________________ 406 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० विषयीकरणे ‘अनुभूतेऽहमुत्पन्ना' इत्यनया प्रत्येतुमशक्यत्वात् / यदि च अनुभूतता प्रत्यक्षगम्या स्यात् तदा स्मृतिरपि जानीयात् 'अनुभूतेऽहमुत्पन्ना' इति, अनुभवानुसारित्वात्तस्याः। नचासौ प्रत्यक्षगम्या; अनुभूयमानतामात्र एव अस्य पर्यवसानात् / तन्न स्मृत्यापि तत्प्रतीतिः। नाप्युभाभ्याम् ; उभयपक्षनिक्षिप्तदूषणप्रसङ्गात् / तन्न स्मृतिः स्वरूपतो विचार्यमाणाऽवतिष्ठते / . नापि विषयतः; तस्या हि विषयः अर्थमात्रम् , अनुभूतताविशिष्टो वाऽर्थः ? न तावदर्थमात्रम् ; सकलप्रमाणानां स्मृतित्वप्रसङ्गात् / नाप्यनुभूतताविशिष्टः; देवदत्तानुभूतेऽर्थे यज्ञदत्तज्ञानस्य धारावाहिविज्ञानस्य च स्मृतित्वप्रसङ्गापादनात् / अनुभूतार्थ विषयत्वे चास्याः प्रामाण्यन्न स्यात् अविद्यमानविषयत्वात् / यदविद्यमानविषयं न तत् 10 प्रमाणम् यथा खे केशपाशज्ञानम्, अविद्यमानविषयश्च अनुभूतार्थविषयतयाऽभिप्रेतं स्मरणज्ञानमिति / तथाविधस्याप्यस्य प्रामाण्ये अतिप्रसङ्गः / - किञ्च, अर्थक्रियार्थिनामर्थक्रियासमर्थार्थप्रापकं प्रमाणं प्रसिद्धम् / न च .. स्मृतौ असदर्थविषयत्वेन एतत्संभवति, अतः कथमसौ प्रमाणमिति ? ___ अत्र प्रतिविधीयते / यत्तावदुक्तम्-'ज्ञाता ज्ञानं वा' इत्यादि; तदसमीचीनम् ; प्रतिविधानपरस्सा ज्ञानस्यैव स्मृतिशब्दवाच्यत्वप्रतिज्ञानात् / नचैवं सर्वस्य ज्ञानस्य स्मरणस्य प्रथक् स्मृतित्वमनुषज्यते; स्मृतित्वस्य ज्ञानमात्रप्रयुक्तत्वाभावात् / ज्ञानविशेष प्रामाण्यव्यवस्थापनम्- एव हि संस्कारविशेषप्रभवः तदित्याकारोऽनुभूतार्थविषयः स्मृतिरित्युच्यते / स च इतरज्ञानेभ्यः कारणस्वरूपविषयभेदाद् भिद्यते / तत्र कारणभेदः (1) स्मृत्या। (2) अनुभूतता -आ० टि०। (3) प्रत्यक्षस्य / (4) 'अनुभूते जायमानम्' इति प्रतीतिः / (5) स्मृतिप्रत्यक्षाभ्याम् / (6) अविद्यमानविषयस्यापि स्मरणस्य / (7) तुलना-"लोके च पूर्वमुपदर्शितमर्थं प्रापयन् संवादक उच्यते, तद्वज्ज्ञानमपि स्वयं प्रदर्शितमर्थं प्रापयत्संवादकमुच्यते / प्रदर्शिते चार्थे प्रवर्तकत्वमेव प्रापकत्वं नान्यत् / तथाहि- न ज्ञानं जनयदर्थं प्रापयति अपि त्वर्थे पुरुष प्रवर्तयत्प्रापयत्यर्थम् / प्रवर्तकत्वमपि प्रवृत्तिविषयप्रदर्शकत्वमेव, न हि पुरुष हठात् प्रवर्तयितुं शक्नोति विज्ञानम् * * * 'अर्थक्रियार्थिभिश्चार्थक्रियासमर्थार्थप्राप्तिनिमित्तं ज्ञानं मृग्यते / यच्च तैम॒ग्यते तदेव तेन शास्त्रे विचार्यते / ततोऽर्थक्रियासमर्थवस्तुप्रदर्शकं सम्यग्ज्ञानम् ।".-न्यायबिन्दुटी० पृ० 5-6 / (8) अर्थक्रियासमर्थार्थप्रापकत्वम् (9) १०४०५५०१०(१०)तुलना-"आत्मनः संयोगविशेषात् संस्काराच्च स्मृतिः ।"-वैशे० सू० 9 / 2 / 6 / "अनुभूतविषयाऽसम्प्रमोषः स्मृतिः।"-योगसू० 1 / 11 / सांख्यतत्त्वालो० 10 16 / "लिंगदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोः संयोगविशेषात् पट्वभ्यासादरप्रत्ययजनिताच्च संस्काराद् दृष्टश्रुतानुभूतेष्वर्थेषु शेषानुव्यवसायेच्छानुस्मरणद्वेषहेतुरतीतविषया स्मृतिरिति / " -प्रश० भा० पृ० 256 / “प्रत्यक्षबुद्धिनिरोधे तदनुसन्धानविषयः प्रत्यय: स्मृतिः।"-न्यायवा० पृ० 366, 431 // "स्मृतिरपि इच्छावत् पूर्वज्ञानसदृशं विज्ञानं पूर्वविज्ञानविषयं वा स्मृतिरित्युच्यते ।"-शाबरभा० पृ० 65 / "स्मृतिः पुनः पूर्वविज्ञानसंस्कारमात्र ज्ञानमुच्यते ।"-प्रकरण पं० पृ० 42 / तन्त्ररह० पृ० 2 / स्मृतिश्च संसारलागण मामा...:"....... ... "म्मरणं स्मतिः" -सर्वा 1-षणगणप्र-श्र०। 2ज्ञानविषय एव आ० /