________________ प्रमाणप्रे० का० 10] प्रत्यभिज्ञानप्रामाण्यवादः 411 बालावस्थायां प्रतिपन्नाग्निधूमसम्बन्धस्य पुनर्वृद्धावस्थायां विस्मृततत्सम्बन्धस्यापि धूमदर्शनादग्निप्रतिपत्तिप्रसङ्गः / तृतीयपक्षे तु कथं स्मृतेः प्रामाण्यप्रतिषेधः अनुमानप्रवृत्तेरङ्गत्वात् ? यदनुमानप्रवृत्तेरङ्गं तत्प्रमाणं यथा प्रत्यक्षम् , तथा च स्मरणम् , तस्मात् प्रमाणमिति / तदेवं स्मृतेः कारणस्वरूपविषयभेदात् प्रत्यक्षादिभ्यो भेदप्रसिद्धः, स्वविषयेऽविसंवादप्रसिद्धेश्च सूक्तम् - 'अविसंवादस्मृतेः फलस्य हेतुत्वात् प्रमाणं धारणा' इति / / तथा स्मृतिः प्रमाणम् अविसंवादसंज्ञाया हेतुत्वात् / अस्याः पर्यायमाह-प्रत्यवमर्शस्य 'स एवायम् , तेन सदृशोऽयम्' इति वा एकत्वसादृश्याभ्यां पदार्थानां सङ्कलनं प्रत्यवमर्शः। ननु प्रमाणप्ररूपणावसरे प्रत्यभिज्ञायाः प्ररूपणमयुक्तम् ; विरुद्धधर्माध्यासतः - कारणाभावौच्च अस्याः स्वरूपस्यैवाऽसंभवात् , विषयाभावतः प्रामाकारणाभावाद्विषया- ण्यानुपपत्तेश्च / तथाहि-पूर्वं ज्ञातस्य पुनः कालान्तरे ‘स एवायम्' 10 भावतश्च नास्ति प्रत्य- इत्यादिज्ञानं प्रत्यभिज्ञा / न चास्या एकत्वं युक्तम् , विरुद्धधर्माध्यासात् , भिज्ञानस्य प्रामाण्यमिति यत्र विरुद्धधर्माध्यासः न तत्रैक्यम् यथा जलानलादौ, विरुद्धधर्माभाव पक्षमा ध्यासश्च प्रत्यभिज्ञायामिति / न चायमसिद्धः; स्पष्टेतररूपाक्रान्ततया (1) अग्निधूमसम्बन्ध। (2) तुलना-"को हि स्मृतिपूर्वकमनुमानमभ्युपगम्य पुनस्तां निराकुर्यात् अनुमानस्यापि निराकरणानुषङ्गात् ।"-प्रमेयक० पृ० 338 / स्या० र० पृ० 488 / प्रमेयर० पू० 32 / प्रमाणमी० पु० 34 / स्या० मं० पृ० 208 / रत्नाकरा० 3 / 4 / (3) तुलना-"पूर्वमज्ञासिंषमर्थं तमिमं जानामीति ज्ञानयोः समानेऽर्थे प्रतिसन्धिज्ञानं प्रत्यभिज्ञानम् / " -न्यायभा०३।२।२। “प्रत्यभिज्ञानं हि नाम आद्यप्रत्यक्षनिरोधे द्वितीयदर्शने प्रागाहितसंस्काराभिव्यक्ती स्मृतिपूर्वं तृतीयं दर्शनम् ।"-न्यायवा० पृ० 400 / 'प्रत्यभिज्ञा नाम स्मर्यमाणानुभूयमानसामानाधिकरण्यग्राहिणी संस्कारसचिवेन्द्रियजन्या प्रतीतिरिति केचित् / अन्ये मन्यन्ते स्मर्यमाणपूर्वज्ञान विशेषितार्थग्राहित्वात् तद्विशेषणस्य चार्थस्य बाह्येन्द्रियग्राह्यत्वानुपपत्तेः स्तम्भादावपि मानसी प्रत्यभिज्ञेति / " न्यायमं० पृ० 224 // एतन्मतद्वयमभिमतं मञ्जरीकारस्य, दृष्टव्यम्-न्यायमं० पृ० 461 // "प्रत्यभिज्ञा प्रति आभिमुख्येन ज्ञानम् / लोके हि स एवायं चैत्र इति प्रतिसन्धानेनाभिमुखीभूते वस्तुनि ज्ञानं प्रत्यभिज्ञेति व्यवह्रियते।"-सर्वद० पृ० 193 / "सञ्ज्ञानं संज्ञा"-सर्वार्थसि० 1113 "संज्ञाज्ञानं नाम यत्तैरेवेन्द्रियैरनुभूतमर्थं प्राक् पुनर्विलोक्य स एवायं यमहमद्राक्षं पूर्वाह्न इति संज्ञाज्ञानमेतत् ।"तत्त्वार्थभा० व्या० 1 / 13 / "दर्शनस्मरणकारणकं सङ्कलनं प्रत्यभिज्ञानम् / तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादि ।"-परीक्षामु० 3 / 5 / प्रमाणप० पृ० 69 / प्रमाणमी० 112 / 4 / 'अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्यादिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ।"-प्रमाणनय०३।३। जैनतर्कभा० पृ० 9 / (4) बौद्धः प्राह-आ० टि०। (5) “स एवायमिति प्रत्यय उत्पद्यमानो नैकत्वे प्रमाणम् एकत्वस्याग्रहणात् दृष्टस्यैव तस्य प्रतिपत्तेः / एकत्वं हि पूर्वेण सह गृह्यमाणमेकतां विवादविषयतां स्वीकरोति / वर्त.मानतामात्रस्यैकत्वे सिद्धसाधनमेव / तच्च पूर्वं पूर्वप्रत्ययेन गृहीतत्वान्नापरम् / पूर्वप्रत्ययेन चासौ त्रुट्यदवस्थ एव पूर्वतया च गृह्यते / ततः पुनरनुसन्धीयमानं यथाभूतं गृहीतं तथाभूतमेव वाऽनुसन्धा तव्यम् / गृहीतत्वेन च ग्रहणे स्मरणमेतदिति गृहीतग्राहित्वादप्रमाणमपरस्मरणवत् / संवादस्त्वर्थ'क्रियाकरणात् / न चैकत्वसाध्यार्थक्रिया; वस्तुसामर्थ्यमात्रादुत्पत्तेः / तस्मात् ‘स एवायम्' इति 1 यज्ज्ञानमनमान-ब०। 2-षये वाऽविसं-श्र। 3-वाद्वास्याः श्र०। 4 पूर्वज्ञानस्य श्र० / -भिज्ञानं नचा-ब०।