________________ प्रमाणप्र० का० 10] तर्कप्रामाण्यवादः 421 न्यस्य पर्वतस्थेन अग्निविशेषेणाऽनुगमोऽस्ति, पर्वतस्थस्य वा महानसस्थेन / नापि विशेषाणां विशेषैर्नियमः; स हि दृष्टानां दृष्टैः, अदृष्टानामदृष्टैः, दृष्टानां वा अदृष्टैः स्यात् ? यदि दृष्टानां दृष्टैः; तदा सिद्धसाधनम् , अपूर्वव्यक्तिदर्शने च अनुमानानुपपत्तिः / अथ अदृष्टानामदृष्टैः; तत्रापि सम्बन्धग्रहणाभावादनुगमाभावाच्च कथमनुमानम् ? नापि दृष्टानामदृष्टैः; पूर्वोक्तदोषप्रसङ्गात् / किश्च, अविनाभावः सम्बन्धः, स च सम्बन्धिग्रहणपूर्वकः, सम्बन्धिनौ च द्वौ द्वौ विशेषौ, अतः कथं सर्वोपसंहारेण व्याप्तिर्ग्रहीतुं शक्या ? किश्च, अयमविनाभावशब्द: साध्याभावे साधनाभावं वदतीति व्यतिरेकमात्रवचनः, न सम्बन्धवचनः / किश्च, 'अग्न्यभावे धूमो नोपपद्यते' इति धूमानुपपत्तेः अग्न्यभावो विशेषणम् / 10 स: पारमार्थिकः, अपारमार्थिको वा स्यात् / पारमार्थिकत्वे अविद्यमानत्वात् धूमस्य न तँदाश्रिता व्याप्तिर्ग्रहीतुं शक्या, नहि अगृह्यमाणे आश्रये तदाश्रितं ग्रहीतुं शक्यमतिप्रसङ्गात् / अपारमार्थिकत्वे तु उपाधेः तदुपहितायां धूमानुपपत्तेरपि , अपारमार्थिकत्वं स्यात् , तथा चाऽनुमानस्यापि, अपारमार्थिकत्वमेव आयातम् / अथैवमुच्यते-अग्न्यभावश्चेद् धूमसद्भावस्यानुपपत्तिः, अग्न्यभावस्य धूमाभावेन व्याप्तत्वात् ; तदप्यनुप- 18 पन्नम् ; विद्यमाना गृहीता च व्याप्तिः अनुमानाङ्गम् न प्रसज्यमाना, तस्योः सत्त्वेनाप्यनिश्चितत्वात् / संभावनाज्ञानं चैतत् , न च तद् वस्तुपरिच्छेदकम् यथा 'भूमिश्चेनाभविष्यद् अपतिष्यन् पर्वताः' इति / किच, एकस्य कस्यचिदग्नेरभावे धूमो नोपपद्यते, सर्वस्य वा ! न तावदेकस्य; अस्याभावेऽपि अग्न्यन्तरे धूमसद्भावस्योपपद्यमानत्वात् / नापि सर्वस्य; उपेहितग्रहणस्य 20 उपाधिग्रहणमन्तरेणाऽसंभवात् / धूमानुपपत्तेश्च अशेषाग्न्यभाव एवोपाधिः, न चासौ (1) प्रत्यक्षसिद्धैः प्रत्यक्षसिद्धस्य अविनाभावे सिद्धेऽपि न किञ्चित्फलम्, साध्य-साधनयोः प्रत्यक्षत्वात् , तथा च नानुमानप्रामाण्य मिति भावः / (२)अपूर्वव्यक्तौ अविनाभावग्रहणाभावात् नानमाप्रवृत्तिः / (3) अप्रत्यक्षेण सह अविनाभावग्रहणासंभवात्, संभवेऽपि अनुगमाभावः / (4) अपि तु यौ द्वौ सम्बन्धिनौ महानसीयधमाग्नी प्रत्यक्षविषयौ स्याताम् तयोरेव सम्बन्धो गृहीतः स्यात् न सकलसाध्यसाधनव्यक्तीनाम् / (5) अग्न्यभावस्यति शेष:-आ० टि०। (6) धूमाश्रिता। (7) धमलक्षणे / (8) व्याप्तिस्वरूपम् / (9) अग्न्यभावरूपविशेषणस्य / (10) अग्न्यभावविशिष्टायाः / (11) संभाव्यमाना। (12) संभाव्यमानाया: व्याप्तेः सत्त्वमपि अनिश्चितमेव / (13) 'अग्न्यभावश्चेत् स्यात् धूमसद्भावस्यानुपपत्तिः स्यात्' इत्याकारकं पूर्वोक्तं ज्ञानम् / (14) कस्यचिदेकस्य अग्नेरभावेपि 'अशेषाग्न्यभावविशिष्टो धूमाभावः' इत्याकारकविशिष्टग्रहणस्य अनुपपत्तेरितिभावः। (15) विशिष्टआ० टि०। (16) अशेषाग्न्यभावरूपविशेषण / 1-पत्तेः श्र०। 2 'अथ' नास्ति आ०। 3 स्वाश्रये श्र०। 4 उपाधिः श्र०, ब०। 5-हितत्वात -ब०।६ एतदन्तर्गतः पाठो नास्ति आ०। 6-माधिकरवं स्यात श्र। 7-पत्तेः श्र०।