________________ प्रमाणप्र० का० 10] स्मृतिप्रामाण्यवादः 407 स्मृतेः पटुतरसंस्कारकारणकत्वात् , प्रत्यक्षादीनाञ्च चक्षुरादिहेतुकत्वात्। स्वरूपभेदःस्मृतेः तदित्युल्लेखित्वात् , प्रत्यक्षादीनाञ्च ईदमित्याद्युल्लेखित्वात् / बिषयभेदोऽपि - स्मृतेः अनुभूतार्थगोचरत्वात् , प्रत्यक्षादीनाञ्च वर्तमानाद्यर्थविषयत्वात् / - यदप्युक्तम–'अनुभूते स्मृतिरित्येतन्नानुभवेन स्मृत्योभाभ्यां वा प्रतीयते' इत्यादि; तदप्यनल्पतमोविलसितम् ; त्रिकालानुयायिना प्रमात्रा तत्प्रतीतेः कत्तुं शक्यत्वात् / / पूर्वोत्तरज्ञानव्यतिरिक्तो न कश्चित् प्रमाता; इत्यप्ययुक्तम् ; तद्वयतिरिक्तस्यास्य सन्ताननिषेधावसरे प्रपञ्चतः प्रसाधितत्वात् / नेन्वेवं प्रमातुः प्रत्यक्षेण अर्थेऽनुभूयमानतानुभवे अनुभूतताऽनुभवोऽपि स्यात् तत्सद्भावाऽविशेषात् , तथाच गृहीतग्राहित्वात् स्मृतेर्न प्रामाण्यम् ; इत्यप्यसत् ; अतीतकालनिबन्धनतया अनुभूयमानताकाले अनुभूततायाः संभवाभावात् , प्रमातृसद्भावमात्रस्य तत्प्रतिपत्तिं प्रत्यनङ्गत्वाच्च / स्मृतिसहायो हि प्रमाता 10 अर्थेऽनुभूततां प्रतिपद्यते, प्रत्यक्षसहायस्तु अनुभूयमानतामिति / एवं कारण-स्वरूप-विषयभेदेन अध्यक्षादिभ्यः स्मृतेर्भेदसंभवेऽपि अप्रामाण्ये कारणं वक्तव्यम्- तँच्च गृहीतग्राहित्वम् , परिच्छित्तिविशेषाभावः, असत्यतीतार्थे प्रवर्त्तर्थसि०१।१३। "तैरेवेन्द्रियैर्यः परिच्छिन्नो विषयो रूपादिस्तं यत् कालान्तरेण विनष्टमपि स्मरति तत् स्मृतिज्ञानम् / अतीतवस्त्वालम्बनमेककर्तकं चैतन्यपरिणतिस्वभावं मनोज्ञानमिति यावत् ।"-तत्वार्थभाष्यव्या०।१३। “संस्कारोबोधनिबन्धना तदित्याकारा स्मृतिरिति” -परीक्षाम० 3 / 3 / प्रमाणमी० 112 // 3 // "तदित्याकाराऽनुभूतार्थविषया स्मृतिः”-प्रमाणप० पृ०६९। “स्मृतिश्च वितर्कलक्षणा।"-जैनतर्कवा० वृ० पृ० 99 / “तत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं संवेदनं स्मरणम्।"-प्रमाणनय० 3 / 11 षड्द० बृह० पृ० 84 B. / “अनुभवमात्रजन्यं ज्ञानं स्मरणम् / " -जैनतर्कभा० पृ० 8 / . (1) तुलना-"प्रणिधाननिबन्धाभ्यासलिङ गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः / " -न्यायसू० 3 / 2 / 43 / (2) पृ० 405 पं० 19 / (3) पूर्वोत्तरज्ञानव्यतिरिक्तस्य प्रमातुः। (4) पृ० 9- / (5) तुलना-"न च प्रत्यक्षेणानुभूयमानतानुभवे . " -प्रमेयक० पृ० 336 / (6) प्रमातृसद्भाव / (7) अनुभूतताप्रतिपत्तिम् / (8) तुलना-"अमुष्याप्रामाण्यं कुतोऽयमाविष्कुर्वीत-किं गृहीतार्थग्राहित्वात, परिच्छित्तिविशेषाभावात, असत्यतीतेऽर्थे प्रवर्तमानत्वात, अर्थादनत्पद्यमानत्वात, विसंवादकत्वात्, समारोपाव्यवच्छेदकत्वात्, प्रयोजनाप्रसाधकत्वाद्वा ?"-स्या० 20 10 486 / (9) “पारतन्त्र्यात्स्वतो नैषां प्रमाणत्वावधारणा / अप्रामाण्य विकल्पस्तु द्रढिम्नव विहन्यते // पूर्वविज्ञानविषयं विज्ञानं स्मृतिरुच्यते / पूर्वज्ञानाद्विना तस्याः प्रामाण्यं नावधार्यते ॥"-तन्त्रवा० 1 // 3 // 1 // "तत्र यत्पूर्वविज्ञानं तस्य प्रामाण्यमिष्यते। तदुपस्थापनमात्रेण स्मृतेः स्याच्चरितार्थता // "-मी० श्लो० प० 396 / “प्रमिते च प्रवृत्तत्वात्स्मृतेर्नास्ति प्रमाणता।"-मी० श्लो० शब्दपरि० श्लो०१०४। 'गृहीतग्रहणान्नेष्टं सांवृतं. ."-प्रमाणवा० 115 / “यद् गृहीतग्राहि न तत्प्रमाणं यथा स्मृतिः। -तत्त्वसं० पं० पृ० 388 / “न प्रमाणं स्मृतिः पूर्वप्रतिपत्तिव्यपेक्षणात् / स्मृतिहि तदित्युपजायमाना प्राची 1 इदमित्युल्ले श्र०। 2 प्रमात्रा श्र०। 8-भवेऽनुभवोऽपि आ०। 4 गृहीतार्थना-ब० / -त्यतीतेऽर्थे ब०।