________________ ပုခု 3 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० सर्वाग्निष्वगृहीतेषु ग्रहीतुं शक्यते, अभावग्रहणस्य प्रतियोग्याश्रयग्रहणसव्यपेक्षत्वात् / अपि च कचिदग्न्यभावाभावेऽपि धूमाभावे धूमसद्भावस्य विरोधो दृष्टः, अतो नाग्न्यभावो धूमभावविरोधस्य उपाधिः, किन्तु धूमाभाव एव / अतो न व्याप्तिविचार्यमाणा घटते, तत्कथं तद्वाहिणः तर्कस्य तत्प्रभवानुमानस्य वा प्रामाण्यम् ? अस्तु 5 वा व्याप्तिः; तथापि अविनाभावे सत्यपि न धूमाद् वह्निपैङ्गल्यमनुमीयते वह्वेरेव धूमेन अनुमीयमानत्वात् / तथा नियतत्वाविशेषेऽपि धूम एव गमको न तद्गताः श्यामत्वादय इति / अत्र प्रतिविधीयते / यत्तावदुक्तम्-'व्याप्तिस्वरूपस्य' इत्यादि; तदसमीचनम् ; तत्प्रतिविधानपरस्सर यतः स्वरूपप्रयुक्तस्याऽव्यभिचारस्य व्याप्तित्वप्रतिज्ञानात् कथं तस्याः 10 तर्कस्य पृथक् प्रामाण्य- स्वरूपासंभवः ? स्वरूपं हि साध्यसाधनयोः स्वधर्मकलापकलितम् व्यवस्थापनम्- अग्नित्वं धूमत्वञ्च, तैद्धि अन्यतो देशकालाकारादेावर्त्य प्रकर्षण सम्बन्धम् आत्मन्येव योजयति / मंदधीनामेव व्याप्तिं बुध्यस्व बुध्यस्व' इत्यात्मसम्बन्धित्वेनैव व्याप्ति व्यवस्थापयत् स्वप्रयुक्तामेव व्याप्तिं बोद्धारं बोधयति / यदप्युक्तम्-देशतः कालतो वाऽविनाभावो न संभवति' इति; तदप्येतेन प्रत्युक्तम् ; 15 तद्वतः तद्वता अविनाभावस्य निर्बाधबोधाधिरूढप्रतिभासत्वात् / अव्यभिचारिणा हि (1) यस्याभावः क्रियते स: प्रतियोगी यथा अशेषाग्न्यभावे कर्तव्ये अशेषाग्निः प्रतियोगी, यस्मिन् अभावः क्रियते स आश्रयः, यथा त्रिकाले त्रिलोके च अशेषाग्न्यभावे प्रस्तुते कालत्रयं त्रिलोकश्च आश्रयः / “गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् / मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया"-[मी० श्लो० अभा० श्लो० 27 ] इत्यभिधानात् / (2) तुलना-'अपि च यत्सद्भाव एव यस्य निवृत्तिः तेनैव तस्य विरोधः, तदिह धूमाभाव एव सति धूमस्य निवृत्तिर्दृश्यत इति धूमाभावेनैव अस्य विरोधो नत्वग्न्यभावेन / केवलाङ्गाराद्यवस्थायाम अग्न्यभावाभावेऽपि धूमनिवृत्तेः प्रतीयमानत्वात् ।"-स्या० र० पृ० 505 / (3) अङ्गारावस्थापन्नाग्निमन्निधूमप्रदेशे अग्न्यभावाभावेऽपिअग्निसद्भावे सत्यपि। ( 4 ) यदि हि अग्न्यभावः धूमाभावस्य उपाधि: स्यात् तदा 'उपाध्यपाये उपाधिमतोऽभावात्' इति न्यायेन अङ्गारावस्थाग्निमत्प्रदेशे अग्न्यभावस्य अभावो विद्यते अतस्तत्र धूमाभावस्यापि अभावः प्राप्नोति, न च तत्र धूमाभावस्याभाव: धूमसद्भावरूपः समस्ति / अतः नाग्न्यभावः धूमाभावस्य विशेषणम् अपि तु धूमनिवृत्तिरेव / (5) तर्कगृहीतव्याप्तिबलोद्भूत / (6) तथा तेन अविनाभावप्रकारेण सम्बद्धत्वे समानेऽपि / (7) पृ. 420 50 1 / (8) तुलना"अविनाभावस्य साध्याव्यभिचरितत्वस्य"-प्रमाणवा० मनोरथ 03 / 1 / “स्वरूपप्रयुक्तस्याव्यभिचारस्य व्याप्तित्वप्रतिज्ञानात्"-स्या० र० पृ०५०६। जैनतर्कभा० पृ० 10 / (9) धूमत्वमग्नित्वञ्च / (१०)अग्नित्वधूमत्वप्रयुक्तामेव / (11) पृ०४२० प०२। (12) सामान्यविशेषवतो धूमादेः-आ० टि। (13) सामान्यविशेषवता अग्न्यादिना -आ० टि० / तुलना-"धूमो हि यत्र यत्रेति सामन्येनैव गृह्यते। न पुनः पर्वतेऽरण्ये गृहे वेत्येवमिष्यते ।"-न्यायमं० पृ० 111 / "देशकालौ परिपत्य स्वरूपमात्रेणैव धूमादेरग्न्यादिना सहाविनाभावस्य निर्बाधबोधाधिरूढत्वात् ।"-स्या० र० पृ० 506 / 1-पि धूमसभा-श्र० / 2-पि धूमान् श्र० / बुद्ध्यस्व 2 इ-आ० / 4-चारिणां हि श्र० /