________________ 404 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [3. परोक्षपरि० विवृतिः-अविसंवादस्मृतेः फलस्य हेतुत्वात् प्रमाणं धारणा, स्मृतिः संज्ञायाः प्रत्यवमर्शस्य, संज्ञा चिन्तायाः तर्कस्य, चिन्ताऽभिनिबोधस्यानुमानादेः / प्राक् . शब्दयोजनात् शेषं श्रुतज्ञानमनेकप्रभेदम् / यत् प्रथमकारिकायां शेषम् अविशदं ज्ञानमित्युक्तम् , तत् किम् ? श्रुतम् अविर स्पष्टतर्कणम् , "श्रुतमविस्पष्टतर्कणम्" [ ] इत्यभिधानात् / किं कारिकाव्याख्यानम् - यत् नामयोजनाजायतेऽविशदंज्ञानं तदेव श्रुतम् , उतान्यदपि? इत्याहप्राङ् नामयोजनात्। नाम्नः अभिधानस्य योजनात् पूर्वमुपजायते यदस्पष्टं ज्ञानं तच्छुतम् नामयोजनाजनितार्थाऽस्पष्टज्ञानसाधादित्यभिप्रायः / 'चिन्ता च' इत्यत्र 10 चशब्दो भिन्नप्रक्रमः 'शब्दानुयोजनात्' इत्यस्यानन्तरं द्रष्टव्यः / तेन न केवलं नामयोजनात् पूर्व यदस्पष्टं ज्ञानमुपजायते तदेव श्रुतं किन्तु 'शब्दानुयोजनाच्च यदुपविचारयति-अत्र प्रचक्षते केचिच्छ्रतं शब्दानुयोजनात् / तत्पूर्वनियमाद्युक्तं नान्यथेष्टविरोधतः॥ शब्दानुयोजनादेव श्रुतं हि यदि कथ्यते / तदा श्रोत्रमतिज्ञानं न स्यान्नान्यमतौ भवम् / यद्यपेक्षवंचस्तेषां . श्रुतं सांव्यवहारिकम् / स्वेष्टस्य बाधनं न स्यादिति संप्रतिपद्यते // 'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते' / इत्येकान्तं निराकर्तुं तथोक्तं तैरिहेति वा // ज्ञानमाद्यं स्मृति: संज्ञा चिन्ता चाभिनिबोधिकम् / प्राग्नामसंसृतं शेषं श्रुतं शब्दानुयोजनात् / / अत्राकलङ्कदेवाः प्राहु:-ज्ञानमाद्यं स्मृतिः..... तत्रेदं विचार्यते-मतिज्ञानादाद्यादाभिनिबोधिकपर्यन्ताच्छेषं श्रतं शब्दानयोजनादेवेत्यवधारणम, श्रतमेव शब्दानुयोजनादिति वा ? यदि श्रुतमेव शब्दानुयोजनादिति पूर्वनियमः तदा न कश्चिद्विरोधः, शब्दसंसृष्टज्ञानस्य अश्रुतज्ञानत्वव्यवच्छेदात् / अथ शब्दानुयोजनादेव श्रुतमिति नियमः; तदा श्रोत्रमतिपूर्वकमेव श्रुतं न चक्षुरादिमतिपूर्वकमिति सिद्धान्तविरोधः स्यात् / सांव्यवहारिकं शाब्दं ज्ञानं श्रुतमित्यपेक्षया तथानियमे तु नेष्टबाधाऽस्ति चक्षुरादिमतिपूर्वकस्यापि श्रुतस्य परमार्थतोऽभ्युपगमात् स्वसमयप्रतिपत्तेः / अथवा 'न सोस्ति प्रत्ययो लोके यः शब्दानुगमादृते / अनुविद्धमिवाभाति सर्व शब्दे प्रतिष्ठितम् // ' इत्येकान्तं निराकर्तुं प्राग्नामयोजनादाद्यमिष्टं न तु तन्नामसंसृष्टमिति व्याख्यानमाकलंकमनुसर्तव्यम् / (पृ० 239-40) शब्दानुयोजनात्त्वेषा श्रुतमस्त्वक्षवित्तिवत् / संभवाभावसंवित्तिरपत्तिस्तथानमा // नामासंसृष्टरूपा हि मतिरेषा प्रकीर्तिता। नातः कश्चिद्विरोधोऽस्ति स्याद्वादामतभोगिनाम // " -तत्त्वार्थश्लो०१० 243 / “अत्र च यत् शब्दसंयोजनात् प्राक् स्मृत्यादिकमविसंवादिव्यवहारनिर्वर्तनक्षम प्रवर्तते तन्मतिः, शब्दसंयोजनात् प्रादुर्भूतं तु सर्वं श्रुतमिति विभागः।" -सन्मति० टी० 10 553 / षड्द० बह० पृ० 84 B. / (1) तुलना-"धारणास्वरूपा च मतिः अविसंवादस्वरूपस्मृतिफलस्य हेतुत्वात् प्रमाणम्, स्मृतिरपि तथाभूतप्रत्यवमर्शस्वभावसंज्ञाफलजनकत्वात्, संज्ञापि तथाभूततर्कस्वभावचिन्ताफलजनकत्वात्, चिन्तापि अनुमानलक्षणाभिनिबोधफलजनकत्वात्, सोऽपि हानादिबुद्धिजनकत्वात् / " -सन्मति० टी० पृ० 553 / षड्द० बृहपृ० 84 B. / (2) तुलना-"प्राक् शब्दयोजनात् मतिज्ञानमेतत् शेषमनेकप्रभेदं शब्दयोजनादुपजायमानमविशदं ज्ञानं श्रुतमिति केचित्" -सन्मति० टी०ए०५५३॥ षड्द० बृह० प०८४ B. (3) उद्धृतमिदम्-सिद्धिवि० टी० पु. 101 B. तुलना-"मतिपूर्वं ततो ज्ञेयं श्रुतमस्पष्टतर्कणम् ।"-तत्त्वार्थश्लो० पृ० 237 / न्यायवि०वि०प०५०४ B. / ___ 1-शदज्ञान-श्र० / एतदन्तर्गतः पाठो नास्ति आ०, श्र०। 2-तेवि-आ०, ब०, श्र० / -योजनाज्जनि-श्र० /