________________ 424 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० अग्न्यभावे धूमोऽपि क्वचिदुपलभ्येत / यस्य येन विना नानुपपत्तिर्न स तेन नियतः यथा धूमाभावेप्युपपद्यमानोऽग्निर्न धूमेन नियतः, अग्निना विनाऽनुपपत्तिश्च धूमस्य, तस्मादसौ तन्नियत इति / यदप्युक्तम्-'अग्न्यभावस्य पारमार्थिकत्वे धूमस्याविद्यमानत्वान्न तदाश्रिता व्याप्ति। प्रहीतुं शक्या' इति; तदप्यसमीचीनम् ; यतो यत्रैव देशे काले वा वास्तवोऽग्न्यभावः तत्रैव धूमस्य अविद्यमानत्वं न सर्वत्रेति कथं तैदाश्रिता व्याप्तिः प्रत्येतुमशक्या ? यदपि-'एकस्याग्नेरभावे धूमो नोपपद्यते सर्वस्य वा' इत्याद्युक्तम् ; तदप्ययुक्तम् ; येतो व्याप्तिः सर्वाक्षेपेण प्रतीयते 'यः कश्चिद् धूमः स सर्वोऽग्न्यभावेऽनुपपन्नः' इति, न पुनः एकैकधर्म्युल्लेखेन 'पर्वते गृहे अरण्ये वा धूमोऽग्न्यभावेऽनुपपन्नः' इति / तथा तत्प्रतिपत्तौ अनन्तेनापि कालेन व्याप्तिप्रतिपत्तिर्न स्यात् धर्मिणामानन्त्यात् / अनुमानवैफल्यप्रसङ्गाच्च, अग्निधूमवतामशेषाणां धर्मिणां व्याप्तिग्रहणकाल एव गृहीतत्वात् / ___ न च सर्वाग्निष्वगृहीतेषु धूमानुपपत्तेर्विशेषणभूतः तँदभावो ग्रहीतुमशक्य . इत्यभिधातव्यम् / यतः तदभावः तदन्यदेशादिस्वभावः, भावान्तरस्वभावत्वादभावस्य, तुच्छस्वभावाऽभावस्य निराकरिष्यमाणत्वात् / स चाखिलाग्निविविक्तो देशाँदिः प्रत्य15 क्षत एव प्रतीयते / व्यवहार एव हि प्रतियोगिग्रहणसव्यपेक्षः न स्वरूपप्रतिपत्तिः, कथमन्यथा घटादेरपि प्रतिपत्तिः स्यात् तत्स्वरूपस्यापि त्रैलोक्यविलक्षणतया त्रैलोक्याप्रतिपत्तावप्रतिपत्तिप्रसङ्गात् ? ___ यच्च-'अग्न्यभावाभावेऽपि कचिधूमाभावे धूमसद्भावस्य विरोधो दृष्टः' इत्याद्यभिहितम् ; तदप्यभिधानमात्रम् : अग्न्यभावे सति धूमसद्भावस्य नियमेन निवर्तमानत्वात् तद्विरोधे स्वाभावस्येव अग्न्यभावस्यापि निमित्तत्वोपपत्तेः / यद् यस्मिन् सति नियमेन निवर्त्तते तत्तद्विरोधनिमित्तम् यथा उष्णस्पर्शसद्भावे शीतस्पर्शः, नियमेन निवर्तते चाग्न्यभावे धूमसद्भावः, तस्माद् धूमविरोधस्यासौ निमित्तमिति / ननु अग्न्यभावे (1) पृ० 42150 11 / (2) महाह्रदादौ। (3) धूमाश्रिता। (4) पृ०४२१ पं० 19 / (5) तुलना-"तत्र सर्वस्येति ब्रमः, यतो धमानुपपत्तिः सर्वाक्षेपेण प्रतीयते यावान् कश्चिद् धूमः स सर्वः सर्वस्याग्नेरभावेऽनुपपन्नः"-स्या० र० पृ० 506 / (6) प्रतिनियतमिव्यक्तिनिर्देशेन व्याप्तिप्रतीतौ आनन्त्यं बाधकम् तदाह तथेति / (7) अग्न्यभावः-आ० टि०। (8) अग्न्यभावः-आ० टि० / तुलना-"यतोऽग्न्यभावः तदन्यदेशादिस्वभावः भावान्तरस्वभावत्वादभावस्य ।"-स्या० 10 10507 / (9) तस्माद्विवक्षितवस्तुनो वढेरन्यदेशः पर्वतादिस्तद्ग्रहणस्वभाव इति-आ० टि०। (10) महाह्रदादिः / (11) अत्र घटाभावः अत्र अग्न्यभाव इति व्यवहारः / (12) स्वरूपप्रतिपत्तिरपि यदि प्रतियोगिग्रहणापेक्षा स्यात्तदा। (13) घटस्वरूपस्यापि / (14 पृ० 422602 / (१५)धूमविरोधे। (16) धूमाभावस्येव। (17) तुलना-"तस्मात् यत्सद्भावे यस्य नियमेन निवृत्तिः तेन तद्विरुद्धमेव, अग्न्यभावे च सति धूमस्य नियमेन निवर्तमानत्वात् धूमाभावेनेव तेनापि तस्य विरोधः / तथाहि यस्मिन् सति यनियमेन निवर्तते"-स्या०र० 10507 / (18) अग्न्यभावः-आ० टि० / ___1-धर्मोल्ले-ब०।2 ग्रहीतु शक्य -ब० / 3-क्ष एव ब० / 4 तद्विरोधिस्वभावस्येव अग्न्यसभावस्या-श्र०15-वस्यैव ब० /