________________ प्रमाणप्र० का० 10] स्मृतिप्रामाण्यवादः 406 पन्नेऽप्यर्थे केनचिदंशेनाऽपूर्वार्थपरिच्छेदकत्वात् , यद्यत्तथाविधं तत्तत्प्रमाणम् यथा अनुमानाधिगतार्थे प्रत्यक्षादि, तथा च स्मरणम् , तस्मात् प्रमाणमिति / / एतेने ज्ञानविशिष्टज्ञेयपक्षोप्यपास्तः; अंशतः प्रामाण्यस्य अत्राप्युपपत्तेः / किञ्चेदं ज्ञेयस्य ज्ञानविशिष्टत्वं नाम-तत्र संयोगः, समवायः, विशेषणीभावो वा ? तत्र आद्यपक्षद्वयमनुपपन्नम् ; ज्ञेये ज्ञानस्याऽद्रव्यतया संयोगाऽसंभवात् , आत्मनि समवेततया च / समायस्याप्यनुपपत्तेः / तदभावे विशेषणीभावोऽपि दुर्घटः; तस्य तत्पूर्वकत्वात् / न खलु दण्डपुरुषादौ संयोगादिसम्बन्धानपेक्षस्तद्भावो दृष्टः / ज्ञेयविशिष्टज्ञानपक्षस्तु न युक्तः; तेत्प्रतिभासस्य स्मृतौ स्वप्नेऽप्यसंभवात् / नहि ज्ञानं निर्विशेषणं संविशेषणं वा स्मृतौ प्रतिभासमानं केनचिदिष्टम् , बहिर्वस्तुन एव तत्र प्रतिप्राणि प्रतिभासप्रतीतेः / तन्न गृहीतग्राहित्वात् स्मृतेरप्रामाण्यम् / नापि परिच्छित्तिविशेषाभावात् ; निहितमन्त्रिताधीतादौ तस्यास्तद्विशेषसद्भावात्। नाप्यसैत्यतीतार्थे प्रवर्त्तमानत्वात् ; यतोऽतीतस्याऽर्थस्य स्वकालेऽसत्त्वम् , स्मृतिकाले वा ? न तावत् स्वकाले; तदा तस्य विद्यमानत्वात् / स्मृतिकाले तु तद्ग्राह्यस्याऽसत्त्वं नाऽप्रामाण्यं प्रत्यङ्गम् ; प्रत्यक्षस्यापि अप्रामाण्यप्रसक्तेः, तत्काले तद्ग्राह्यस्याप्यसत्त्वाऽविशेषात् / नहि प्रत्यक्षग्राह्योऽर्थः प्रत्यक्षकाले सौगतैः सत्त्वेनाऽभ्युपगम्यते / 15 "भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः। हेतुत्वमेव युक्तिज्ञास्तदाकारार्पण क्षमम् // " [प्रमाणवा० 2 / 247] इत्यस्य विरोधाऽनुषङ्गात् / अतः प्रत्यक्षस्याप्यसति प्रवर्तनादप्रामाण्यं स्यात् / 10 (1) ज्ञेयपक्षनिर करणेन / (2) संयोगसमवायाद्यभावे / (3) सम्बन्ध / (4) विशेषणीभावः। (5) ज्ञेयविशिष्टज्ञानप्रतिभासस्य / (6) तुलना-"निहितमन्त्रिताधीतादौ हानोपादानहेतोः परिच्छित्तिविशेषस्य स्मरणे सद्भावात् ।"-स्या० र० पृ० 487 / (7) परिच्छित्तिविशेष। (8) तुलना-“यतोऽतीतस्यार्थस्य स्वकालेऽसत्त्वम्, स्मृतिकाले वा ?"-स्या० 2010487 / (9) अतीतकाले। (10) स्मृतिग्राह्यस्य / (11) प्रत्यक्षकाले प्रत्यक्षग्राह्यस्यापि / (12) व्याख्या-.... यक्तिज्ञा ज्ञानाकारार्पणक्षमम। =प्राग्भावित्वाद भिन्नकालं वस्त कथं ग्राह्यमिति चेत? हेतत्वमेव ज्ञाने आकारस्य स्वानुरूपस्य अर्पणक्षम ग्राह्यतां युक्तिज्ञा विदुः / न हि सन्दंशायोगोलयोरिव ज्ञानपदार्थयोः ग्राह्यग्राहकभावः / कथन्तहिं ? यदाकारमनुकरोति तत् ग्राह्यस्य ग्राहकमित्युच्यते / " -प्रमाणवा० मनोरथ० 2 / 247 / निम्नग्रन्थेषु समुद्धृतेयम्-'हेतृत्वमेव तद्युक्तं ज्ञाना "'-न्यायवा० ता० पृ० 153 / * विधिवि० टी० पृ० 1980 स्फोटसि० टी० पृ० 233 / 'हेतुत्वमेव च व्यक्तआनाका...' सर्वद० पृ० 36 / 'ज्ञानाकारार्पणक्षमम्'-अद्वयवजसं० पृ० 17 // प्रमाणमी० पृ० 20 / प्रकृतपाठः-न्यायवि० वि० पृ० 135 B. | स्या० 2010 487 प्रमेयर० 217 / 1 प्रमाणस्य आ०, श्र०। 2-वायो वा विशे-श्र०।-योगाभावात् ब०, श्र०। 4 आत्मसमवे-श्र०। 5-वायस्यानुप-ब०। 6 'सविशेषणं नास्ति ब०। 7 स्मृतिभासमा-श्र०। 8-सत्यतीतार्थप्र-आ० / 9-सत्त्वं वा ना-श्र०। 10-णक्षणम् श्र०। /