________________ प्रमाणप्र० का० 10] प्रत्यभिज्ञानप्रामाण्यवादः अस्तु वा; तथापि न तत् प्रमाणम् , विषयाभावात् / तस्य हि विषयः-पूर्वज्ञाने प्रतिभातमेव वस्तु, तदतिरिक्तं वा ? तत्राद्यविकल्पे न तत् प्रमाणं गृहीतग्राहित्वात् धारावाहिज्ञानवत् / द्वितीयविकल्पेऽपि किंकृतस्तस्य अतिरेकः-स्वरूपभेदकृतः, कालद्वयसम्बन्धकृतः, तत्सम्बन्धे ऐक्यप्रतिपत्तिकृतो वा ? यदि स्वरूपभेदकृतः; तदा ज्ञानवत् ज्ञेयस्यापि प्रतिक्षणं स्वरूपभेदप्रसिद्धेः सौगतमतप्रसङ्गः / अथ कालद्वयसम्बन्धकृतः; तदप्ययुक्तम् ; तत्सम्बन्धस्य अर्थभेदेऽप्युपपद्यमानत्वात्। न हि लूनपुनर्जातनखकेशाद्यर्थभेदे कालद्वयसम्बन्धोऽसिद्धः / अथ कालद्वयसम्बन्धे देवदत्तस्य ऐक्यं प्रतीयते, अत: पूर्वज्ञाने प्रतिभातस्य वस्तुनः प्रत्यभिज्ञानेन आधिक्यग्रहणान्न गृहीतग्राहित्वेन अप्रामाण्यमित्यभिधीयते; तदप्यभिधानमात्रम् ; यतः किमिदमैक्यं नामएकत्वसंख्या, स्थायित्वं वा ? यदि एकत्वसंख्या; तदास्याः पूर्वमेव प्रतिपन्नत्वात् कथमा- 10 धिक्यपरिच्छेदः प्रत्यभिज्ञायाः ? अथ स्थायित्वम् ; तत् किं देवदत्तस्वरूपाद् भिन्नम् , अभिन्नं वा ? यद्यभिन्नम् ; तदा तत्स्वरूपवत् तदपि पूर्वज्ञानेनैव प्रतिपन्नम्। यद्यतोऽभिन्न तस्मिन् प्रतीयमाने तदपि प्रतीयते यथा तस्यैव स्वरूपम् , अभिन्नञ्च प्रत्यभिज्ञाविषयत्वेनाऽभिप्रेतं वस्तुनः स्थायित्वमिति / अथ भिन्नम् / तत् किं पूर्वमप्युत्पन्नम् , अथ प्रत्यभिज्ञानसमय एवोत्पद्यते ? यदि पूर्वमप्युत्पन्नम् ; तदा पूर्वज्ञानेनैव अस्य॑ परिच्छेदात् 15 कथं प्रत्यभिज्ञानेन आधिक्यपरिच्छेदः ? केनचिदंशेन आधिक्यपरिच्छेदाभ्युपगमे वा अनंवस्थातो न प्रकृततत्त्वसिद्धिः / अथ प्रत्यभिज्ञानसमय एव उत्पद्यते; तर्हि तस्य पूर्वमप्रतिपन्नत्वात् कथं प्रत्यभिज्ञाविषयत्वम् ? पूर्वप्रतिपन्नस्यार्थस्य पुनः कालान्तरे गृह्यमाणस्य प्रत्यभिज्ञाविषयत्वाभ्युपगमात् / पूर्वज्ञानाप्रतिपन्नार्थान्तरावबोधकज्ञानस्य प्रत्यभिज्ञात्वे च घटज्ञानानन्तरमाविर्भूतपटज्ञानस्यापि तत्त्वप्रसङ्गः। तत्समये स्थायित्वस्य उत्पत्तौ च 20 क्षणिकत्वानुषङ्गात् कथं तद्विशिष्टार्थानामक्षणिकत्वं स्यादिति ॥छ। (1) प्रत्यभिज्ञानं / (2) “निष्पादितक्रिये चार्थे वृत्तेः प्रस्मरणादिवत् / न प्रमाणमिदं युक्तं करणार्थविहानितः ॥-यदेव हि प्रमितिक्रियासिद्धौ प्रकृष्टमुपकरणं तदेव साधकतमं कारकं प्रमाणमुच्यते / यदि च प्रत्यभिज्ञा पूर्वप्रमाणगहीतार्थविषया स्यात् तदा निष्पन्नप्रमितिक्रियेऽर्थे प्रवृत्त्याऽसाध कतमत्वात् कथमिव प्रमाणतामश्नुवीत ? अन्यथा हि स्मृतेरपि प्रामाण्यं स्यात् ।"-तत्वसं० 50 10 159 / (3) विषयस्य / (4) अतीतवर्तमानकालद्वयसम्बन्धस्य / (5) प्रत्यक्षकाले एव / (6) देवदत्तस्वरूपवत् / (7) स्थायित्वमपि / (8) स्थायित्वस्य / (9) स अंशः वस्तुस्वरूपाद् भिन्नोऽभिन्नो वा? अभेदे वस्तूस्वरूपवत पूर्वमेव प्रतिपत्तिः। भेदे किमसौ पर्वमेवोत्पन्नः, अथ प्रत्यभिज्ञासमय एवोत्पद्यते ? इत्यादिरूपेण ग्रन्थावर्तनरूपाऽनवस्था / (10) प्रत्यभिज्ञाने आधिक्यपरिच्छेदसिद्धिः। (11) प्रत्यभिज्ञानत्वप्रसंगः / (12) प्रत्यभिज्ञानसमये। (13) तत्कालोत्पन्नस्थायित्वविशिष्टार्थानाम् / त्रिकालानुयायिस्थायित्वविशिष्टस्य व अक्षणिकत्वादिति भावः / 1-मतप्रवेशः ब०। 2-सम्बन्धिदेव-ब०। 3-ण्यमित्यभिधानमा-ब० / 4-भिप्रेतवस्तुनः आ०, श्र०। 5-मेऽनवस्था-आ०, ब०। 6-कृतत्व-आ०। 7-ज्ञानवि-ब०, श्र०। 8-तिपन्नानन्तरावबोधक -आ०। 9-ज्ञानत्वे श्र०। 10-तत्प्रसङ्गःश्र०।