________________ 398 ____ लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० विवेकः स तु तस्मिन् प्रतिभासमानेऽपि न प्रतिभासते भ्रान्तेः' इत्यपरे / 'ग्राह्यग्राहकसंवेदनात्मकत्वात् भेदाऽभेदात्मकं तत्' इत्यन्ये / तान् प्रति इदमाह-दृश्यादृश्यभेदेतरात्मकम् / किं तत् ? चित्तम् ज्ञानं कर्तृ एकं तत्त्वं जीवादि सदसदास्मक भावेतररूपं . साधयति, स्वतः आत्मना इति / ____ कारिकां विवृण्वन्नाह-'चित्रनिर्भासिनः' इत्यादि / चित्रः शबलः मिथ्येतरादिस्वभाविवृतिविवरणम् वाऽपेक्षया यो निर्भासः स यस्य अस्ति तस्य तत्त्वं स्वरूपम् / __ कस्य ? अविभागज्ञानस्य दृश्यम् उपलभ्यं यदि क्रमेणाऽपि न केवलम् अक्रमेण सदसदात्मकं विवर्चेत 'तत्त्वम्' इति सम्बन्धः / उक्तार्थोपसंहार माह-'ततः' इत्यादि / यत एवं ततः तस्मात् सिद्धं निश्चितम द्रव्यपर्यायात्मकं वस्तुतत्त्वं 10 प्रमेयम् / पुनरपि किं विशिष्टम् ? उत्पादव्ययध्रौव्ययुक्तम् / क ? अन्तर्बहिश्च / / ननु उत्पाद-व्यय-ध्रौव्ययुक्तत्वेन जीवादिवस्तुनः सत्त्वे प्रत्येकम् उत्पादादेरपि अपरोत्पा दादियोगात् सत्त्वेन भवितव्यम् , एवं च अनवस्था / स्वतः 'सत्तासमवायात् सत्त्वम् / इति _ तस्य सत्त्वे वस्तुनोऽपि स्वत एव सत्त्वमस्तु . अलं तद्योगात् निराकरणपुरस्सरं उत्पादादि __ सत्त्वकल्पनया; ऐतदप्यसमीचीनम् / यतः सकलशून्यताम् , त्रययोगादेव सत्त्व१५ वस्तुनोऽन्यतः सत्त्वं वा अभिप्रेत्य एवं पर्यनुयुंज्येत ? तत्र व्यवस्थापनम् आद्यः पक्षोऽयुक्तः; सकलशून्यतायाः प्रागेवं प्रपञ्चतः अपास्तत्वात् / द्वितीयपक्षेऽपि उत्पादादेरन्यतः सत्तासम्बन्धात् , अर्थक्रियातः, तत्कारित्वात् , तत्करणयोग्यतातः, प्रमाणसम्बन्धाद्वा वस्तुनः सत्त्वं स्यात् ? तत्र न तावत् सत्तासम्बन्धात् ; अव्यापकत्वात् तस्य, सामान्य-विशेष-समायेषु हि तत्सम्बन्धाऽभावेऽपि सत्त्वं संभवत्येव / 20 न च यदभावेऽपि यद् भवति तत् तद्वथाप्यम् यथा अश्वाऽभावेऽपि भवन रासभः न तद्वथाप्यः, सत्तासम्बन्धाऽभावेऽपि भवति च सामान्यादिषु सत्त्वमिति / न च साधनविकलो दृष्टान्तः / तत्सम्बन्धाऽभावेऽपि परैः तत्र सत्त्वस्याऽभ्युपगमात्। न १-पकम् श्र० / २-द्धमेकं निश्चितम् आ० / 3 इत्यप्यस-ब०, ज०, भां०, श्र०। ४युज्यते श्र० / “यथोत्पादादयः सन्तः परोत्पादादिभिर्विना / तथा वस्तु न चेत् केन अनवस्थादि निवार्यते // 2 // इत्यसत् सर्वथा तेषां वस्तुनः सदसिद्धितः / " तत्त्वार्थश्लो० पृ. 434 / अष्टसह पृ. 112 / 5 पृ० 133 / ६-वायानां सन्तासम्बन्धाभावेऽपि भां०, श्र० / “सत्तायोगाद् विना सन्ति यथा सत्तादयस्तथा / सर्वेऽर्थाः देशकालाश्च सामान्यं सकलं मतम् // " न्यायविनि० 1 / 152 / पृ० 378 पू० / “सत्तासम्बन्ध इष्टश्चेद् वस्तूनां लक्षणं न तत् / असिद्धेः समवायादेः कथं वाऽन्योऽन्यलक्षगम् // 418 // " तत्त्वसं० /