________________ प्रमाणप्र० का० 10 ] प्रत्यभिज्ञानप्रामाण्यवादः 417 ननु यदि प्रत्यक्षस्मरणयोः द्रव्यमविषयः तर्हि कथं ताभ्यां तत्र तेज्जन्येत ? यद् यस्य विषयो न भवति ने तत्तत्र ज्ञानमुत्पादयति यथा चक्षु रसे, अविषयश्च एकत्वं प्रत्यक्षस्मरणयोरिति; तदप्यसुन्दरम् ; विकल्पोत्पादकाऽविकल्पकाध्यक्षेण अनेकान्तात् , तस्य सामान्यागोचरस्यापि सामान्ये विकल्पोत्पादकत्वप्रतीतेः / 'विकल्पवासनासहायं स्वाविषयेऽपि तत्र तत् तमुत्पादयति' इत्युत्तरम् अन्यत्रापि तुल्यम्, प्रत्यक्षस्यापि स्मरण- 6 सहायस्य एकत्वे प्रत्यभिज्ञानजनकत्वप्रतीतेः, सहकारिणामचिन्त्यशक्तित्वात् / कथमन्यथा असर्वज्ञज्ञानम् अभ्यासविशेषसहायं सर्वज्ञज्ञानं जनयेत् ? एकत्वविषयत्वञ्च प्रत्यक्षस्यापि अक्षणिकत्वसिद्धौ समर्थितम् / अन्यथा निर्विषयत्वमेव अस्य स्यात् , एकान्तेन अनित्यत्वस्य कदाचनाप्यप्रतीते: / केवलं तेनं एकत्वं प्रतिनियतवर्तमानपर्यायाधारतया अर्थे प्रतीयते, स्मरणसहायप्रत्यक्षप्रभवप्रत्यभिज्ञानेन तु स्मर्यमाणाऽनुभूयमा- 10 नपर्यायाधारतयेति विशेषः / अतः कथञ्चिदपूर्वार्थत्वसिद्धेः न गृहीतग्राहित्वमस्य यतोऽप्रामाण्यं स्यात् , अन्यथा अनुमानादेरपि अप्रामाण्यप्रसङ्गः सर्वथाऽपूर्वार्थविषयत्वाऽसंभवात् , तद्विषयस्य देशोदिविशिष्टपावकादिव्यक्तिविशेषस्य सम्बन्धनौहिज्ञानविषयात् साध्यसामान्यात् कथञ्चिदभिन्नस्य कथञ्चित् पूर्वार्थत्वप्रसिद्धेः / बाँध्यमानत्वात्तर्यप्रमाणं प्रत्यभिज्ञा; इत्यप्ययुक्तम् ; तद्बाधकस्य कस्यचिदप्य- 15 संभवात् / तस्य हि बाधकं प्रत्यक्षम् , अनुमानं वा स्यात् ? न तावत् प्रत्यक्षम् ; तस्य तद्विषये प्रवृत्त्यभावात् / यद् यद्विषये न प्रवर्त्तते न तत्तस्य बाधकम् यथा रूपज्ञानस्य (1) द्रव्ये / (2) प्रत्यभिज्ञानम् / (3) सौगतमते हि निर्विकल्पकप्रत्यक्षात् सविकल्पकमुत्पद्यते / निर्विकल्पकं च परमार्थसत्स्वलक्षणजन्यत्वात् वस्तुविषयं सविकल्पकं तु बुद्धिकल्पितसामान्यगोचरत्वादवस्तुविषयकं प्रसिद्धम् / ततो यथा निर्विकल्पकं सामान्यमजानदपि सामान्यविषयं विकल्पमुत्पादयति तथैव अतीतवर्तमानोभयविवर्तवर्तिनमेकत्वमजानत्यपि प्रत्यक्षस्मरणे तद्विषयकं प्रत्यभिज्ञानमुत्पादयतामिति भावः / तुलना-"विकल्पोत्पादकाध्यक्षेणानेकान्तात् ।"-स्या० 2010 495 / (4) सामान्ये / (5) निर्विकल्पकम् / (6) विकल्पम् / (7) प्रत्यक्षस्मरणाभ्याम् एकत्वे प्रत्यभिज्ञानसमुत्पादनस्थलेऽपि / (8) अभ्यासविशेषादयः सहकारिण:-आ०टि०। (9) पृ०३८१ / (१०)प्रत्यक्षेण / (11) अनुमानविषयस्य-आ० टि०। (12) पर्वतादिदेशस्थपावकस्य-आ० टि०। (13) तर्क-आऊटि०। तुलना- "सम्बन्धग्राहिविज्ञानविषयात् साध्यादिसामान्यात् कथञ्चिदभिन्नस्यानमेयस्य देशकालविशिष्टस्य तद्विषयत्वात् ।"-प्रमाणप० पृ० 70 / प्रमेयक० पृ०३४३ / (14) तुलना"संवादो बाधवैधर्यनिश्चयश्चेत् स विद्यते / सर्वत्र प्रत्यभिज्ञाने प्रत्यक्षादाविवाञ्जसा // प्रत्यक्षबाधक तावन्न संज्ञानस्य जातचित् / तद्भिन्नगोचरत्वेन परलोकमतेरिव ॥"-तत्त्वार्थश्लो०प०१९२। "बाधकप्रमाणान प्रमाणं प्रत्यभिज्ञानमिति चायुक्तम् ; तद्बाधकस्यासम्भवात् / न हि प्रत्यक्षं तद्बाधकं तस्य तद्विषये प्रवृत्त्यसंभवात्, साधकत्ववद् बाधकत्वविरोधात् / " -प्रमाणप० पृ०७०। अष्टसह०प० 280 / प्रमेयक० पृ० 344 / स्या० र० 10 496 / प्रमेयर० प्र० 36 / 1न तत्र आ०, श्र०। 2-कत्वं प्रती - श्र०। 3-भिज्ञाने तु आ०, श्र०। 4 इति चायुक्तम् श्र०