________________ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० ___ अत्र प्रतिविधीयते / यत्तावदुक्तम्-'विरुद्धधर्माध्यासतः' इत्यादि / तत्र किं धर्माणां तत्प्रतिविधानपरस्सरं धर्मिणा सह विरोधः, परस्परं वा ? न तावत् धर्मिणा; तत्रै तेषां प्रतीप्रत्यभिज्ञानस्य प्रथक् यमानत्वात् , यद्यत्र प्रतीयते न तत्तत्र विरुद्धम् यथा चित्रज्ञाने नीलाप्रामाण्यप्रसाधनम् - द्याकाराः, प्रतीयते च प्रत्यभिज्ञाने ‘स एवायम्' इत्याकारद्वयम् , तस्मान्न 5 तत्तत्र विरुद्धमिति / यत् पुनर्यत्र विरुद्धं न तत्तत्र कदाचिदैप्युलभ्यते, यथा तुरङ्गमोत्तमाङ्गे शृङ्गम् , उपलभ्यते च प्रत्यभिज्ञाने प्रागुक्तमाकारद्वयमिति / तन्न धर्मिणा सह धर्माणां विरोधो युक्तः / परस्परविरोधे तु धर्मिणः किमायातं येनास्य विरुद्धधर्माध्यासाद् भेदः प्रार्थत ? धर्माणां हि परस्परपरिहारस्थितिलक्षणविरोधसंभवे तेषामेव अन्योन्यं भेदो युक्तः। किच, विरुद्धधर्माध्यासत: कारणभूताम्यां दर्शनस्मरणाकाराभ्यां प्रत्यभिज्ञानस्य 10 भेदः साध्येत, स्वभावभूताभ्यां वा? तत्राद्यपक्षे सिद्धसाधनम् / न खलु 'कारणस्वरूपमेव सर्वथा कार्यस्वरूपम्' इति स्याद्वादिनो मन्यन्ते / द्वितीयपक्षेऽपि कथञ्चितद्भेदः साध्येत, सर्वथा वा ! यदि कथञ्चित् / तदा सिद्धसाधनमेव, आकारतद्वतोः कथश्चिद्भेदाभ्युपगमात् / सर्वथा भेदस्त्वनुपपन्नः; तयोः तत्स्वभावत्वाभावप्रसङ्गात् / यो यत्स्वभावः न तस्य तद्वतः सर्वथा भेदः यथा चित्रज्ञानात् नीलाद्याकारस्य, स्वभावश्च प्रत्यभिज्ञानस्य 15 ‘स एवायम्' इत्याकारद्वयमिति / तद्धि प्रत्यक्ष-स्मरणसामग्रीतः समुपजायमानं क्रोडीकृताऽऽकारद्वयमेवोपजायते चित्रपट्यादिसामग्रीत: चित्राकारैकज्ञानवत्, प्रत्यक्षादिसामग्रीतो निर्विकल्पेतराकारकविकल्पवद्वा / __ यदप्युक्तम्-'आकारद्वयं किं परस्परानुप्रवेशेन प्रतिभासते' इत्यादि; तत्र कोऽयमस्य अनुप्रवेशो नाम-परस्परस्वरूपसाङ्कर्यम् , एकस्मिन्नाधारे वृत्तिा ? प्रथमविकल्पोऽ (1) पृ० 411 पं०८। (2) धर्मिणि / (3) तुलना-"तत्र यदि नाम दर्शनस्मरणलक्षणयोराकारयोविरोधः, तथापि धर्मिणः प्रत्यभिज्ञानस्य किमायातं येनास्य विरुद्धधर्माध्यासाद् भेदः प्रार्खेत ।"-स्या० र० पृ० 492 / (4) तुलना-"विरुद्धाभ्यां दर्शनस्मरणाकाराभ्यां कारणभूताभ्यां स्वभावभूताभ्यां वा प्रत्यभिज्ञानस्य भेद: साध्येत?"-स्या० 2010 493 / (5) कार्यकारणयोभैदस्यष्टत्वात्-आ० टि० / (6) प्रत्यभिज्ञानभेद:-आ० टि० / (7) दर्शनस्मरणाकारयोः स्वभावयोः / (8) प्रत्यभिज्ञान / (9) आदिपदेन विकल्पवासनाशब्दसंकेतस्मरणादिसामग्री ग्राह्या / (10) एकज्ञानस्वरूपवत्-आ० टि०। तुलना-"यदि पारोक्ष्यापारोक्ष्यधर्मभेदात् पूर्वापरावस्थापरामर्शज्ञानं भिद्येत, हन्त भोः, तदित्यपि विकल्पो भिद्येत / सोऽपि हि परोक्षश्चापरोक्षश्च, विकल्पोऽविकल्पश्च ।अर्थे परोक्षो विकल्पश्च स्वात्मनि त्वविकल्पोऽपरोक्षश्च / तस्माद्विषयभेदादविरोध इति चेत्, नन्विहापि तदेवैकं विज्ञानं तस्यैवेकस्य वस्तुनः पूर्वदेशकालसम्बन्धे परोक्षम्, अपरोक्षञ्चापरदेशकालसम्बन्ध इति को विरोधः ?"-न्यायवा० ता०प० 140 / विकल्पो हि स्वरूपे निर्विकल्पकमर्थरूपे च सविकल्पकमिति सौगतमतम् / (११)पृ०४१२ पं०४ / (१२)तुलना-"परस्परस्वरूपसार्यमेकस्मिन्नाधारे धृतिर्वा ।"-स्या० र० पू० 493 / 1-ध्यास इ-आ। 2-चिदुपल-आ०, श्र०। -स्परं विरो-ब०14 प्रार्थ्यते श्र०।। तेषामन्योन्यं ब०, श्र०। 6-ज्यभेदोश्र०।-वस्य प्र-ब०। 8-भासतेत्या-ब०। 9-स्परं स्व-बं०।