________________ प्रमाणप्र० का० 10] स्मृतिप्रामाण्यवादः 405 जायते तदपि श्रुतम्' इति संगृहीतं भवति / किं तद् ! इत्याह-'संज्ञा' इत्यादि / 'चिन्ता च' इत्ययं चैशब्दः पुनर्भिन्नप्रक्रमः 'मतिः' इत्यस्यानन्तरं स्मृतिसमुच्चयार्थो द्रष्टव्यः / तेन स्मृत्याद्यविशदं ज्ञानं श्रुतमित्युक्तं भवति / इन्द्रियप्रभवं मतिज्ञानं तु देशतो वैशद्यसंभवात् सांव्यवहारिकं प्रत्यक्षमित्युक्तम् / तस्य श्रुतस्य किं कारणम् ! इत्याह-ज्ञानमाद्यं कारणम् / किन्नाम ? इत्याह-'मतिः' इति / नचागमविरोधः; 5 “मतिपूर्वं श्रुतम्" [ तत्त्वार्थसू० 1 / 20 ] इत्यभिधानात् / 'पूर्वपूर्वप्रमाणत्वे फलं स्यादुत्तरोत्तरम्' [ लघी० का० 7 ] इत्यनेन अधिकां कारिकां कृत्वा व्याचष्टे'अविसंवाद' इत्यादिना / न विद्यते विसंवादो यस्याः सा चासौ स्मृतिश्च तस्याः / कथम्भूतायाः ? फलस्य फलभूतायाः हेतुत्वात् प्रमाणं धारणा संस्कारः। ननु स्मृतेः स्वरूपतो विषयतश्च विचार्यमाणाया अनुपपत्तेः कस्याऽविसंवादः 10 स्मरणस्य अप्रामा- प्रायेंत; तथाहि-स्मृतिशब्दवाच्यस्यार्थस्य स्वरूपं ज्ञाता, ज्ञानं वा ! एयवादिनां बौद्धादीनां तत्राद्यपक्षोऽनुपपन्नः; पूर्वोत्तरज्ञानव्यतिरिक्तस्य ज्ञातुः कस्यचिदप्य " पूर्वपक्षः- संभवात् / द्वितीयपक्षेऽपि ज्ञानमात्रम् , अनुभूतविषयं वा ज्ञानं तैच्छब्दवाच्यं स्यात् ? प्रथमविकल्पे प्रत्यक्षादेरपि स्मृतिरूपताप्रसङ्गात् तब्यतिरिक्तप्रत्यक्षादिप्रमाणभेदवा♚च्छेदः स्यात् / द्वितीयविकल्पेऽपि देवदत्तानुभूतेऽर्थे यज्ञद- 15 त्तप्रत्यक्षादिज्ञानस्य स्मृतित्वप्रसक्तिः। अथ येनैव यदेव पूर्वमनुभूतं वस्तु पुनः कालान्तरे तस्यैव तत्रैवोपजायमानं ज्ञानं स्मृतिरित्युच्यते; तदप्युक्तिमात्रम् ; धारावाहिप्रत्यक्षस्यापि स्मृतित्वप्रसङ्गात् , उक्तप्रक्रियायास्तत्राप्यविकलत्वात् / . .. किञ्च, 'अनुभूते जायमानम्' इत्येतत् केन प्रतीयते-अनुभवेन, स्मृत्या, उभाभ्यां वा ? न तावदनुभवेन; तत्काले स्मृतेरेवाऽसंभवात् / नचाऽसती विषयीकर्तुं 20 शक्या; अतिप्रसङ्गात् / यद् असन्न तत् विषयीकत्तुं शक्यं यथा खरविषाणम् , असती च अनुभवकाले स्मृतिरिति / नचाऽविषयीकृता 'तत्रोपजायतें' इति प्रत्येतुं शक्याऽतिप्रसक्तेरेव / यद् यत्र येन न विषयीक्रियते न तस्य 'तत्तत्रोपजायते' इति प्रतीतियुक्ता यथा सुप्तेनाऽविषयीकृते नीलसुखादिविषये जाग्रत्पुरुषप्रत्यये, अनुभवेनाऽविषयीकृता च अतीतार्थे स्मृतिरिति / तन्न अनुभवात्तथाप्रतीतिः / नापि स्मृतेः; अनुभवाऽर्थयोर- 25 (1) यौगः प्राह-आ० टि० / (2) तुलना-"ननु कोऽयं स्मृतिशब्दवाच्योऽर्थः ज्ञानमात्रम्, अनुभूतार्थविषयं वा विज्ञानम् ?"-प्रमेयक० पु० 336 / (3) स्मृतिशब्द-आ० टि०। (4) स्मृति-आ० टि० / (5) अनुभूतेऽर्थे-आ० टि० / (6) धारावाहिकप्रत्यक्षेऽपि / (7) तुलना-"ननु अनुभूते जायमानमित्येतत् केन प्रतीयताम् ? न तावदनुभवेन; तत्काले स्मतेरेवासत्त्वात् ....."-प्रमेयक० 50 336 / (8) प्रत्यक्षेण -आ० टि०। (9) तुलना-"अतीतानुभवार्थयोरविषयीकरणे तथा प्रतीत्ययोगात् / " -प्रमेयक० पृ० 336 / 1'च' नास्ति आ०, श्र012-शदज्ञानं आ०, श्र०। 3-प्रभवमति-ब०। 4-वाच्यार्थ-ब०। 5 तत्रो-ब०, श्र०।