________________ 416 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० भिधानम् ; यतो विषयाभावात् , गृहीतग्राहित्वात् , बाध्यमानत्वाद्वाऽस्य अप्रामाण्यं . स्यात् ? न तावद्विषयाभावात् ; पूर्वोत्तरविवर्त्तवत्यैकद्रव्यस्य तद्विषयस्य सद्भावात् / प्रत्यक्षादितः प्रत्यभिज्ञानस्य स्वरूपवैलक्षण्यसंभवाच्च विषयवैलक्षण्यमवश्याभ्युपगन्तव्यम् / यस्य यतः स्वरूपवैलक्षण्यं तस्य ततो विषयवैलक्षण्यमप्यस्ति यथा प्रत्यक्षात् स्मरणस्य, अस्ति च स्वरूपवैलक्षण्यं प्रत्यभिज्ञानस्येति / सुप्रसिद्धं हि प्रत्यक्षस्मरणयोः स्पष्टेतररूपतया अतीतवर्तमानविषयपरामर्शरूपतया च स्वरूपवैलक्षण्याद्' अतीतवर्त्तमानकालावच्छेदेन विषयवैलक्षण्यम्, एवमॉपि / प्रत्यक्षस्य हि वर्तमानकालावच्छिन्नो विषयः, स्मरणस्य तु अतीतकालावच्छिन्नः, प्रत्यभिज्ञानस्य तु उभयकाला वच्छिन्नो द्रव्यविशेषो विषयः / न चाऽशेषार्थानां प्रतिक्षणं क्षणिकत्वात् द्रव्यविशे10 षस्य कस्यचिदप्यसंभवात् कस्य तद्विषयता प्रार्थ्यते इत्यभिधातव्यम् ; क्षणभङ्गप्रतिषेधेन द्रव्यसिद्धेः प्रागे प्रपञ्चतो विहितत्वात् / तन्न विषयाभावात् तदप्रामाण्यम् / नापि गृहीतग्राहित्वात; तद्विषयस्य प्रमाणान्तरेण ग्रहीतुमशक्यत्वात् / स हि प्रत्यक्षेण गृह्येत, स्मरणेन, प्रमाणान्तरेण वा ? न तावत् प्रत्यक्षेण; तस्य वर्तमानविवर्त्त मात्रगोचरचारितया अतीतवर्त्तमानविवर्त्तवर्त्तिनो द्रव्यस्य ग्रहणे सामर्थ्याऽसंभवात् / 15 नापि स्मरणेन; तस्य अतीतपर्यायविषयतया तद्ब्रहणेऽसमर्थत्वात् / नापि प्रमाणान्तरेण; उभयविवर्त्तवर्तिद्रव्यविषयस्य प्रत्यभिज्ञानतोऽन्यप्रमाणस्याऽसंभवात् / तदुभयसंस्कारजनितं कल्पनाज्ञानमस्तीति चेत् ; न; तस्यैव प्रत्यभिज्ञानत्वात् / .. (1) तुलना-"तदप्रामाण्यं हि गृहीतग्राहित्वात्, स्मरणानन्तरभावित्वात्, शब्दाकारधारित्वाद्वा, बाध्यमानत्वाद्वा स्यात् ?"-प्रमेयक पृ० 343 / (2) प्रत्यभिज्ञानस्य। (3) प्रत्मक्षे स्मरणे च प्रत्येकमिह तु युगपदिति विशेष:-आ० टि०। (4) प्रत्यभिज्ञानेऽपि / (5) पृ० 357-389 / (6) तुलना-"आकारवादप्रतिषेधे पूर्वानुभवजनितसंस्कारस्मरणसहकारीन्द्रियेण स एवायमित्यभयोल्लेखि ज्ञानं जन्यते / तस्य च अर्थान्वयव्यतिरेकानुविधानात् निविषयत्वमयुक्तम् ।"प्रश० व्यो० पृ० 397 / “अतीतकालविशिष्टो वर्तमानकालावच्छिन्नश्चार्थ एतस्यामवभासते।"न्यायमं० पृ० 459 / “प्रतीयते तावदेतस्माद्विज्ञानात् पूर्वापरकालावच्छिन्नमेकं वस्तुतत्त्वम्, तदप्यस्य विषयो न भवतीति संविद्विरुद्धम् / ग्रहणस्मरणे च नैकं विषयमालम्ब्येते तस्मादेकमेवेदं विज्ञानं प्रतीतिसांम.दुभयविषयमास्थयम् ।"-प्रश० कन्द० पृ. 80 / (7) तुलना"न हि तद्विषयभूतमेकं द्रव्यं स्मृतिप्रत्यक्षग्राह्यं येन तत्र प्रवर्तमान प्रत्यभिज्ञानं गृहीतग्राहि मन्येत, तद्गृहीतातीतवर्तमानविवर्ततादात्म्यात् द्रव्यस्य कथञ्चिदपूर्वार्थत्वेऽपि प्रत्यभिज्ञानस्य तद्विषयस्य नाप्रमाणत्वं लैंगिकादेरप्यप्रमाणत्वप्रसंगात् तस्यापि सर्वथैवापूर्वार्थत्वासिद्धेः।"-प्रमाणप० पृ० 70 / प्रमेयक पृ० 343 / स्या० र० पृ० 495 / प्रमेयर० पृ० 33 / प्रमाणमी० पृ० 35 / (8) अतीतवर्तमानपर्यायानयायिद्रव्यग्रहणे / (9) अतीतवर्तमान। (10) स्मरणप्रत्यक्ष / तुलना"प्रत्यक्षस्मरणजनितकल्पनाज्ञानमस्तीति चेत्, न; तस्यैव प्रत्यभिज्ञानत्वेनास्माभिरभ्युपगमात् / " -स्या० र० पृ० 495 / (11) उभयसंस्कारजनितविकल्पस्यैव / 1-विवरव]-आ० / 2-वश्यमभ्यु-श्र० / 3-क्षणिकत्वतो द्र-ब० / 4-विवर्त्तगोच-आ०, श्र०।-वित्तिद्रव्यस्य श्र०, -विवत्तिनो द्रव्यस्य ब० /