________________ 412 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० तत्र तत्प्रसिद्धः / तथाहि-'सः' इत्याकारः स्मरणरूपतया प्रत्यभिज्ञायामस्पष्टः, 'अयम्' इति / चाध्यक्षरूपत्वात् स्पष्टः / न चात्रै स्पष्टेतरलक्षणविरुद्धधर्माध्यासेप्यभेदो युक्तः; प्रत्यक्षानुमानयोरप्यभेदप्रसक्तेः। किञ्च, 'स एवायम्' इत्याकारद्वयं किं तत्र परस्परानुप्रवेशेन प्रतिभासते, अननु6 प्रवेशेन वा ? प्रथमपक्षे अन्यतराकारस्यैव प्रतिभासः स्यात् , द्वितीयाकारस्य ततोऽविवि क्तस्वरूपत्वात् , यद् यतोऽविविक्तस्वरूपं न तत्ततो भेदेन प्रतिभासते यथा तस्यैव स्वरूपम् , एकस्मादाकारादविविक्तस्वरूपञ्च द्वितीयाकारस्वरूपमिति / द्वितीयपक्षे तु परस्परविभिन्नप्रतिभासद्वयप्रसङ्गः, अन्योन्याननुप्रवेशेन आकारद्वयस्यावस्थानात् , ययोः अन्योन्याननुप्रवेशेन अवस्थानं तयोः परस्परविभिन्नप्रतिभासः यथा रूपरसयोः, अन्योन्याननुप्रवेशेनाऽवस्थानञ्च ‘स एवायम्' इत्याकारद्वयस्य इति / न च 'प्रतिभासद्वयमेकाधिकरणमेतत्' इत्यभिधातव्यम् ; परोक्षापरोक्षाकारयोः प्रतिभासयोरेकाधिकरणत्वानुपपत्तेः, अन्यथा सर्वसंविदामेकाधिकरणत्वप्रसक्तेः पुरुषाद्वैतसिद्धिः स्यात् / ततो विरुद्धधर्माध्यासान्नैकमिदं . ज्ञानमभ्युपगन्तव्यम् / अतः कथं प्रत्यभिज्ञानसंभवः ? कारणाभावाच्च; तथाहि-तत्कारणम् इन्द्रियम् , पूर्वानुभवजनित: संस्कारः, तदुभयं वा? न तावदिन्द्रियम् ; तस्य वर्तमानार्थावभासजनकत्वात्। नापि संस्कारः; तस्य स्मरणकारणत्वात् / नाप्युभयम् ; उभयदोषानुषङ्गात् / न च कारणान्तरमुपलभ्यते / तन्न प्रत्यभिज्ञानसंभवः। प्रत्ययद्वयमेतत् ।"-प्रमाणवातिकालं०१०५१॥ "स इत्यनेन पूर्वकालसम्बन्धी स्वभावो विषयीक्रियते / अयमित्यनेन च वर्तमानकालसम्बन्धी / अनयोश्च भेदो न कथञ्चिदभेदो वर्तमानकालभाविरूपैकस्वभावत्वाद्वस्तुनः / तस्माद् भेद एव प्रत्यभिज्ञाने सति भासते इति कथमनेन क्षणिकत्वानुमानबाधा ? यद्वा वस्तुनः पूर्वकालसम्बन्धित्वमिदानीमसदेव पूर्वकालाभावात् / सत्त्वे वास्य वर्तमानकालसम्बन्धित्वमेव स्यान्न पूर्वकालसम्बन्धित्वं विरोधादित्युक्तम् / तस्मात्पूर्वकालसम्बन्धित्वस्यासतो ग्राहकः स इति ज्ञानांशो भान्तः, अन्यथा वस्तुनः स्पष्टबालाद्यवस्थाग्राहक: स्यात्, न च भवति / तस्मात् भान्तात् पूर्वदृष्टरूपारोपेण ‘स एवायम्' इति ज्ञानात् कथमनुमानबाधा ? . . . 'विस्तरतस्त्वयं प्रत्यभिज्ञाभङ्गविचारो नैरात्म्यसिद्धौ कृत इति तत्रैवावधार्यः ।"-प्रमाणवा० स्व० टी० पू० 78 / "तथाहि-घट: स एवायमिति तावत्प्रत्यभिज्ञा जायते / सा कि स्मृत्यनुभवरूपं ज्ञानद्वयम्, एकमेव वा विज्ञानमंशे स्मृतिरंशे चानुभवः, उत स्मृतिरेव, आहोस्विदनुभव एव ?"-खंडनखंड० पृ० 156 / (6) “प्रत्यभिज्ञाप्रत्ययो भान्त एव निविषयत्वात् / प्रयोगश्चैवं यः प्रत्यभिज्ञाप्रत्ययः स तत्त्वतो नैकालम्बनः यथा लनपुनाततणादिष, प्रत्यभिज्ञाप्रत्ययश्चायं तदेवेदं नीलादीति प्रत्ययः इति विरुद्धव्याप्तोपलब्धिः ।"-तर्कभा० मो० पृ०२९। (1) प्रत्यभिज्ञायाम्। (2) विरुद्धधर्माध्यासप्रसिद्धेः। (3) प्रत्यभिज्ञायाम् / (4) प्रत्यभिज्ञायाम् / (5) 'सः' इत्याकारस्य 'अयम्' इत्याकारस्य वा। (6) किन्तु ज्ञानद्वयमेतत-स इत्याकारस्य स्मरणरूपत्वात् इदमंशस्य च प्रत्यक्षात्मकत्वादिति भावः / 1-सिद्धः स इत्या-आ०, श्र०। 2-तरविलक्षण-श्र०।-यथा स्थाणु पुरुषयोः ब०, श्र० / 4-णमितीन्द्रि-श्र० / 5-ज्ञानसत्त्वम् श्र०।