________________ 410 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० अर्थादनुत्पद्यमानत्वञ्च अध्यक्षेऽप्यविशिष्टम् , ज्ञानं प्रति अर्थे कारणत्वस्य निराकरिष्यमाणत्वात् / विसंवादकत्वञ्च स्मृतेरसिद्धम् ; स्वप्रतिपन्नेऽर्थे अंविसंवादकत्वात्तस्याः / यद्यत्राऽविसंवादकं तत्तत्र प्रमाणम् यथा प्रत्यक्षाद्यर्थे प्रत्यक्षादि,अविसंवादिका च स्वप्रतिपन्नेऽर्थे स्मृति5 रिति / विसंवादो हि गृहीतेऽर्थे प्राप्तिः, प्रमाणान्तरवृत्तिर्वा स्यात् / स द्विविधोऽपि स्मृतिप्रतिपन्ने स्वयंधृतद्रव्याद्यर्थेऽस्त्येव / यत्र तु विसंवादः सा स्मृत्याभासा प्रत्यक्षाद्याभासवत् / समारोपाव्यवच्छेदकत्वान्न स्मृतिः प्रमाणम् ; इत्यप्यसमीचीनम् ; तद्गृहीतेऽर्थे विपरीतारोपाननुप्रवेशत: तैव्यवच्छेदसंभवात् / यत् समारोपव्यवच्छेदकं तत् प्रमाणम् . यथा अनुमानम् , समारोपव्यवच्छेदिका च स्वप्रतिपन्नेऽर्थे स्मृतिरिति / प्रयोजनाप्रसाधकत्वात् स्मृतेरप्रामाण्यम्; इत्यप्यसुन्दरम् ; अनुमानप्रवृत्तिलक्षणस्य तत्साध्यप्रयोजनस्य सद्भावात् / तँद्धि साध्यप्रतिबद्धाद्धेतोः प्रवर्तते। साध्यं प्रबिन्धश्च सत्तामात्रेण तत्प्रवृत्तेरङ्गम् , परिज्ञात: सन् , स्मृतिकोडीकृतो वा ? प्रथमपक्षे नौलिकेरद्वीपायातस्य अप्रतिपन्नाग्निधूमसम्बन्धस्यापि धूमदर्शनादग्निप्रतिपत्तिः स्यात् / द्वितीयपक्षे तु (1) तुलना-"अर्थादनुत्पद्यमानत्वञ्च स्मरणस्यासिद्धम् ; स्वविषयभूतादादुत्पद्यमानत्वात् / " -स्या०र० पू०४८७। (2) तुलना-"प्रमाणमविसंवादात् मिथ्या तद्विपर्ययात् / गहीतग्रहणान्नो चेन्न प्रयोजनभेदतः। प्रत्यक्षस्यापि प्रामाण्यमविसंवादात् न पुनरर्थानुकारितयाऽतिप्रसंगात् / स पुनरनुभूतस्मतेर्यदि स्यात् प्रामाण्यं लक्षयति। सविकल्पेऽनधिगतार्थव्यवसायाभावादयुक्तमिति चेन्न; प्रयोजनविशेषात्, क्वचित्तादृशाकारभेदानां तथैव प्रामाण्याविरोधात्।अन्यथा कालादिभेदेन अनधिगतार्थाधिगतेरपि अन्यतः प्रमाणताऽनभ्युपगमात् / साकल्येनादितो व्याप्तिः पूर्व चेल्लिङ्गलिङ्गिनोः। अनुमेयस्मृतिः सिद्धा न प्रमाणविशेषवत् ॥"-सिद्धिवि०, टी० पृ० 146 B. प्रमाणसं पृ० 99 / “सा च प्रमाणमविसंवादकत्वात् प्रत्यक्षवत् ।"-प्रमाणप० पृ० 69 / प्रमेयक पृ० 337 / सन्मति० टी० पृ० 553 / स्या० र० पू०४८७ / प्रमेयर० पृ०३१ / प्रमाणमी० पृ० 33 न्यायदी०पू०१७। जैनतर्कभा० पृ०९। (3) "अर्थक्रियास्थितिरविसंवादनम्"-प्रमाणवा० 113 / "अविसंवादश्च अर्थादुत्पत्तेः अर्थाव्यभिचारतः ।"-प्रमाणवातिकालं०पू० 273 / “स चाविसंवादोऽर्थक्रियालक्षण एव।"-तत्त्वसं पं० पृ०७७८॥ "अविसंवादित्वञ्च अभिमतार्थक्रियासमर्थार्थप्रापणशक्तिकत्वं न तु प्रापणमेव प्रतिबन्धादिसम्भवात।"तत्त्वसं० पं०१० 392 / (4) तुलना-'तस्याश्च प्रामाण्यं युक्तम्, न हि तयाऽथ परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यते ।"-सिद्धिवि०, टी० पृ० 34 A. प्रमेयक० पृ० 337 / स्या० र० पु० 487 / (5) “समारोपव्यवच्छेदः समः स्मृत्यनुमानतः / स्वार्थे प्रमाणता तेन नैकत्रापि निवार्यते ॥"तत्त्वार्थश्लो पृ० 189 / प्रमेयक० पृ० 338 / स्या० र० पृ० 487 / (6) स्मृतिसाध्य / (7) अनुमानं हि / (8) साध्याविनाभाविनः / (9) अविनाभावसम्बन्धः / तुलना-"लिङ्गलिङ्गिसम्बन्ध: सत्तामात्रेणानुमानप्रवृत्तिहेतुः, तद्दर्शनात्, तत्स्मरणाद्वा?"-प्रमेयक पृ० 338 / “साध्यप्रतिबन्धश्च हेतोः सत्तामात्रेण अनुमानप्रवृत्तेरङ्गम्, परिज्ञातो वा, स्मृतिकोटीकृतो वा ?"-स्या० र०पू० 488 / (10) अनुमानप्रवृत्तेः / (11) स्मृतिविषयीकृतः / (12) एतद्द्वीपवासिनो हि नालिकेरफलमत्त्वा तज्जलञ्च निपीय जीवनं यापयन्ति, अतस्तैः पाकार्थमुपयुक्तौ अग्निधूमौ न दृष्टचरौ। 1 गृहीतार्थे ब०।-त्तरप्रव-ब०।-नासाधक-आ०, श्र० /