________________ 408 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० मानत्वम् , अर्थादनुत्पद्यमानत्वम् , विसंवादकत्वम् , समारोपाव्यवच्छेदकत्वम्, प्रयोजनाप्रसाधकत्वं वा स्यात् ! प्रथमपक्षे कस्य गृहीतस्यार्थस्य स्मृत्या ग्रहणम्-ज्ञानस्य, ज्ञेयस्य, ज्ञानविशिष्टस्य ज्ञेयस्य, तेंद्विशिष्टस्य वा ज्ञानस्य ? न तावज्ज्ञानस्य; तद्व्यतिरिक्तज्ञेयस्य स्मृतौ प्रतिभासनात् / अथ ज्ञेयस्य; अस्तु नामैतत् , तथापि अधिगतार्थाधिगममात्रेण 5 स्मृतेर्नाऽप्रामाण्यम् , अनुमानेनाधिगतेऽग्नौ तदुत्तरकालभाविनोऽध्यक्षस्याप्यप्रामाण्य प्रसङ्गात् , प्रत्यभिज्ञानाऽनुमानयोरपि केनचिदंशेन अधिगतार्थाधिगमसंभवेन अप्रामाण्यप्रसङ्गाच्च / अथ अधिगतार्थाधिगमेऽप्यंत्र अपूर्वस्याप्यर्थांशस्याऽधिगमसंभवात् प्रामाण्यम् ; कथमेवं स्मृतेरप्रामाण्यं तत्रापि हि वर्तमानकालावच्छेदेनाऽधिगतस्यार्थस्य अतीतकालावच्छेदेनाऽधिगतेरपूर्वार्थांशाधिगमोपपत्तेः ? प्रयोगः-स्मृतिः प्रमाणम् , प्रमाणान्तरप्रतिप्रतीतिमनुरुद्धयमाना न स्वातन्त्र्येणार्थं परिच्छिनत्तीति न प्रमाणम् / " -प्रकरणपं० पृ० 42 / तन्त्ररह० पृ० 2 / "न च स्मृतिः प्रमा, लोकाधीनावधारणो हि शब्दार्थसम्बन्धः। लोकश्च संस्कारमात्रजन्मनः स्मृतेरन्यामुपलब्धिमर्थाव्यभिचारिणी प्रमामाचष्टे ।"-न्यायवा० ता० पृ० 21 / न्याय- . . कुसु० 4 / 1 / “अत एव न प्रमाणं तस्याः पूर्वानुभवविषयत्वोपदर्शनेनार्थं निश्चिन्वत्या अर्थपरिच्छेदे पूर्वानुभवपारतन्त्र्यात् / " -प्रश० कन्द० पृ० 257 / (10) “एतदुक्तं भवति-सर्वे प्रमाणादयोऽनधिगतमथं सामान्यतः प्रकारतो वाऽधिगमयन्ति, स्मृतिः पुनर्न पूर्वानुभवमर्यादामतिकामति तद्विषया वा तदूनविषया वा नतु तदधिकविषया।"-योगसू० तत्त्ववै० 1 / 11 / (1) जैनतर्कवार्तिककारा हि अर्थाविनाभावाभावात्स्मरणस्याप्रामाण्यं स्वीकुर्वन्ति; तथाहि"एवं मन्यते वार्तिककार:-अर्थाविनाभाविन एव ज्ञानस्य प्रामाण्यमुचितं न स्मृतेः अर्थमन्तरेणापि तस्या भावात् / प्रत्यक्षादेस्तु अव्यभिचारनिमित्ताभिधानात् कस्यचिद् व्यभिचारेऽपि न दोषः, नत्वेवं स्मृतेरव्यभिचारनिमित्तमस्ति / अमूढस्मृतेस्तु पूर्वप्रत्यक्षफलत्वान्न पृथक् प्रामाण्यम् ।"-जैनतर्कवा० वृ० पृ० 99 / (2) "नार्थाद भावस्तदाऽभावात् .."-प्रमाणवा० 2 / 375 / “अनुभवादुत्पद्यमाना स्मृतिरर्थमन्तरेण भवन्ती कथं नीलाद्याकारा ?"-प्रमाणवातिकालं, मनोरथ०२१३७५। "अथार्थजत्वमेव स्मृतेः कस्मान्नेष्यते ? अर्थविनाशेप्युत्पादात् / नच यद्देशकालालिङ्गितेऽनुभवज्ञानमुत्पन्नं तदालम्बनमेव न्याय्यम् / स्मृतिकाले तस्याविद्यमानतया विषयत्वाभावात् / बाह्येन्द्रियाणां च स्मृतिजन्मनि प्रत्येक व्यभिचारादन्तःकरणस्य व्यापारो निश्चीयते। न च तस्य स्वातन्त्र्येण बहिविषये व्यापारः सम्भवतीत्यनर्थजत्वमेव न्याय्यम तस्मानिविषयत्वमेव।" -प्रश० व्यो० पृ० 621 / “न स्मृतेरप्रमाणत्वं गृहीतग्राहिताकृतम् / अपि त्वनर्थजन्यत्वं तदप्रामाण्यकारणम् // ननु कथमनर्थजा स्मृतिः ?तदारूढस्य वस्तुनस्तदानीमसत्त्वात्।" -न्यायम० पृ० 23 / (3) “कस्मात् स्मरणज्ञानमप्रमाणमिति चेत् ? रज्जुसर्यादिज्ञानवत् भ्रान्तत्वादिति ब्रूमः।"-न्यायसारटी० पृ० 68 / (4) तुलना-"गृहीतग्रहणात्तत्र न स्मृतेश्चेत्प्रमाणता / धारावाह्यक्षविज्ञानस्यैवं लभ्येत केन सा // विशिष्टस्योपयोगस्याभावे सापि चेन्मता। तदभावे स्मरणेऽप्यक्षज्ञानवन्मानतास्तु नः॥ स्मृत्या स्वार्थ परिच्छिद्य प्रवृत्तौ न च बाध्यते / येन प्रेक्षावतां तस्याः प्रवृत्ति विनिवार्यते // " -तत्त्वार्थश्लो० पृ० 189 / (5) ज्ञेयविशिष्टस्य-आ० टि०। (6) ज्ञानव्यतिरिक्त / (7) तुलना-"अनुमानेनाधिगते वह्नौ तदुत्तरकालभाविनः प्रत्यक्षस्याप्यप्रामाण्यप्रसङ्गात्.."-स्या० र० पृ० 486 / प्रमेयक० पृ० 3374 (8) प्रत्यभिज्ञानानुमानयोः। (9) प्रत्यक्षादि / 1 अर्थाधन-ब०। 2-नासाध-ब०। 8-रिक्तस्य ज्ञेयस्य श्र० / 4-धिगमप्रभवेन आ०, श्र० -ण्यानुषङ्गाच्च ब०। 6 अथ अर्थाधिगमे-आ०, श्र० / 7-पूर्वाशाधि-ब०।