________________ 418 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० रसज्ञानम् , न प्रवर्त्तते च प्रत्यभिज्ञाविषये प्रत्यक्षमिति / नाप्यनुमानम् ; द्विषये तस्याप्यप्रवृत्तेः, प्रवृत्तौ वा संवादकत्वान्न तद्बाधकत्वम् / ननु लूनपुनर्जातनखकेशादौ बाध्यमानं तत् प्रतीतमेव अतः कथं तत् प्रमाणमिति चेत् ? यदि नाम तत्रे तत्तथा प्रतीतम् , अन्यत्र किमायातम् ! अन्यथा शुक्तिशकले रजताभासप्रत्यक्षस्य भ्रान्तत्वोपलम्भात् सत्यरजतेप्यस्य भ्रान्तत्वप्रसङ्गः / तन्न एकत्वप्रत्यभिज्ञानस्यापह्नवो युक्तः / ___ नापि सादृश्यप्रत्यभिज्ञानस्य; अनुमानानुत्पत्तिप्रसङ्गात्-येनैवे हि पूर्व धूमसहितोऽग्निदृष्टः तस्यैव उत्तरकालं पूर्वधूमसदृशधूमदर्शनात् अग्न्यनुमानोत्पत्तिर्युक्ता, नान्यस्य अन्यदर्शनात् / न च प्रत्यभिज्ञानमन्तरेण 'तेनेदं सदृशम्' इति प्रतिपत्तिर्घटते, पूर्व प्रत्यक्षेण उत्तरस्य तत्प्रत्यक्षेण च पूर्वस्य धूमादिवस्तुनोऽप्रतिपत्तेः / न च द्वयाऽप्रति10 पत्तौ द्विष्ठं सादृश्यं प्रतिपत्तुं शक्यमतिप्रसङ्गात् / यद् द्विष्ठं तद् द्वयप्रतिपत्तावेव प्रतीयते यथा सम्बन्धः, द्विष्ठश्च सादृश्यमिति / ततः सिद्धा एकत्वोल्लेखिनी सादृश्योल्लेखिनी च प्रत्यभिज्ञा प्रमाणम् / एतदेवाह-संज्ञा प्रमाणं चिन्तायाः ‘फलस्य हेतुत्वात्' इति सम्बन्धः। अस्याः पर्यायमाह-तर्कस्य इति / कः पुनरयं तर्को नाम इति चेत् ? व्याप्तिज्ञानम् / व्याप्तिर्हि (1) प्रत्यभिज्ञाविषये। ( 2 ) अनुमानस्यापि / ( 3 ) तुलना-"न च लूनपुनर्जातनखकेशादिवत सर्वत्र निविषया प्रत्यभिज्ञा'''''-प्रमेयक० पृ० 342 / स्या० 2010 494 / (4) स एवायं नखादिरिति एकत्वप्रत्यभिज्ञानम् / (5) लनपुनर्जातनखकेशादौ। (6) स एवायं नख- , केशादिरिति प्रत्यभिज्ञानं बाध्यमानम् / (7) तस्मिन्नेव नखे केशे वा स एवायं नखादिरिति प्रत्यभिज्ञानं कथं बाध्यमानमिति भावः। (8) एकत्र बाध्यमानत्वोपलम्भात् सर्वत्र बाध्यमानत्वस्वीकारे / (9) रजताभासप्रत्यक्षस्य / (10) अपह्नवो युक्त इति गतेन सम्बन्धः / (11) तुलना-“सादृश्यप्रत्यभिज्ञानमेतेनैव विचारितम् / प्रमाणं स्वार्थसंवादादप्रमाणं ततोऽन्यथा // " -तत्वार्थश्लो० 10 193 / "कथञ्च प्रत्यभिज्ञानविलोपेऽनुमानप्रवृत्तिः येनैव हि .."-प्रमेयक० पृ०३४३ / “अनुमानानुत्पत्तिप्रसङ्गात्, येनैव हि पूर्व घूमोऽग्नेः " -स्या० र० पृ० 496 / (12) प्रतिपत्रा / (13) प्रतिपत्तः / (14) जनस्य / (15) घटादिदर्शनात् / (16) धूमस्य / (17) उत्तरकालीनधूमप्रत्यक्षेण / (18) तुलना-"न च द्वयाप्रतिपत्तौ"-स्या० र० पृ० 496 / (19) "चिन्ताज्ञानमागामिनो वस्तुन एवं निष्पत्तिर्भवति अन्यथा नेति, यथैवं ज्ञानादित्रयसमन्विते तत्रैव परमसुखावाप्तिरन्यथा नेत्येतच्चिन्ताज्ञानं मनोज्ञानमेव।" -तत्त्वार्थभा० व्या० पृ० 78 / “सम्बन्धं व्याप्तितोऽर्थानां विनिश्चत्य प्रवर्तते / येन तर्कः स संवादात् प्रमाणं तत्र गम्यते ।"-तत्त्वार्थश्लो० 10 194 / प्रमाणप०प०७०। "उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः / इदमस्मिन् सत्येव भवत्यसति तु न भवत्येवेति च।"-परीक्षाम०३।११. 12 / प्रमाणमी०१२।५ / "उपलम्भानुपलम्भसंभवं त्रिकालीकलितसाध्यसाधनसम्बन्धाद्यालम्बनमिदमस्मिन् सत्येव भवतीत्याद्याकारं संवेदनमूहापरनामा तर्कः ।"-प्रमाणनय० 3 / 5 / जैनतर्कभा० पू० 10 / 'व्याप्तिज्ञानं तर्कः।"-न्यायदी० पृ०१९। “अन्वयव्यतिरेकाभ्यां व्यप्तिज्ञानं दर्शनस्मरणाभ्यामगृहीतप्रत्यभिज्ञाननिबन्धनं तर्क: चिन्ता।"-लघी० अभ० पृ० 29 / 'अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ।"-न्यायसू० 121140 / “अविज्ञाततत्त्वे सामान्यतो ज्ञाते धर्मिणि 1-भिज्ञाने विषये श्र०,-भिज्ञानविषये ब० / 2 धूमोऽग्निदृष्टः ब० / 3 'यन्' नास्ति श्र०।