________________ प्रमाणप्रे० का 0 1 0 ] तर्कप्रामाण्यवादः साध्यसाधनयोरविनाभावः। तद्ग्राहि ज्ञानं तर्कोऽभिधीयते, तंत्र तस्यैव प्रमाण्यात् , हानान्तराणां तद्ग्रहणे सामर्थ्याऽसंभवत: तंत्र प्रामाण्यानुपपत्तेः / एकपक्षानुकूलकारणदर्शनात् तस्मिन् संभावनाप्रत्ययो भवितव्यतावभासः तदितरपक्षशैथिल्यापादने तद्ग्राहकप्रमाणमनुगृह्य तान् सुखं प्रवर्तयन् तत्त्वज्ञानार्थमूहस्तकः ।"-न्यायमं० पृ० 586 / न्यायकलि० पृ० 13 / “एकधर्माम्युपगमे द्वितीयस्य नियतप्राप्तिरूपः तर्कः"-न्यायली० पृ० 54 / "व्यापकाभाववत्त्वेन निर्णीते व्याप्यस्याहार्यारोपाद्यो व्यापकस्याहार्यारोपः स तर्कः / यथा निर्वह्नित्वारोपान्निधूमत्वारोपः / यदि निर्वह्निः स्यान्निधूमः स्यादिति ।"-न्यायसूत्रवृ० 111140 / “तर्कश्चापाद्यापादकयोर्व्याप्तिमूल: ।"-महावि० पृ० 131 / “जैमिनीयास्तु ब्रुवते युक्त्या प्रयोगनिरूपणमूहः / स च त्रिविधः मन्त्रसामसंस्कारविषयः / [ शाबरभा० ९।१।१-"न्यायमं० पृ० 508 / "अदृष्टसम्बन्धात परोक्षप्रतीतिः तर्क इति लक्षणम् ।"-प्रमाणवात्तिकालं० पृ० 300 / (1) “सम्बन्धो व्याप्तिरिष्टात्र लिङ्गधर्मस्य लिङ्गिना"-मी० श्लो० अनु० श्लो०४। "नियमरूपं मीमांसकाः"-न्याय० मा० पृ०५६। प्रकरणपं० पृ०६८। “व्याप्तिरविनाभावः इति"-प्रश० व्यो० पृ० 570 / "स्वभावतः साध्येन साधनस्य व्याप्तिरविनाभावः।"-न्यायसा० पृ० 5 / "साहचर्यं तु सम्बन्ध इति नो हदयङ्गमम् / तस्मिन् सत्येव भवने न विना भवनं ततः / / अयमेवाविनाभावो नियमः सहचारिता।"-न्यायमं० पृ० 121 / न्यायकलि० पृ० 2 / "तस्माद् यो वा स वाऽस्तु सम्बन्धः, केवलं यस्यासी स्वाभाविको नियत: स एव गमको गम्यश्चेतरः सम्बन्धीति युज्यते ।"-न्यायवा 0 ता० पृ० 165 / "स्वाभाविको निरुपाधिरित्यर्थः ।"-ता०प० पृ० 691 / न्यायली० पू० 54 / “अनौपाधिकः सम्बन्धः"-प्रश. किर० पू० 217 / “अनौपाधिकः सम्बन्धो व्याप्तिः / यद्वा साध्यसामानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः ।"-वैशे० उप० 3 / 1 / 14 / तत्त्वचि० व्या० / "उपाधिविधुरः सम्बन्धः"-सर्वद० पृ० 7 / “साधनस्य च साध्येऽर्थे नियतत्वकथनं व्याप्तिकथनम् / यथोक्तम्-'व्याप्तिापकस्य तत्र भाव एव व्याप्यस्य च तत्रैव भावः' [प्रमाणवा० स्ववृ० 3 / 1] इति ।"-न्यायबिन्दुटी० पृ० 64 / "द्विविधा चेयं व्याप्तिः व्यापकप्याव्यधर्मतया। तत्र व्याप्ये सति व्यापकस्यावश्यम्भावस्तस्य व्याप्ति:, व्याप्यस्य च व्यापक एव सति भावो नाम तस्य व्याप्तिः / आभ्यां यथाक्रममन्वयव्यतिरेकावुक्तो। व्याप्यसद्भावे व्यापकस्य सत्त्वनियमस्य अन्वयरूपत्वात् / व्यापकाभावे व्याप्याभावस्य च व्यतिरेकरूपत्वात् ।"-प्रमाणवा० मनोरथ० 3.1 "तस्य पक्षधर्मस्य सतो व्याप्तियों व्याप्नोति यश्च व्याप्यते व्याप्यव्यापकधर्मतया प्रतीतेः / यदा व्यापकधर्मतया विवक्ष्यते तदा व्यापकस्य गम्यस्य भाव एवेति सम्बन्धः / तत्रेति सप्तम्यर्थप्रधानमेतन्नाधारार्थप्रधानम धर्माणां धर्मान्तरत्वाभावात / तेनायमर्थः-यत्र धर्मिणि व्याप्यमस्ति तत्र सर्वत्र व्यापकस्य भाव एवेति व्यापकधर्मो व्याप्तिः / नत्वेवमवधार्यते व्यापकस्यैव तत्र भाव इति, हेत्वभावप्रसङ्गात्, अव्यापकस्यापि मूर्तत्वादेस्तत्र भावात् / नापि तत्रैवेत्यवधार्यते; प्रयत्नानन्तरीयकत्वादेरहेतुत्वापत्तेः / साधारणश्च हेतुः स्यान्नित्यत्वस्य प्रमेयेष्वेव भावात् / यदा तु व्याप्यधर्मता व्याप्तेविवक्षिता तदा यत्र धर्मिणि व्यापकोऽस्ति तत्रैव व्याप्यस्य भावो नान्यत्र / अत्रापि व्याप्यस्यैव तत्र भाव इत्यवधारणम् हेत्वभावप्रसक्तेरेव नाश्रितम् अव्याप्यस्यापि तत्र भावात् / नापि व्याप्यस्य तत्र भाव एवेत्यवधार्यते; सपक्षकदेशवृत्तेरहेतुत्वप्राप्तेः, साधारणस्य च हेतुत्वं स्यात् प्रमेयत्वस्य नित्येष्ववश्यम्भावादिति / व्यापकस्य तत्र भाव इत्यनेन चान्वय आक्षिप्तो व्याप्यस्य वा तत्रैव भाव इत्यनेन व्यतिरेक आक्षिप्तः ।"-प्रमाणवा० स्वव० टी० 331 // हेतुबि० टी० पृ० 180 / प्रमाणमी०पू० 38 // "सहक्रमभावनियमोऽविनाभावः"-परीक्षाम० 316 / प्रमाणमी० 2 / 10 / (2) व्याप्तिग्रहणे तर्कस्यैव / (3) प्रत्यक्षादीनाम् / (4) व्याप्तिग्रहणे / 1 तत्प्रामा-आ०, श्र।