________________ प्रमाणप्र० का० 10] तर्कप्रामाण्यवादः 425 धूमस्य नियमेन निवर्तमानत्वमसिद्धम् , गोपालघटिकादौ तेदभावेऽपि तत्सद्भावप्रतीतेः; इत्यष्यसत् ; तत्रापि तत्सद्भाव एव तद्भावसंभवात् / धूमस्य हि भाव; आत्मलाभः, स च अग्नौ सत्येव संवृत्तः, तत्कथं तंत्र अग्न्यभावे धूमसद्भावाशङ्कापि ? तर्हि पर्वतादाविव गोपालघटिकादावपि धूमोऽग्निं गमयेत् ; इत्यप्ययुक्तम् ; पर्वतादिधूमादस्य वैलक्षण्यात् / वह्निसमानसमयसत्ताको हि पर्वतादिधूमो बहलपताकायमानस्वरूपोऽनुभूयते, 5 न चायं तथा, अतो नास्य अग्न्यनुमापकत्वम् / यदप्युक्तम्-'अविनाभावे सत्यपि न धूमात् पैङ्गल्यमनुमीयते' इत्यादि; तदप्यसङ्गतम् ; यतो व्याप्त्यनुसारेण अनुमानं विधीयते, व्याप्तिश्च अग्नित्व-धूमत्वद्वारेणैवावसीयते न पैङ्गल्यादिधर्मद्वारेण, तेषामानन्त्यात् व्यभिचाराच्च / पैङ्गल्यं हि हरितालकाञ्चनादौ व्यभिचरदुपलभ्यते, भासुरत्वं सूर्य-तारका-तडिदादौ, द्रव्यत्वं नवस्वपि द्रव्येषु, 10 ऊर्ध्वगतित्वं वात्यादौ, इति अग्निगतानां धर्माणां व्यभिचारः / तथा धूमगतानामपि; तथाहि-श्यामत्वं नीलाञ्जनादौ, कटुकत्वं त्रिकटुकादौ, अक्षिविकारकारित्वं कटुतैलादौ, कण्ठग्राहित्वम् अपक्कजम्बूफलादौ, ऊर्ध्वगतित्वं वाष्पादौ साधारणं दृश्यते / अतो येन एकेनैव रूपेण त्रैलोक्योदरवर्त्तिन्यो वह्निव्यक्तयो धूमव्यक्तयः तद्धर्माश्च संगृह्यन्ते तदेव रूपं व्याप्तिं नियमेन व्यवस्थापयति, तञ्च अग्नित्वधूमत्वे मुक्त्वा नान्यद् भवितुमर्हति / 15 न खलु यथा वस्त्वन्तरसाधारणाः पैङ्गल्यादयः तथा अग्नित्व-धूमत्वे / तद्वाचके चोच्चरिते शब्दे प्रतिपत्रा त्रैलोक्यविलक्षणः स्वधर्मकलापकलितोऽग्निः धूमश्चार्थ: संगृह्यते इति सिद्धा तेद्वारेण व्याप्तिः साध्यसाधनयोः / ननु यदि अनयोः वस्तुतो व्याप्तिरस्ति तर्हि प्रथमदर्शनकाले कस्मान्नोल्लिखतीति चेत् ? ग्राहकाभावात् / यत्काले यद्बाहकं नास्ति तत्काले तन्न प्रतिभासते यथा रूपद- 20 र्शनकाले रसः, अग्निधूमयोः प्रथमदर्शनकाले नास्ति च व्याप्तिग्राहकं ज्ञानमिति / (1) इन्द्रजालघटादौ / “गोपालघुटिकादिषु"-प्रश० व्यो० पृ० 571 / स्या० र० पृ० 507 / (2) अग्न्यभावेऽपि धूमसद्भावप्रतीतेः / (3) अग्निसद्भाव एव / ( 4 ) इन्द्रजालघटादौ / (5) गोपालघटिकागतधूमस्य / तुलना-"पर्वतादिधूमादस्य वैलक्षण्यात् / वह्निसमानसमयसत्ताको हिपर्वतादिधूमो बहलः पताकायमानस्वरूपोऽनुभूयते "-स्या० र० पृ० 507 / (6) पृ० 422 पं० 5 / (7) तुलना-"यतो व्याप्त्यनुसारेणानुमानं विधीयते, व्याप्तिश्चाग्नित्वधूमत्वद्वारेणैवावसीयते"स्या० र० पृ० 507 / (8) वात्या-वातूल: 'बवण्डर आंधी' इति भाषायाम् / (9) त्रयाणां कटूनां शुण्ठीमरीचपिप्पलीनां समाहारः त्रिकटुकम् “विश्वोपकुल्या मरिचं त्रयं त्रिकटु कथ्यते। कटुत्रयं तु त्रिकटु त्र्यूषणं ब्योष उच्यते॥"-भाव प्र० 5 / 60 / (10) हरितालसुवर्णादयो वस्त्वन्तरम् / (11) अग्निधूमप्रतिपादके / (12) अग्नित्वधूमत्वद्वारेण / (13) अग्निधूमयोः / 1-भावे तत्स-श्र०, ब०। 2 धमस्य श-श्र०। 3-धमस्य वै-श्र०। 4 नीलोत्पलाञ्जनादौ ब०। 5 एकेन स्वरूपेण ब०। 6 तदेकं रू-श्र०। 7 अग्निधूमत्वे श्र०। 8 सिद्धान्तद्वारेण ब० / 9 नास्ति व्या-आ० / 10-कं तख्यिं ज्ञानमिति ब०।।