________________ प्रमाणप्र० का० 10] प्रत्यभिज्ञानप्रामाण्यवादः 415 नुपपन्नः; प्रतीतिविरोधात् / नहि यथोक्तमाकारद्वयमन्योन्यसङ्कीर्णस्वरूपं स्वप्नेऽपि प्रतीयते। द्वितीयविकल्पे तु नेहि किश्चिदनिष्टम् , एकस्मिन् प्रत्यभिज्ञाख्ये ज्ञाने तदाकारद्वयस्य निर्बाधप्रतीतौ प्रतिभासमानत्वात् / यद्यथा निर्बाधायां प्रतीतौ प्रतिभासते तत्तथैवाभ्युपगन्तव्यम् यथा नीलं नीलतया, प्रतिभासते च तथाविधायां प्रतीतौ आकारद्वयान्वितत्वेनैक ज्ञानमिति / न च प्रमाणप्रसिद्ध वस्तुस्वरूपे मिथ्याविकल्पसंहतिः किञ्चित्कर्तुं समर्था / सकलशून्यतादेरपि सिद्धिप्रसङ्गात् / कथंञ्चैवंवादिनः चित्रज्ञानादेः सिद्धिः ? नीलादिप्रतिभासानां हि परस्परानुप्रवेशे सर्वेषामेकरूपताप्रसङ्गात् कुतश्चित्रता एकनीलाकारज्ञानवत् ? तेषां तदननुप्रवेशे भिन्नसन्ततिनीलादिप्रतिभासानामिव अत्यन्तभेदसिद्धेः नितरामचित्रता / एकज्ञानाधिकरणतया तेषां प्रत्यक्षतः प्रतीतेः प्रतिपादितदोषानवकाशः प्रत्यभिज्ञानेऽप्यविशिष्टः / तन्न विरुद्धधर्माध्यासतः प्रत्यभिज्ञानस्याभावो युक्तः। 10 नापि कारणाभावतः; दर्शन-स्मरणलक्षणस्य तत्कारणस्य सद्भावात् / कथं व॑िभिन्नविषययोः विमिन्नाकारयोश्चानयोः तत्कारणतेति चेत् ? तदन्वयव्यतिरेकानुविधायित्वात् / यद् यदन्वयव्यतिरेकानुविधायि तत् तत्कारणकम् यथा बीजाद्यन्वयव्यतिरेकानुविधायी अङ्करः तत्कारणकः, दर्शनस्मरणान्वयव्यतिरेकानुविधायिनी च प्रत्यभिज्ञेति / न खलु बीजादेः अङ्करकारणतायां चित्रपट्यादेः चित्रज्ञानकारणतायां वा तदन्वयव्यतिरेकानुविधानादन्यन्निबन्धनमस्ति / तन्नास्य कारणाभावादप्यभावो युक्तः / किञ्च, इदं प्रत्यभिज्ञानं कार्यम् , कार्यञ्च प्रतीयमानं कारणसद्भावमवबोधयति, अतः कथमस्य कारणाभावो ज्यायान् ? तथाहि-यत् कार्य तत् कारणपूर्वकम् यथा घटादि, कार्यश्चेदं प्रत्यभिज्ञानमिति / यदप्युक्तम्-'सतोऽपि प्रत्यभिज्ञानस्य न प्रामाण्यम्' इत्यादि; तदप्यसमीक्षिता- 20 ' (1) दर्शनस्मरणरूपम् / (2) 'दर्शनस्मरणरूपमाकारद्वयं परस्परमनुप्रवेशेनऽननुप्रवेशेन वा प्रतिभासते' इत्येवं वादिनः सौगतस्य / तुलना-"कथञ्चैवं वादिनश्चित्रज्ञानसिद्धिः.."-प्रमेयक० प० 342 / स्या०र०प० 493 / (3) नीलादिप्रतिभासानाम (4) देवदत्तस्य नीलज्ञानं यज्ञदत्तस्य पतिज्ञानं इन्द्रदत्तस्य च रक्तज्ञानं यथा परस्परतोऽत्यन्तभिन्नं सत चित्रकरूपतां न प्रतिपद्यन्ते तथैव। (5) नीलादिप्रतिभासानाम् / (6) तुलना-"नापि कारणाभावतः .."-स्या० 20 पृ० 494 / 'यत्पुनरुक्तं सामग्रीभेदात् विरुद्धधर्मसंसर्गाच्च प्रत्यभिज्ञाज्ञानस्य एकत्वानुपपत्तिरिति; तदयुक्तम् ; सम्प्रयोगसंस्कारयोः सम्भूयसामग्रीत्वात् / न नान्यत्र सम्प्रयोगसंस्कारयोः प्रत्येकमन्योन्यनिरपेक्षयोः कारणत्वादेकज्ञानकारणतानुपपत्तिः, यस्मात् अन्यत्र लिङ्गेन्द्रिययोरन्योन्यनिरपेक्षयोः दृष्टं सम्भयकारित्वं विशिष्टानमिति प्रति / तस्मात् प्रत्यभिज्ञाज्ञानस्य एकत्वेन प्रामाण्यसंभवात् ।"चित्सु० पृ० 214 / (7) 'दर्शनस्मरणकारणकं संकलनं प्रत्यभिज्ञानम्' [ परीक्षामु 35 ] इत्यभिधानात् / (8) वर्तमानपर्यायविषयं हि दर्शनम् अतीतविवर्तगोचरञ्च स्मरणम् / (9) इदमाकारोल्लेखि हि दर्शनम् तदाकारोल्लेखि च स्मरणम् / (10) पृ० 413 पं० 1 / 1 न किञ्चि-ब०। 2 सलिलतया श्र०।-तत्वेनैव ज्ञान-आ०, श्र०। 4-णतत्का-आ०,१०। 5-चित्रपटादेः ब०, श्र०। 6-कार्य प्रती-श्र० / 7-स्य प्रामा-ब०।