________________ 426 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० तत्काले तद्वाहकाभावश्च तत्कारणाभावात् सिद्धः। व्याप्तिज्ञानस्य हि कारणम् प्रत्यक्षानुपलम्भौ / न च प्रथमदर्शनकाले तौ स्तः / न च ग्राहकाभावात् तँदा व्याप्तेरप्यभावः; तदा ग्राहकाभावस्य अन्यथासिद्धत्वात्, अन्यथा दूरे रूपदर्शनकाले रसस्याप्यभावः स्यादैविशेषात् / तँदा व्याप्तेरभावे च कथं पश्चात् प्रतिभासेत खपुष्पवत् ? अथ अन्वयव्यतिरेकवशात् प्रतिभासेत; ननु अन्वयव्यतिरेकाभ्यां सौ किं जन्यते, ज्ञाप्यते वा ? न तावजन्यते, 'तौ हि प्रमाणम् , न च प्रमाणं प्रमेयमुत्पादयति / अथ ज्ञाप्यते; तत्रापि किं तत्कौंले सती सा ज्ञाप्यते, प्रागपि वा ? तत्काले चेत् ; न; अन्वयव्यतिरेककाल एव व्याप्तेः सत्त्वे कारणाभावात्। अथ प्रागपि सती ज्ञाप्यते; सिद्धं तर्हि. प्रथमदर्शनकालेऽपि व्याप्तेः सत्त्वमिति कथं सा तद्वाहकतर्कश्च अपह्नयेत ? प्रतीयमा10 नस्याप्यपह्नवे रूपादेः तद्ब्राहकज्ञानस्य वाऽपह्नवः स्यात् / ततः सिद्धः तर्कः प्रमाणम् / एतदेवाह-चिन्ता प्रमाणम् अभिनिबोधस्य फलस्य हेतुत्वात् / अस्य पर्यायमाहअनुमानादेरिति / किन्नाम इदमुक्तलक्षणं प्रमाणम् ? इत्यत्राह-श्रुतज्ञानम् इति। कुत एतत् ? शेषम् अस्पष्टं यतः, 'शब्दानुयोजनात्' इत्येतन्मध्ये करणात् अनेन च सम्बध्यते / तद्योजनात् यत् पूर्वम् अर्वाग् अस्पष्टम् तद्योजनाच्च यच्छेषमस्पष्टं तत् सर्व श्रुतज्ञानमिति / 15 तच्च अनेकप्रभेदम् शब्दयोजनान्वितेतराऽस्पष्टज्ञानव्यक्तिभेदानामानन्त्यादिति / . ननु व्याप्तिप्रतीत्यर्थ तर्कलक्षणप्रमाणाभ्युपगमोऽनुपपन्नः; प्रत्यक्षतोऽनुमानतो वा तस्याः प्रतीतिसिद्धेः इत्याशङ्का निराकुर्वन्नाह अँविकल्पधिया लिङ्ग न किञ्चित् सम्प्रतीयते // 11 // नानुमानादसिद्धृत्वात् प्रमाणान्तरमाञ्जसम् / (1) प्रथमं धूमाग्निदर्शनकाले। (2) तर्कस्य / “तुलना-व्याप्तिज्ञानस्य हि कारणमुपलम्भानुपलम्भौ, न च प्रथमदर्शनकाले तौ स्तः ।"-स्या० र० पृ० 508 / (3) साध्यसाधनसद्भावविषयकं ज्ञानं प्रत्यक्षम, साध्याभावसाधनाभावगोचरञ्च ज्ञानमनपलम्भः। (4) प्रथमदर्शनकाले / (5) अप्रयोजकत्वात्। (6) यदि ग्राहकाभावाद् वस्तुनोऽभावः स्यात्तदा / (7) रसग्राहकस्य रासनप्रत्यक्षस्य अभावात् / (8) प्रथमदर्शनसमये। (9) भूयोदर्शनानन्तरम्। (10) उपलम्भानुपलम्भाभ्याम् / (11) व्याप्तिः / (12) अन्वयव्यतिरेकग्राहिणौ उपलम्भानुपलम्भावेव अत्र अन्वयव्यतिरेकशब्देन विवक्षितौ विषययिधर्मस्य विषयेप्युपचारात्। (13) अन्वयव्यतिरेककाले। (14) चाक्षुषादिप्रत्यक्षादेः / (15) शेषशब्देन / (16) निर्विकल्पकप्रत्यक्षेण / (17) अविनाभावः (18) व्याप्तिग्रहणात् पूर्वमलब्धात्मलाभत्वात् / (१९)तर्काख्यम् / (२०)“लिङ्गं साध्यसाधनयोरविनाभावः / किञ्चिद् ईषदपि / न सम्प्रतीयते न सामस्त्येन ज्ञायते। कया ? अविकल्पधिया निर्विकल्पकप्रत्यक्षेण सौगताभिप्रेतेन, यावान् कश्चिद्धूमः स सर्वोप्यग्निजन्मैव अनग्निजन्मा वा न भवतीत्येतावद्विकल्पविकलत्वात्तस्य अन्यथा सविकल्पकत्वापत्तेः / नाप्यनुमानात्; तस्यैवासिद्धत्वात् व्याप्तिग्रहणपूर्वकत्वादनुमानोत्थानस्य / अनुमानान्तरात्तत्राप्यविनाभावनिर्णये चानवस्थाप्रसङ्गात् / प्रथमानुमानात् द्वितीयानुमाने _1-भावे तदा श्र०। 2-भासते श्र०, ब०। 3-हकस्तर्क-श्र०, ब०। 4 अन्येन आ०। 5 सम्बध्येत श्र०।