्यैव कार्य नार्थान्तरस्य' इति इयतो व्यापारान् / कर्तुं समर्थम् / कुत एतत् ? सन्निहितविषयबलोत्पत्तेः। सन्निहितः अविप्रकृष्ट- 15 देशकालो यो विषयः अग्निधूमादिः साध्यसाधनव्यक्तिलक्षणः तस्य बलं सामर्थ्य तेन उत्पत्तेः। एतेन निर्विकल्पकमपि न तँत् ततः तत्रं समर्थमिति प्रतिपत्तव्यम् / अत्रैव हेत्वन्तरमाह-अविचारकत्वात् इति / न विद्यते विचारः ‘यावान् कश्चिद् धूमः स सर्वोऽग्नेरेव कार्य नार्थान्तरस्य' इति परामर्शो यस्य निर्विकल्पकप्रत्यक्षस्य तस्य भावात् तत्त्वात् / चशब्दोऽत्र समुच्चयार्थो द्रष्टव्यः। कथमस्याऽविचारकत्वमिति चेत् ? 20 व्याप्तिनिर्णय इति चेत् ; सोयं परस्पराश्रयदोषः। तन्नानुमानमपि व्याप्तिग्राहकमिति तद्ग्राहकं प्रमाणान्तरं तर्काख्यम् आजसं पारमाथिकं न मिथ्याविकल्पात्मकमभ्युपगन्तव्यम् , अन्यथा अनुमानप्रामाण्यायोगात् ।"-लघी० ता० पृ० 30 / / (1) तलना- यदाह नहीदमियतो व्यापारान कत्तं समर्थमिति ।"-प्रमाणवा० स्वव० टी० 141 / "न हि कस्यचित् साकल्येन व्याप्तिज्ञानं प्रत्यक्षं क्वचित् कदाचिद् भवितुमर्हति सन्निहितवि षयबलोत्पत्तेरविचारकत्वात् ।"-सिद्धिवि०, टी०पू०१५६। अष्टश०, अष्टसह० पृ० 119 / “यथाहु:... न हीदमियतो व्यापारान कत्तुं समर्थ सन्निहितविषयबलेनोत्पत्तेरविचारकत्वात् ।"-शां० भा० भामती 10766 / न्यायवा० ता०पृ०१३७ / (2) उद्धृतमिदम्-प्रमाणसं० पृ० 101 / (3) तुलना-“सन्निकृष्टविप्रकृष्टयोः साकल्यनेदन्तया नेदन्तया वा व्यवस्थापयितुकामस्य तर्कः परं शरणम ।"-सिद्धिवि०टी० पृ० 293 A. (4) अविनाभावे / (5) अविनाभावः। (6) सविकल्पकप्रत्यक्षम् अविनाभावग्रहणे / (7) प्रत्यक्षम-आ० टि०। (8) सन्निहितविषयबलोत्पत्ते:-आ०टि। (9) व्याप्तिग्रहणे-आ० टि०। 1 इति यतो ज० वि०। 2-नुमान्त-ई० वि०। 3 व्यप्तिरसि-ज० वि०। 4 प्रतीयते श्र०। / तत्त्वाच्च चशब्दो आ०, ब०।