________________ प्रमाणप्र० का 0 10 ] तर्कप्रामाण्यवादः 423 व्याप्तिः / न च देशकालयोरव्यभिचारित्वम् ; विवक्षित देशकालयोरभावेऽपि धूमादेरूपलम्भात् / _यच्चान्यदुक्तम्-'कस्य केन व्याप्तिः' इति; तत्र यस्य येन अव्यभिचारः तस्य तेन व्याप्तिः, सामान्यविशेषवतश्च धूमादेः सामान्यविशेषवताऽग्न्यादिनाऽव्यभिचारात् तस्य तेनैव व्याप्तिः, अतश्च उक्तदोषानवकाशः / गैम्यं हि व्यापकम् , गमकं व्याप्यम् / / न च केवलौ सामान्यविशेषौ गम्यगमकरूपतया अनुभूयेते, जात्यन्तररूपस्यैर्व उभयात्मनः तद्रूपतयाऽवभासनात् / यदप्यभिहितम् –'अविनाभावः सम्बन्धः, स च सम्बन्धिग्रहणपूर्वकः' इत्यादि; तदप्यनेनैव प्रत्याख्यातम् ; सामान्योपलक्षितविशेषयोाप्तः सर्वोपसंहारेणैव संभवात् / नहि तत्र आनन्त्यादिदोषोऽवकाशं लभते / __यच्चोच्यते -अविनाभावशब्दो व्यतिरेकमात्रवचनो न सम्बन्धवचनः / तदप्युक्तिमात्रम् ; यतोऽविनाभावशब्दो न व्यतिरेकमात्रे पर्यवस्यति घटाद्यभावेऽपि तत्प्रवृत्तिप्रसङ्गात् , किन्तु नियमे / स च नियमः तथोपपत्ति-अन्यथानुपपत्तिप्रकाराभ्यां व्यवस्थितः, अत: तावुभावपि अविनाभावशब्देन उच्यते, 'यत्र यत्र धूमः तत्र तत्राग्निः, यत्राग्निर्नास्ति तत्र धूमोऽपि नास्ति' इति / ननु 'यत्राग्निर्नास्ति तत्र धूमोऽपि नास्ति' 15 इत्येतत् कुतोऽवगम्यते इति चेत् ? अग्न्यभावे धूमस्य नियमेन अप्रतीयमानत्वात् तत्सद्भावनियत एवाऽसौ, अन्यथा यथा धूमाभावेऽपि क्वचिदग्निरुपलभ्यते तथा (1) तुलना-“यो यथा नियतो येन यादृशेन यथाविधः / स तथा तादृशस्यैव तादृशोऽन्यत्र बोधकः ॥"-न्याय० मा० पृ० 57 / (2) पृ० 420 पं०६। (3) तुलना-' व्याप्यस्य गमकत्वञ्च व्यापकं गम्यमिष्यते / यो यस्य देशकालाभ्यां समो न्यनोऽपि वा भवेत् // स व्याप्यो व्यापकस्तस्य समो वाऽभ्यधिकोऽपि वा / तेन व्याप्ये गृहीतेऽर्थो व्यापकस्तस्य गृह्यते ॥न ह्यन्यथा भवत्येषा व्याप्यव्यापकता तयोः।"-मी० श्लो० अनु० श्लो० 4-6 / (4) सर्वथा सामान्यविशेषाभ्यां विलक्षणजातिकस्य कथञ्चिदुभयरूपस्य इत्यर्थः। (5) गम्यगमकरूपतया। (6) पृ० 421 पं०६ / (7) धमत्वाग्नित्वविशिष्टधमाग्निव्यक्त्योः / "तुलना-"सामान्यवतोरविनाभावग्रहणाभ्युपगमात् / यद्यपि अग्निविशेषा धमविशेषाश्चानन्त्येनावस्थिताः तथापि तेष्ववस्थितमग्नित्वं धूमत्वञ्च सामान्यमुपग्राहकमस्तीति तदुपग्राहकवशात् भूयोदर्शनबलादग्निधूमयोर्देशादिव्यभिचारेऽप्यव्यभिचारग्रहणम् "-प्रश० व्यो० 50 570 / प्रश० कन्द० पृ० 210 / (8) यावान् कश्चिद्धूमः सः कालान्तरे देशान्तरे च अग्निजन्मैव अनग्निजन्मा कदापि न भवतीत्येवं प्रकारेण / तुलना-"सर्वोपसंहारवती व्याप्तिः"-तर्कभा० मो० पृ० 19 / (9) अननुगमदेशादिव्यभिचारादयः / (10) 10421 पं०८। (11) अभावसामान्ये / (12) तुलना-"अविनाभाव एव हि नियमः, साध्यं विना न भवतीति कृत्वा ।"प्रमाणवा० स्ववृ० टी० पृ० 70 / (13) तुलना-"हेतोस्तथोपपत्त्या वा स्यात्प्रयोगोऽन्यथापि वा। द्विविधोऽन्यतरेणापि साध्यसिद्धिर्भवेदिति ।"-न्यायाव० श्लो० 17 / परीक्षामु० 395 | प्रमाणनय० 3 / 28 / प्रमाणमी० 2 / 114 / (14) अग्निसद्भाव / (15) धूमस्य अग्निसद्भावनियतत्वाभावे, अग्नेर्वा धुमसद्भावनियतत्वे / (16) तप्तायोगोलकादौ / एतदन्तर्गतः पाठो नास्ति आ०। 1 जात्यन्तरस्यैव ब०। . ...