________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० ननु व्याप्तिस्वरूपस्यैवाऽसंभवात् कथं तत्र तर्कः प्रमाणम् ? तथाहि-व्याप्तिः यानिस्वरूपवा- सम्बन्धोऽर्थानाम् , सा च देशतः कालतो वा केस्यचित् केनचित्संभवान्नास्ति तर्कस्य स्यात् ? न तावद् देशतः; यतो व्योन्नि धूमः, भूमौ अग्निः, उपरि प्रामाण्यमिति चार्वा- देशे वृष्टिः, अधोदेशे नदीपूरः / नापि कॉलतः; न हि वृष्टिकाले नदीपूरः 5. कस्य पूर्वपक्षः- कृत्तिकोदयकाले रोहिण्युदयो वाऽस्ति / किञ्च, कस्य केनायमविनाभावः-किं सामान्यस्य सामान्येन, किं वा सामान्यस्य विशेषैः, उत विशेषाणां विशेषैः ? प्रथमपक्षे सिद्धसाध्यता, नित्यत्व-विभुत्वाभ्यां सकलदेशकालसम्बन्धितया अग्नित्व-धूमत्वयोः सुप्रसिद्धत्वात् / द्वितीयपंक्षेऽपि देशकालानव च्छिन्ने विशेषमात्रे सामान्यस्याविनाभावः, तदवच्छिन्ने वा ? यद्यनर्वैच्छिन्ने; तदा सिद्ध10 साधनमेव / अथ देशकालावच्छिन्नो; तदा अनुगमाभावः / नहि महानसस्थधूमसामा (1) तुलना-"किञ्च, साध्यसाधनयोः व्याप्तिः किं यत्र यत्र साधनं तत्र तत्र साध्यमिति देशरूपा निरूप्येत, किं वा यदा यदा साधनं तदा तदा साध्यमिति कालरूपा, युगपदुभयस्वभावा वा ?"हेतुबिड० पृ० 4 B. (2) साधनस्य साध्यस्य वा। (3) साध्येन साधनेन वा। (4) तुलना-. "देशव्याप्तिमात्राङ्गीकारे समग्रजाग्रत्प्रामाणिकमान्ये धूमानुमानेऽपि सत्यताभिमानोऽभिमानशालिना कथं पृथापथमानीयते, तत्र च देशव्याप्तेः स्वप्नदशायामपि विभावनाभावात् / तथाहि-गगनमण्डलतलावलम्बी धूमः पर्वताखर्वनितम्बसम्बन्धी च धूमध्वज इति क्व देशव्याप्तिरिति ।"-हेतबिड० पृ०४B.। (5) उपरि वृष्टो मेघः अधोनदीपूरदर्शनादित्यनुमाने / (6) तुलना-"उद्गतो नभश्चन्द्रो जलचन्द्रोदयदर्शनात, आसीत्पूर्वमस्मिन् देशे वृष्टिः उत्तरत्र तथाविधवारिपूरविलोकनात् , भविष्यति वा वारिवाहवष्टिः तादगवारिवाहविभावनात्, उदेष्यति रोहिणी कृतिकोदयात. उदेष्यति श्वः सविता अद्यत-. नादित्योदयदर्शनात्, उदगुः मुहूर्तात्पूर्वं पूर्वाफाल्गुनी उत्तरफाल्गुनीनामुदयोपलब्धेः इत्यादि मानानामनेकेषां देशकालोभयेभ्यो विप्रकृष्टानां कार्यकारणपूर्वचरोत्तरचरहेतुविशेषाणां देशकालोभयैः क्वापि व्याप्त्यनुपपत्तेरहेतुत्वप्राप्तेः।"-हेतुबिड० पृ० 4 B. (7) तुलना- "इतोऽपि अविनाभावसम्बन्धग्रहणानुपपत्तिः-किं सामान्ययो: सम्बन्धावधारणम्, आहो स्वलक्षणयोः, सामान्यस्वलक्षणयोर्वा ?"तत्वोप०पू०६५,८३॥ "तथाहि-व्याप्तिर्भवन्ती किं साधनसाध्यव्यक्तयो|भोति, उताहो साधनत्वसाध्यस्वजात्योर्वा, आहोस्वित् साधनवत्साध्यवतोः, किं वा साधनत्ववत्साध्यत्ववतोः, उत.साधनवत्त्वसाध्यवत्वयोः इति पक्षपञ्चतयी..."-हेतुबिड० पृ० 4 A. | "तथाहि-कि व्यक्तयोरथवा जात्योस्तद्वतो विशेषयोः / व्याप्तिस्त्वयेष्यते किं वा साध्यसाधनवत्त्वयोः / सा न व्यक्त्योस्तदानन्त्यान्न जात्योस्तदसंभवात् / न तद्वतोरुक्तदोषान्न चतुर्थोऽनिरूपणात् ।"-चित्सु० पृ० 233 / (8) पर्वत-महानसादिदेशम् अतीतवर्तमानादिकालञ्चानपेक्ष्य अग्न्यादिविशेषमात्र। तुलना-"यद्यनवच्छिन्नैःतदा सिद्धसाध्यतैव देशकालानवच्छिन्नानां वह्नयादिविशेषाणामतिप्रतीतत्वात् ।"-स्या० र० पृ० 505 / (9) तुलना"किं चानुमानं प्रमाणमुपेत्योक्तं वस्तुतस्तु न तन्मानमित्याह-विशेष इति / विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यता। इत्यादिदोषदुष्टत्वान्न च नोऽनुमितिः प्रमा ॥-व्यक्त्योर्वा व्याप्तिः, जात्योवी, तदाक्रान्तविशेषयोवा, धूमवत्त्ववह्निमत्त्वयोवा ? नाद्यः; सर्वोपसंहारासिद्धेः / न द्वितीयः; तयोः स्वरूपभेदात् धमिभेदाच्च / न तृतीयः; उक्तदोषात् / न चतुर्थः; औपाधिकधर्मस्य स्वरूपातिरिक्तस्यानिरूपणात् ।"-बृहदा० वा० पृ० 1401 / न्यायकुमु० पृ० 69 टि०५। 1-स्वरूपासंभ-श्र०। 2 व्याप्तिसम्ब-ब०। 3 'उत विशेषाणां विशेषः' नास्ति ब० / 4 नित्यविभूत्वा-ब०। 5-पक्षे वेश-आ।