________________ श्रीमत्प्रभाचन्द्राचार्यविरचितः // न्या य कु मु द च न्द्रः // -AKK[द्वितीयो भागः] प्रमाणप्रवेशे तृतीयः परोक्षपरिच्छेदः / प्रत्यक्षं प्रतिपाद्य लक्षणफलस्वार्थान्वितं तत्त्वतः , स्पष्टार्थप्रतिपत्तिशून्यमधुना व्याख्यायते तच्छ्रुतम् / प्रामाण्यं पुनरस्य यैस्तु कुमतध्वान्ताभिभूतेक्षणैः , नेष्टं तैर्न→ विप्रकृष्टविषयज्ञानाय दत्तं जलम् // 1 // अथेदानीं परोक्षस्वरूपप्ररूपणायाहज्ञानमाद्यं मतिः संज्ञा चिन्ता चौऽऽभिनिबोधिकम् // 10 // प्राङ् नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात् / नमता विद्यानन्दिनमैतिह्याद्यैविभूष्य संस्क्रियते / न्यायकुमुदचन्द्रोत्तरभागः सम्यक महेन्द्रेण // 1 // (1) अस्पष्टम् / (2) श्रुतस्य / ( 3) निश्चयेन / ( 4 ) अतीन्द्रियज्ञानाय। (5) अनया कारिकया ‘मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम्' [ तत्त्वार्थसू० 1313] इति सूत्रार्थं समन्वेति / तुलना-"मतिस्मृत्यादयः शब्दयोजनमन्तरेण न भवन्तीत्येकान्तो न यतस्तत्रसंकीर्येरन् / तदेकान्ते पुनर्न क्वचित् स्युः तन्नामस्मृतेरयोगात्, अनवस्थानादेः।" -सिद्धिवि०पू०१०० A. / अनन्तवीर्य विद्यानन्दाभयदेवाद्याचार्याभिप्रायेण शब्दयोजनात् प्राक्कालभाविनां मतिस्मृत्यादीनां मतिज्ञानेऽन्तर्भावः तदुत्तरकालभाविनां तु तेषां श्रुतेऽन्तर्भावः इति / तथा च तेषां ग्रन्थाः-"ननु मत्यादिकं सर्वमभिधानपुरस्सरमेव स्वार्थ प्रत्येति इति शब्दश्रुत एवान्तर्भावोऽस्य, तथा च तच्चिन्तने एवास्य चिन्ता भविष्यतीति पृथगिह चिन्तनमनर्थकमिति चेदत्राह-'शब्दयोजनम्' इत्यादि / मतिस्मत्यादयः शब्दयोजनमन्तरेण न भवन्ति किन्तु तद्योजने सति भवन्ति इत्येवमेकान्तो न, यत एव एकान्तात् तत्र अन्तर्भाव्येरन् इत्यर्थः / यत इति वा आक्षेपे नैव संकीर्येरन् / विपक्षे बाधकमाह-तदेकान्त इत्यादि। स चासौ एकान्तश्च तस्मिन् अङ्गीक्रियमाणे पुनः न क्वचित् बहिरन्तर्वा स्युः मतिस्मृत्यादयः। कुत एतदित्यत्राह-तन्नाम इत्यादि / यस्य नाम्नो योजनात् मतिस्मृत्यादयः तत् तन्नाम इत्युच्यते तस्य स्मृतेरयोगात् ।”-सिद्धिवि० टी० पृ० 100 A. / “संप्रति श्रुतस्वरूपप्रतिपादकमकलंकग्रन्थमनुवादपुरस्सरं 1 कुमति-आ०, ब०। 2 वाभिनि-ब०। 3-बोधकम् ब०, श्र०, -बोधनम् मु० लघी० /